SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ :४७ सोपानम् ] आत्मविभुत्वनिरासः। बाधितविषयः, प्रत्यक्षागमयोरस्याविभुत्वप्रदर्शकयोरसम्भवात् । नापि प्रकरणसमः, तथाविधहेत्वन्तरस्याभावात् , तस्मात्सकलदोषरहितादतो हेतोर्विभुत्वसिद्धिरिति मैवम् , सत्ताया असिद्ध्या बुद्धेर्गुणत्वासिद्धौ तदधिष्ठानत्वलक्षणहेत्वसिद्धः, आत्मनो बुद्धभिन्नत्वे समवायस्य सद्भावेऽसद्भावे वा तस्या आत्मगुणत्ववदन्यगुणत्वप्रतिषेधासम्भवेन तस्यैव गुणोऽसावि. त्यसिद्धेश्च । न चात्मसद्भावे भावात्तस्यास्तत्कार्यतया तद्गुणत्वमिति वक्तुं युक्तम् , आकाश- 5 सद्भावेऽपि तस्या भावात्तत्कार्यत्वेन तद्गुणत्वप्रसक्तेः, आत्माभावेऽभावात्तस्यास्तकार्यतया तथास्वमित्यपि न सम्यक्, आत्मनो नित्यत्वेन व्यापित्वेन च तदभावासम्भवात् । अथात्मन्येव तस्याः प्रतीतेस्तद्गुणत्वमिति चेन्न, आत्मनः स्वसंविदितत्वानभ्युपगमेन स्वस्मिन् बुद्धेः प्रत्ययासम्भवात् , ज्ञानान्तरप्रत्यक्षत्वे विवादाच्च । स्वसंविदितत्वानभ्युपगमादेव च स्वात्मन आत्मव्यवस्थितत्वेन बुद्धसा ग्रहीतुमशक्यत्वात् , बुद्ध्यन्तरग्राह्यत्वस्य चासंभवात् , 10 बुद्धेरात्माव्यतिरेके तु आत्मन इव तस्यापि द्रव्यत्वेन प्रतिषिध्यमानद्रव्यत्वे सतीति हेतुविशेषणासिद्धिः, इतरेतराश्रयश्च बुद्धेर्गुणत्व सिद्धौ निराधारगुणासम्भवेन तदाधारस्यास्मनो द्रव्यत्वसिद्धिः, तत्सिद्धौ च द्रव्य प्रतिषेधेन तदाश्रितत्वावद्धेर्गुणत्वसिद्धिरिति । किञ्च यद्यात्माऽप्रत्यक्षो बुद्धिश्च तद्गुणस्तदाऽस्मदाद्युपलभ्यमानत्वं विरुद्धम , अत्यन्तपरोक्षगुणिगुणानामस्मदाद्यप्रत्यक्षताव्याप्यत्वस्य परमाणुरूपादौ निश्चितत्वात् । न च वायुस्पर्शेन 15 व्यभिचारः, वायोः कश्चित्तव्यतिरेकेण तद्वत् प्रत्यक्षत्वात् । बुद्धिश्च यद्यस्मदादिप्रत्यक्षविषया तर्हि तस्या अत्यन्तपरोक्षात्मविभुद्रव्य विशेषगुणिगुणत्वं विरुद्धं स्यात् , घटरूपादावस्मदादिप्रत्यक्षत्वस्यात्यन्तपरोक्षगुणिगुणत्वाभावव्याप्यत्वनिश्चयात् । अतो बुद्धिर्यद्यस्मदादिप्रत्यक्षविषया न तत्यन्तरोक्षात्मविशेगुणरूपा, तथाभूता यदि न त_स्मदादिप्रत्यक्षविषयेति अस्मदाद्युपलभ्यमानत्वलक्षणं हेतुविशेषणमसिद्धम् । आत्मा प्रत्यक्षविषयो नात 20 उक्तदोष इति चेत्तर्हि तस्य हर्षविषादाद्यनेकविवर्तात्मकस्य देहमात्रव्यापकस्य स्वसंवेदन: प्रत्यक्षसिद्धतयाऽनुमानतो विभुत्वसाधनमसङ्गतं स्यात् । पक्षधर्मताविशिष्टहेतुसद्भावमात्रेण विभुत्वाभ्युपगमे पक्कान्येतानि फलानि, एकशाखाप्रभवत्वात् , उपभुक्तफलवदित्यप्यनुमानं भवेत् , न चास्य प्रत्यक्षबाधा, प्रकृतेऽपि समानत्वात , अनुमानस्य प्रत्यक्षपूर्वकत्वाभ्युपगमाञ्च नानुमानेन स्वसंवेदनलक्षण प्रत्यक्षस्य बाधितत्वम् , तथाविधप्रत्यक्षस्याप्रामाण्यसाधकस्याप- 25 रस्य कस्यचिदभावाच्च । तदेवं बुद्धिलक्षणो गुणो यद्यस्मदाद्युपलभ्यस्तदा हेतोः कालात्ययापदि. ष्टता, यदि चानुपलभ्यः तर्हि विशेषणासिद्धत्वम् । तथा व्यभिचारश्च परमाणूनां नित्यत्वे सत्यस्मदाद्युपलभ्यमानपाकजगुणाधिष्ठानत्वेऽपि विभुत्वाभावात् । न च परमाणुपाकजगुणा अप्रत्यक्षा इति वक्तव्यम् , तथा सति कार्यत्वेन बुद्धिमत्कारणत्वे साध्ये व्याप्तिग्रहणा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy