SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ सप्तमम् सम्भवात् , तेऽपि हि कार्यत्वेनाभिमताः, तेषाञ्च व्याप्तिज्ञानेनाविषयीकरणे कथं बुद्धिमत्कारणत्वेन व्याप्तिसिद्धिर्भवेत् तथा च कार्यत्वं हेतुरेतैरेव शङ्कितव्यभिचारी स्यात् । तत्र च व्यभिचारवारणाय यदि नित्यत्वे सत्यस्मदादिबाह्येन्द्रियोपलभ्यमानगुणाधिष्ठानत्वादित्युच्यते तर्हि तस्य बुद्धावभावेन हेतोर्विशेषणासिद्धत्वं स्यात् । एवमा5 काशलक्षणो दृष्टान्तो हेतुसाध्यविकलः, तयोस्तत्रासिद्धेः । न च तेनैव हेतुनाऽऽत्मदृष्टान्तेन शब्दाधिकरणस्य तस्य विभुत्वसिद्ध्या न साध्यविकलता, अस्मदाद्युपलभ्यमानशब्दलक्षणगुणाधिष्ठानत्वस्य तत्र सिद्धत्वाच्च न साधनविकलतेति वाच्यम् , इतरेतराश्रय. प्रसङ्गात् , सिद्धे ह्यात्मनो विभुत्वे तदृष्टान्तेनाकाशस्य विभुत्वसिद्धिः, तसिद्धेश्चात्मनो विभुत्वसिद्धिरिति । तथा शब्दम्य गुणत्वमप्यसिद्धम् , न च प्रतिषिध्यमानद्रव्यकर्मत्वे सति 10 सत्तासम्बन्धित्वात्तस्य गुणत्वं सिद्ध्यतीति वाच्यम् , सत्तायास्तत्सम्बन्धस्य समवायस्य चा भावेन विशेष्यासिद्धेः शब्दस्य द्रव्यत्वेन विशेषणासिद्धेश्च । यद्धि क्रियावत्तद्रव्यं दृष्टं यथा शरादिः, क्रियावांश्च शब्दस्तस्माद्रव्यम् , निष्क्रियत्वे तु तस्य श्रोत्रेण सह सम्बन्धाभावात्ततो ग्रहणं न स्यात् , तथापि तस्य ग्राहकत्वेऽप्राप्यकारित्वापत्तिः स्यात् । तत्स म्बन्धकल्पनान्न दोष इति चेत्तर्हि शब्ददेशं गत्वा यदि श्रोत्रमभिसम्बध्यते तदा श्रोत्रस्य स्वा15 दृष्टाभिसंस्कृतकर्णशष्कुल्यवरुद्धाकाशरूपत्वं न स्यात् , आकाशस्य निष्क्रियत्वात् , सक्रिय त्वेऽपि श्रोत्रं शब्ददेशं गच्छतीति प्रतीत्यभावात् । अन्तरालवर्तिनामन्यशब्दानां ग्रहणप्रसमात्, अनुवासप्रतिवाततिर्यग्वातेषु प्रतिपत्त्यप्रतिपत्तीपत्प्रतिपत्तिभेदाभावप्रसङ्गाच, गच्छतश्श्रोत्रस्य तत्कृतोपकाराद्ययोगात् । यदि तु शब्दस्य श्रोत्रदेशे आगमनमुच्यते तर्हि न तस्य गुणत्वं गुणस्य निष्क्रियत्वात् , तथा च सक्रियत्वाव्यत्वमेव तस्य । न च वीचीतरङ्ग20 न्यायेन श्रोत्रदेशे समुत्पन्न एव शब्दस्तेन गृह्यते न वाद्य एव तत्रागच्छतीति वाच्यम् , तथा सति तुल्ययुक्त्या पूर्वपूर्वशरादिप्रभवाणामन्येषामेव शरादीनां लक्ष्यदेशसमुद्भूतानां तेनाभिसम्बन्ध इति स्वीकारप्रसङ्गात् , इष्टापत्तौ सर्वत्र क्रियाया अभावप्रसङ्गेन क्रियाव. द्रव्यमिति द्रव्यलक्षणमसम्भवि स्यात् । न च शरादौ प्रत्यभिज्ञानादेकत्वमिति वक्तव्यम, देवदत्तोच्चारितं शब्दं शृणोमीति प्रत्यभिज्ञयाऽत्राप्येकत्वस्य सिद्धत्वात् । न चेदं प्रत्यभि25 हानं सादृश्यनिबन्धनम् , शरादिप्रत्यभिज्ञानस्यापि तथात्वप्रसङ्गात् । न च शब्दैकत्वप्र त्यभिज्ञानं बाधितमिति वक्तुं शक्यम्, तत्क्षणिकत्वविषयकप्रत्यक्षस्य विवादविषयत्वेन सद्बाधकत्वायोगात् । प्रत्यभिज्ञायास्त्वया मानसप्रत्यक्षाभ्युपगमेन तया क्षणिकत्वसाधकानुमानस्यैव बाधनात्, अत एव क्षणिकः शब्दः, अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् ज्ञानादिवदित्यनुमानमपास्तम् , प्रत्यभिज्ञाप्रत्यक्षबाधितत्वात् धर्मा "Aho Shrutgyanam
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy