________________
१०८ मन्त्रियशःपालविरचितं
[ चतुर्थोजाङ्गलकः-(स्वगतं ) (१) मोणमेव पत्तकालं ति।
मद्यशेखरः-(२) देव ! सिरिवणराजसमुवजिदरजलच्छीभुयंग ! पसीद । कीदिसो ममावराहो ? जेणाहमेवं परिभविज्ञामि ।
राजा-(स्वगतं ) वनराजस्याहं बहुमतोऽभूवमित्युत्क्षिप्तममुना। भवतु। (प्रकाशं ) दाण्डपाशिक ! एनमपि दूरे धृत्वा विज्ञप्ति कारय ।
(दाण्डपाशिकस्तथाकरोति ।) राजा--(सजुगुप्स) आः सर्वपदार्थापसद ! निजापराधमपि न बुध्यसे। मद्यशेखरः-(३) देव ! जइ हुंज तदो वुज्झे । अवि य
कैण्हेन समं जायवजणेण नणु सेविओ म्हि अविर्यण्हं । रेवयगिरिसिहरेसुं का गणणा इयरलोयाण? ॥४४॥ पणइणिमुहाउ अमयं व मं पडिच्छंति कामिणो लोया। मह सेवासत्ताणं न रोगसोगप्पमुहमेइ ॥४५॥ मह भत्तिपराणं चिय तिपुराई देवयों उ तूसंति । मह सेवाए देवो मओ वि मयणो पुणो जियइ ॥ ४६ ॥ इह धवलहरेसु चिरं चावुक्कडरायलालिओ वसिओ।
एवं च ठिए सामिय ! जं जाणसि तं करिजासु॥४७॥ (१) मौनमेव प्राप्तकालमिति ।
(२) देव ! श्रीवनराजसमुपार्जितराज्यलक्ष्मीभुजङ्ग ! प्रसीद । कीदृशो ममापराधः ? येनाहमेवं परिभूये। (३) देव ! यदि भवेत्ततो बुध्ये । अपि च
कृष्णेन समं यादवजनेन ननु सेवितोऽस्म्यवितृष्णम् । रैवतगिरिशिखरेषु का गणना इतरलोकानाम् ? ॥ प्रणयिनीमुखादमृतमिव मां प्रतीच्छन्ति कामिनो लोकाः । मम सेवासक्तानां न रोगशोकप्रमुखमेति ॥ मम भक्तिपराणामेव त्रिपुरादयो देवता स्तु तुष्यन्ति । मम सेवया देवो मृतोऽपि मदनः पुनर्जीवति ।। इह धवलगृहेषु चिरं चापोत्कटराजलालित उषितः । एवं च स्थिते स्वामिन् ! यजानासि तक्रियताम् ।।
१ B& C होज. २ B&C बुज्छे ३ A कन्हें ४ A यन्हं. ५ B&C देवता. ६ A ठविए.
"Aho Shrutgyanam"