________________
सम्प्राप्त एव त्वामभिषेणयितुं ससैन्यश्रीधर्मसहायः श्रीचौलुक्यस्त्वत्पुरासन्ने । तस्मात्तत्रागत्य तदाज्ञामाल्यसुरभितं कुरु स्वशिरः । तदनु श्रुत्वैतन्मोहमहाराजो मुखमोदिकापूर्व प्राह, रे दूत ! वाचाट किमेवं प्रलपसि ? कोऽयं पुष्टिट्टिभः कुमारपालः ? यदेवं निर्वासितवराकधर्मनृपाधमप्रेरितो मां त्रिभुवनागजेयपराक्रममभिभवितुमभिवाञ्छति । न खलु सकलत्रिभुवनाभोगाक्रमणालकीणप्रतापवैभवः श्रीमोहभूमीपालः परोलझेरपीदृशैर्नृपकीटकैर्भापयितव्यः । रे दूताधम ! याहि ज्ञापय स्वराज्ञे समागत एव मोहः। ज्ञानदर्पणः प्रोचे-रे मोहनृपपाश ! किमेवं गर्जसि ? शृणु
" यस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा,
तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तव वल्लभं निजपुरादेशाच निर्वासितम्,
द्यूताद्यं विटपेटकं शितिमुखं तत्कि मुधा गर्जसि ? । मोहराजः पुनरूचे-रे दूत!
असौ धर्मः परं केन, मुखेन प्राप्तवानिह । यो मया लीबपञ्चक्रे, स्थानभ्रष्टो निजीजसा ॥१॥ वर्षीयस्त्वात्पुरो जीवन्मुक्तोऽयं साम्प्रतं मया । करिष्यते रणमुखे, निश्चितं प्रथमाहुतिः ॥ २॥ युक्तं धोऽतिवृद्धत्वाजज्ञे मरणसम्मुखः । परं परार्थ त्वद्रूपः, किं मुमूर्षति मूर्खवत् ? ॥ ३ ॥ हुं ज्ञातं धर्मनन्दिन्या प्रेरितस्तातसम्पदे ।
म्रियतेऽयं हहा! योषिद्वश्यानां कियती हि धीः ॥ ४ ॥ मत्करेण मर्तव्यमेभिरिति विधिलिपिसत्यीकरणायायात एवाहं त्वत्पृष्ठ एव । त्वमपि स्वस्वामिनं धर्म च रणोत्सले दर्शयेः इत्यादिनित्सितः समायातो ज्ञानादशों नृपपार्थे । मोहोऽपि दुर्ध्यानसेनान्यादिवृतो मात्सर्याभेद्यकवचधारी दुष्कृत्यप्रमादास्त्रपरंपराभासुरो नास्तिक्यद्विपारूढः कुशासवादित्रवनित्रासितानेकलोकः क्रोधादिकोटिभटरक्षितः समायातः श्रीचौलुक्यसेनासन्ने । निवेशितं सैन्यम् । आहूय प्रोत्साहिता रागकेशरिप्रमुखा एवं वदन्ति स्म । तथाहिराग:-- अहो ! जाप्रति मयि को धर्मः ? कः कुमारपालः ? यतः--
अहल्यायां जारः सुरपतिरभूदात्मतनयां
प्रजानाथोऽयासीदभजत गुरोरिंदुरबलाम् । इति प्रायः को वा न पदमपदे कार्यत मया,
श्रमो मद्वाणानां क इव भुवनोन्मादिविधिषु ॥ इत्युक्त क्रोधः
अन्धीकरोमि भुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि ।
"Aho Shrutgyanam"