________________
老
कृत्यं न पश्यति न येन हितं शृणोति, धीमानीतमपि न प्रतिसंदधाति ॥
अत्रान्तरे लोभदम्भाभिमानादयो भुजास्फोटाटोप कोलाहलाकुलमिलामण्डलं कुर्बाणा गर्जन्ति स्म । श्रीचौलुक्यसिंहोऽपि ज्ञानदर्पणादवगतसमप्रवैरिबलप्रोत्साहोत्तेजितात्मा तृणमात्रं मोहभूपं गणयन् निजसैन्यं विनाऽपि मोहं जिगीषुः श्रीगुरुप्रसादित (योगशास्त्र) वाकवचं परिधायान्तर्धानकारिविंशत्तिवीतरागस्तवरूपदिव्य गुटिकाञ्श्चोपयुज्य सहजान्तर्द्धानपाटवपटु श्रीमदार्यधर्मराजामात्यपुण्यकेतुज्ञानदर्पणादिस्वल्पसहायः सैन्यप्रच्छन्नवृत्त्या प्रतस्थे । प्राप्तश्च क्षणादेव प्रत्यर्थिस्कन्धावारम् । राजा - भो ज्ञानदर्पण ! दर्शय मोहभूमीशाश्रयम्, येन करोमि तं हतप्रतापं हेलया । ज्ञानदर्पण: - देव ! पुरस्तादालोकमात्रादपि कातरनर कृतज्वरमिदं मोहराजसौधम् । इह
प्रविश्यते ।
ततः प्रविष्टाः सर्वेऽपि । स्थिताः प्रच्छन्नवृत्त्या । कियद्वेलं दृष्टो मोहराजः परितः परिवारश्च । श्रुतास्तदुल्लापा एवम् । तथाहि---
मोह: -
" पुंस्कीटः किल कोऽपि तिष्ठति स च श्रीमोहभूमिपतेः प्राप्तो वैरिपदं रणाय हतको निःशङ्कमुत्तिष्ठते । दोर्दण्डात्रिजगद्विलुण्ठनकलाशौण्डास्तदेखिरा
दुर्बुद्धेरसमञ्जसं व्यवसितं दैवश्य रे ! पश्यत ॥ "
पत्र पापकेत्वमात्यः — हे देव ! मनुष्यमात्रमिति माऽवमंस्था जगदेकवीरं श्रीचौलुक्य नृपतिम् । पश्य पश्य -
यतः-
" अवातरद्धरापीठे, जनस्य सुकृतोदयात् । भावितीर्थङ्करः कोऽपि रूपेणास्य महीपतेः ॥ "
मोहः (सक्रोधम् ) – “ वज्राभिनेव क्षपिताः यत्प्रतापेन भूभृतः । मोहः सोऽहमहो ! कष्टं शृणोम्यरिपराक्रमान् ॥ "
इति वदन् कोपवशान्मोहः समादाय खड्गमासनादुत्थाय च अरे ! क्वाऽसौ दुरात्मा मद्वैरिपोषकः ? । अत्रान्तरे
रागसूनुः तात ! किमिदमस्थानक्केशवैशसम् ? । मयैव ननु विद्धि सिद्धमरिवधकार्यम् ।
गर्जगजेन्द्र भ्रमतः पयोदवृन्देऽपि यः सज्जयति क्रमं स्वम् ।
दृग्गोचरं तस्य गता मृगारे:, किमक्षता याति कुरङ्गजातिः ॥
द्वेषः – देव ! मर्त्यमात्र तपस्विनि कथं महान् सम्भ्रमः ? । किं न विदितमात्मसू नोर्विक्रमललितम् ? | यतः --
दन्तापातैर्महतो महीधान समूलकाएं कषति क्षितौ यः ।
" Aho Shrutgyanam"