________________
८९
मोहराजपराजयम्। द्यूतकुमारः-(१) मोहकुलनयलचंदकले ! किमेदाणमेक वन्नीयदि ? । तहाहि
जइ मरइ घरे जणणी जणओ वा पणइणी व पुत्तो वा।
तहवि इमे मह सेवं न मुयंति करंति य न सोयं ॥ १२ ॥ अवरं च, चंदमुहि ! निरुवमा इमेसिं सामिभत्ती । जदो
मह सेवाविसयपरम्मुहम्मि देवम्मि देवराए वि।
जायइ अहो ! इमेसिं नीसंकं रंकसंकप्पो ॥ १३ ॥ असत्यकन्दली-(२) अजउत्त ! जदि एवं ता कुदो विलंबीयदि ? । किं न तादपादसमादिट्ठमणुट्टीयदि ?।।
घृतकुमारः-(३) पिएँ ! मित्तवग्गं पडिवालयंतु म्हि । असत्यकन्दली-(४) अजउत्त ! तुह मित्तवग्गं नादुमिच्छामि ।
घृतकुमारः-(५) सुनयणे ! एगो दाव तादमोहदासीए हिंसाए तणओ जंगलओ नाम । अवरो य तादमोहदंडपासियपमाददारओ मजसेहरओ नाम ।
(ततः प्रविशति जाङ्गलकः ।) जाङ्गलकः-( आत्मानं निर्वर्ण्य ) (१) मोहकुलनभस्तलचन्द्रकले ! किमेतेषामेकं वर्ण्यते ? । तथाहि
यदि म्रियते गृहे जननी जनको वा प्रणयिनी वा पुत्रो वा ।
तथापीमे मम सेवां न मुञ्चन्ति कुर्वन्ति च न शोकम् ॥ अपरं च, चन्द्रमुखि ! निरुपमैषां स्वामिभक्तिः । यतः
मम सेवाविषयपराङ्मुखे देवे देवराजेऽपि ।
जायतेऽहो ! एषां निश्शत रङ्कसंकल्पः ।। (२) आर्यपुत्र ! यद्येवं तदा कुतो विलम्ब्यते ? । किं न तातपादसमादिष्टमनुष्टीयते ?। (३) प्रिये ! मित्रवर्ग प्रतिपालयन्नस्मि। (४) आर्यपुत्र ! तव मित्रवर्ग ज्ञातुमिच्छामि ।
(५) सुनयने ! एकस्तावत्तातमोहदास्या हिंसायास्तनयो जाङ्गलको नाम । अपरश्च तातमोहदाण्डपाशिकप्रमाद्दारको मद्यशेखरको नाम ।
१ A मिकं व वनी. २ A & C प्रिये. ३ 0 °मलो. ४ C हरो.
"Aho Shrutgyanam"