SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] आत्मविभुत्वनिरसमम् । देविभुद्रव्यविशेषगुणत्वेऽपि क्षणिकत्वाभावेन व्यभिचाराच्च । न च विशिष्टस्य हेतोस्तत्राभावान्न व्यभिचार इति वाच्यम् , अस्मदादिप्रत्यक्षत्वस्य विपक्षणा विरोधात् ! विपक्षविरुद्धं हि विशेषणं ततो हेतुं निवर्त्तयति, यथाऽहेतुकत्वं ततः कादाचित्कत्वं निवर्तयति, न चास्मदादिप्रत्यक्षत्वं अक्षणिकत्वविरुद्धम, अक्षणिकेष्वपि सामान्यादिषु भावात् , ततो यथाऽस्मदादिप्रत्यक्षा अपि केचित्क्षणिकाः प्रदीपादयः, अपरेऽक्षणिकाः सामान्यांदयः । तथाऽस्मदादिप्रत्यक्षा अपि विभुद्रव्यविशेषगुणाः केचित् क्षणिका अपरेऽक्षणिका भविष्यन्तीति संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिको हेतुः । न च तादृशविशिष्टो हेतुरक्षणिके न दृष्ट इति ततो व्यावृत्त इति वाच्यम् , स्वसम्बन्ध्यदर्शनस्य परलोकादिनाऽनैकान्तिकत्वात् , सर्वसम्बन्धिनोऽसिद्धत्वाच्च । धर्माधर्मादेश्वास्मदाद्यप्रत्यक्षत्वे देवदत्तं प्रत्युपसर्पन्तः पश्चादयो देवदत्तगुणाकृष्टाः देवदत्तं प्रत्युपसर्पणवत्त्वात् यथा ग्रासादिरित्यनुमानं तत्साधकं न स्यात् 10 व्याप्तेरग्रहणात् , तथाप्यनुमाने यतः कुतश्चित् यत्किञ्चिदवगम्येत । प्रासादेर्देवदत्तं प्रत्युपसर्पणस्य देवदत्तप्रयत्नगुणाकृष्टत्वेन व्याप्तिदर्शनात्तस्यैव तत्पूर्वकत्वानुमानं स्यात् तस्य च वैयर्थ्यात्। न च पश्वादेरपि देवदत्तं प्रत्युपसर्पणस्य देवदत्तप्रयत्नसमानगुणाकृष्टत्वेन व्याप्तिः प्रतीयत इति वाच्यम् , प्रयत्नसमानगुणस्य पश्वादेर्देवदत्तं प्रत्युपसर्पणस्य वाऽप्रतिपत्तौ तदाकृष्टत्वेन व्याप्त्यसिद्धेः, न हि प्रयत्नाप्रतिपत्तौ तदाकृष्टत्वेन प्रतिपन्नस्य प्रासादेर्देवदत्तं प्रत्युप- 15 सर्पणस्य व्याप्तिप्रतिपत्तिः, तत्प्रतिपत्तिश्च यदि तेनैवानुमानेन तदाऽन्योऽन्याश्रयः, व्याप्तिसिद्धावनुमानं तत्सिद्धौ व्याप्तिसिद्धिरिति, न चास्ति तज्ज्ञापकं मानान्तरमतो मानसप्रत्यक्षेण सा गृह्यत इति स्वीकार्यम, अतः समाकर्षकस्य प्रयत्नसमानगुणस्याकृष्यमाणपश्वादेश्वास्मदादि प्रत्यक्षत्वे धर्मादेरपि प्रत्यक्षत्वमेवेति । अस्मदादिबाह्यप्रत्यक्षत्वे सतीति तु न वाच्यम् ज्ञानादेस्तथाऽप्रत्यक्षतया दृष्टान्तस्य साधनविकलत्वात् । ज्ञानादेत्रिभुद्रव्यविशेषगुणत्वासिद्ध्या 20 दृष्टान्तः साधनशून्यः, साध्यशून्यश्च ज्ञानादेः क्षणिकल्पासम्भवात् अन्यथा न ततः संस्कारः तदभावान्न स्मरणं तदभावाञ्च न प्रत्यभिज्ञादिव्यवहारः, विनष्टात् कार्यानुत्पादात्, अन्यथा चिरविनष्टादपि स्यात् , अनन्तरस्य कारणत्वे तु सर्वमनन्तरं कारणं स्यात् । तस्मान क्षणिकत्वं शब्दस्येति सक्रियत्वाद्रव्यतैव । तथा गुणवत्त्वाच्छब्दो द्रव्यं, लोष्ठादीनामिव स्पर्शवत्वात्तस्य गुणवत्त्वम् , तत्र च स्पर्शाभावे कांस्यपाञ्यादिध्वनिसम्बन्धेन कर्णशडकुल्या अभिघातो 25 न स्यात् । अल्पः शब्दो महान् शब्द इति प्रतीत्या अल्पमहत्वाभिसम्बन्धादपि तस्य द्रव्य १ तथा च कथञ्चिद्रव्यं शब्दः, क्रियावत्वात् , बाणादिवदिति प्रयोगः, अत्र परिस्पन्दरूपक्रियया क्रियावक्त्वं ग्राह्यम्, तेनास्ति भवतीत्यादिधात्वर्थलक्षणक्रियया क्रियावस्वेऽपि गुणादौन व्यभिचारः ॥ "Aho Shrutgyanam" |
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy