SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] आत्मविभुत्वनिरसनम् । शब्दस्य तसिद्धिः, तत्सिद्धेश्च तदृष्टान्तेन ज्ञानस्य तत्सिद्धिरिति ! ज्ञानस्य चात्माभेदे तस्यापित्वमिति न प्रदेशवृत्तित्वम् , तथापि तद्वृत्तित्वे ज्ञानेतरस्वभावतयाऽनेकान्तत्वसिद्धिरात्मनः । आत्मभेदे तु ज्ञानस्यात्मगुणत्ववदन्यगुणत्वाप्रतिषेधाद्विशेषगुणत्वासिद्धिः, आत्मनस्त्वया प्रदेशानभ्युपगमेन तद्वृत्तित्वस्यासिद्धिश्च, कल्पितप्रदेशस्वीकारे च तद्वृत्तित्वलक्षणो हेतुरपि कल्पित इति न तत: साध्यसिद्धिः, अन्यथा सर्वतः सर्वस्य सिद्धिः स्यात् । अहमिति 5 स्वसंवेदनप्रत्यक्षेणात्मनः स्वदेहमात्रव्यापकत्वेन हर्षविषादाद्यनेकविवर्तात्मकस्य सिद्धत्वाद्विभुत्वसाधकतयोपन्यस्यमानः सर्व एव हेतुः प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः । एवं सत्प्रतिपक्षश्च तव हेतुः देवदत्तात्मा देवदत्तशरीरमात्रव्यापकः, तत्रैव व्याप्योपलभ्यमानगुणत्वात् , यो यत्रैव व्याप्त्योपलभ्यमानगुणः स तन्मात्रव्यापकः, यथा देवदत्तस्य गृहे एव व्याप्त्योपलभ्यमानभास्वरत्वादिगुणः प्रदीपः देवदत्तशरीर एव व्याप्योपल- 10 भ्यमानगुणस्तदात्मा इत्यनुमानस्थ सद्भावात् , तदात्मनो हि ज्ञानादयो गुणास्तद्देह एव व्यायोपलभ्यन्ते न परदेहे, नाप्यन्तराले । न च देवदत्ताङ्गनाङ्गं देवदत्तगुणपूर्वकम् , कार्यत्वे सति तदुपकारकत्वात् , ग्रासादिवदित्यनुमानेन कारणस्य कार्यदेशे सन्निधानावश्यकत्वात्तदङ्गना प्रादुर्भावदेशे तत्कारणतद्गुणसिद्ध्याऽसिद्धस्तव हेतुरिति वाच्यम् ,यतो यदि तद्गुणा ज्ञानदर्शनसुखवीर्यस्वभावास्ते च तदननाङ्गे तदन्तराले च वत्तन्त इत्युच्यते तन्न सम्यक् , संवेदन- 15 स्वरूपाणां ज्ञानदर्शनसुखानां तत्र वृत्तितयाऽप्रतीतेः, शक्तिस्वरूपस्य वीर्यस्य च क्रियानुमेयतया देवदत्तशरीर एव क्रियादर्शनेन तत्रैव तस्यानुमानात् । नापि धर्माधर्मों तदङ्गनादिकार्यनिमित्तभूतौ तद्गुणशब्देन विवक्षिताविति वक्तुं युज्यते, अस्वसंविदितत्वेनाचेतनत्वात्तयोः शब्दादिवत्तदात्मगुणत्वासम्भवात् । सुखादीनाश्च स्वसंविदितत्वेन चेतनरूपतया नाचेतनत्वं व्यभिचारि, अभिमतपदार्थसम्बन्धसमय एव हि स्वसंवेदनरूपाहादस्वभावस्य 20 तदात्मनोऽनुभवः, अन्यथा सुखादेः स्वयमननुभवादनवस्थादोषप्रसङ्गादन्यज्ञानेनाप्यननुभवे सुखस्य परलोकप्रख्यताप्रसक्तिः । न च धर्माधर्मयोर्ज्ञानरूपत्वाद् बौद्धदृष्ट्या ज्ञानस्य च खग्रहात्मकत्वादसिद्धो हेतुरिति वाच्यम, तयोः स्वरूपग्रहणात्मकत्वे सुखादाविव विवादाभाव. प्रसक्तः, अस्ति चासौ, तत्रानुमानोपन्यासान्यथानुपपत्तेः । न हि लौकिकपरीक्षकयोः प्रत्यक्षं कर्मेति व्यवहारसिद्धम् । नाप्यचेतनत्वे तयोस्तदात्मगुणत्वे न विरोध इति शङ्कथम् , अचे- 25 तनस्य चेतनगुणत्वासम्भवात् । न वा धर्माधर्मयोरभावादाश्रयासिद्धता हेतोः, चेतनस्य स्वपर १ शुभाशुभफलसंस्कारस्वरूपा ज्ञानविशेषात्मिका वासना कर्मेत्युच्यते बौद्धैः॥ २ धर्माधर्मलक्षणस्य ह्यदृष्टस्यात्मगुणत्वे आत्मपरतंत्रताहेतुर्न भवेत् , न खलु यो यस्य गुणः स तस्य पारतंत्र्यनिमित्तम् , यथा पृथिव्यादेः रूपादिः आत्मगुणश्च धर्माधर्मादिसंज्ञकं कर्म परैरभ्युपगम्यतेऽतो न तदात्मनः पारतंत्र्यनिमित्तं स्यात् , तस्मान्नेदं कर्माऽऽत्मगुणरूपम् , किन्त्वचेतनं पुद्गलात्मकमेवेति तात्पर्यम् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy