SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वतोपाने [ सप्तमम् त्वम् । न चाल्पमहत्त्वे न परिमाणरूपे, इयत्तानवधारणात् , शब्दोऽयं महानित्यध्यवस्यन् हि न इयानित्यवधारयतीति वाच्यम् , वायोरियत्तानवधारणेऽपि अल्पमहत्वयोः सम्भवेन व्यभिचारात्, न हि बिल्वबदरादेरिव तत्रेयत्तानिर्णयः । तत्र सत्यपीयत्ताऽप्रत्यक्षवाद्वायोः न निर्णीयते, शन्दस्य प्रत्यक्षतया स्यादेव तन्निर्णय इति चेन्न, स्पर्शविशेषरूपस्य वायोरप्रत्य5 क्षत्वांसिद्धेः । इयत्तायाश्व परिमाणभिन्नत्वेऽन्यस्यानवधारणेऽपरस्याभावो न युक्तोऽतिप्रस. मात् । परिमाणरूपत्वे तु अल्पमहत्त्वपरिमाणनिर्णये कथं न तदवधारणम, अन्यथा बिल्वादावपि तथाप्रसङ्गात् । किम्वाल्पमहत्त्वयोः परिमाणरूपत्वाभावे शब्दे ते किरूपे इति वक्तव्यम् , न च गुणवृत्तित्वादवान्तरजाति विशेषस्वरूपे इति वक्तुं शक्यम , शब्दस्य गुणत्वासिद्धेः, तस्मात्तयोः परिमाणरूपतया गुणवत्त्वाष्ट्रव्यं शब्दः । पांवादय इव वायुनाऽभि10 हन्यमानतया संयोगाश्रयत्वाच्छब्दो द्रव्यम , वायुना शब्दस्याभिघातोऽपि देवदत्तं प्रत्याग. च्छतः प्रतिकूलेन वायुना प्रतिनिवर्त्तनात्सिद्धः, प्रतिनिधर्तनमपि अन्यदिगवस्थितेन श्रवणात्सिद्धम् । न च गन्धादीनामागच्छता वायुना निवृत्तिदृष्टा, तेषाम्न मुणत्वेन न वायुना संयोग इति वाच्यम् , तद्वतो द्रव्यस्यैव तेन निर्वर्तनात् , केवलानाश्च गन्धादीनां निष्क्रिय त्वेनागमनपरावर्तनासम्भवात् । न चान तद्वतो निवर्तनम् , आकाशस्य सर्वगत्वेनाक्रिय. 15 त्वात् , न वाऽसंयुक्तस्य शब्दस्य निवर्तनम् , सर्वस्य निवर्तनप्रसङ्गात् । एकत्वादिसंख्या वत्वादपि शब्दो गुणवान् , प्रतीयते हि एकः शब्दो द्वौ शब्दौ बहवशब्दा इति, तस्मात् क्रियागुणवत्वाच्छब्दस्य द्रव्यतया प्रतिषिध्यमानद्रव्यत्वलक्षणं हेतुविशेषणमसिद्धम् । एकद्रव्यत्वमपि शब्दस्य न द्रव्यत्वाभावसाधकम् , एकद्रव्यसंयोगित्वस्य तदर्थत्वे विरुद्धत्वात् , संयोगित्वस्य द्रव्यधर्मत्वात् । समवायस्य निरस्ततया नैकद्रव्यसमवेतत्वं तदर्थः सम20 वायसत्त्वेऽपि शब्दस्य गुणत्वसिद्धावेवैकद्रव्यसमवेतत्वसिद्धेः । अनेकद्रव्यः शब्दोऽस्म दादिप्रत्यक्षत्वे सति स्पर्शवत्त्वात् , घटादिवदिति प्रत्यनुमानेन बाधितत्वान्न सामान्यविशेषवत्वे सति बाबैकेन्द्रियप्रत्यक्षत्वं तस्यैकद्रव्यत्वसाधकम् , वायोस्तथात्वेऽपि नैकद्रव्यत्वाद्यभिचारश्च । सत्तासम्बन्धित्वमपि यदि स्वरूपसत्तासम्बन्धित्वरूपं तदा सामान्या दिभिर्व्यभिचारः प्रतिषिध्यमानद्रव्यकर्मत्वे सति निरुक्तसत्तासम्बन्धित्वेऽपि गुणत्वाभा25 वात् । तेषाश्च स्वरूपसत्ताभावे खपुष्पादेरविशेषप्रसङ्गात् । यदि तु भिन्नसत्तासम्बन्धित्वरूपं तदा तादृशसत्ताया अभावेन शब्दस्यापि तत्सम्बन्धित्वासिद्धिः । तस्माच्छब्दस्य गुणत्वासिद्धेनित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वस्याकाशेऽसिद्धेः साधन विकलो दृष्टान्तः । एतेन ज्ञानं परममहत्त्वोपेतद्रव्यसमवेतं, विशेषगुणत्वे सति प्रदेशवृतित्वात् शब्दवदित्यपि प्रत्युक्तम् , अन्योऽन्याश्रयात् ज्ञानस्य परममहत्त्वोपेतद्रव्यसमवेतत्वे सिद्धे तद्दष्टान्ततः "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy