SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपाने [ सप्तमम् ज्ञस्य हीनमातृगर्भस्थानप्रवेशः तत्सम्बद्धान्यनिमित्तः, तदनन्यनेयत्वे सति तत्प्रवेशात् , मत्तस्याशुचिस्थानप्रवेशवत् , योऽसावन्यः स द्रव्यविशेषो धर्मादिरिति । पूर्वशरीरपरित्यागेन शरीरान्तरगमनस्य पूर्व प्रसाधितत्वान्न तत्प्रवेशस्यासिद्धता। कार्यत्वे सति तदुपकारकत्वादित्यत्र कार्यत्वे सतीति विशेषणं व्यर्थ, सति सम्भवे व्यभिचारे च विशेषणोपादानस्य सार्थकत्वात् , 5 प्रकृते च न व्यभिचारः तद्गुणपूर्वकत्वाभावे कस्मिँश्चिन्नित्ये तदुपकारकत्वस्यादर्शनात् , कालेश्वरादौ दृष्टमिति चेत्, न कालेश्वरादिकमतद्गुणपूर्वकमपि यदि तदुपकारक तर्हि कार्यमपि किश्चिदतगुणपूर्वकं तदुपकारकं स्यादिति संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिको हेतुः । तस्मान्न तत्रैव व्याप्त्योपलभ्यमानगुणत्वहेतोरसिद्धता । न च तदेहव्यापकतयैवोपलभ्य मानगुणोऽपि तदात्मा सर्वगतो निजदेहैकदेशवृत्तिर्वा स्यादविरोधात्, अतः संदिग्धविपक्षव्या10 वृत्तिकत्वादनैकान्तिको हेतुरिति वाच्यम , वाय्वादावपि तथाभावप्रसङ्गेन प्रतिनियतदेशस. म्बद्धपदार्थव्यवहारोच्छेदप्रसक्तेः । यद्धि यथा प्रतिभाति तत्तथैव सद्व्यवहारपथमवतरति, यथा प्रतिनियतदेशकालाकारतया प्रतिभासमानो घटादिकोऽर्थः । अन्यथा प्रतिभासमाननियतदेशकालाकारस्पर्शविशेषगुणोऽपि वायुः सर्वगतः स्यात्, न चात्र प्रत्यक्षबाधा, त्वया तस्य परोक्षत्वोपवर्णनात् । स्वदेहैकदेशवृत्तित्वे सर्वत्र शरीरे सुखादिगुणानुपलब्धिप्रसङ्गः 15 तथा सर्वत्रोपलभ्यमानगुणोऽपि वायुरेकपरमाणुमात्रः स्यात् , अनुक्रमेण सर्वदेहभ्रमणात् तस्य तत्रोपलब्धिरिति चेन्न, युगपत्तत्र सर्वत्र सुखादिगुणस्योपलम्भात् | न चाशुवृत्तेयॊगपद्याभिमानः, अन्यत्रापि तथाप्रसङ्गात् , शक्यं हि वक्तुं घटादिरप्येकावयववृत्तिः, आशुवृत्तेयुगपत्सर्वेष्ववयवेषु प्रतीयत इति । तस्मान्नानकान्तिको हेतुः, एवञ्च निर्दृष्टादस्माद्धेतोः केशन खादिरहितशरीरमात्रव्यापकस्यात्मनः सिद्धया स्थानमनुपमसुखमुपगतानामिति युक्तमुक्तम् ।। 20 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य आत्मविभुत्वनिरसनं नाम सप्तमं सोपानम् ॥ अथ परेष्टमोक्षखण्डम् । ननु तथापि स्थानमनुपमसुखमुपगतानामित्ययुक्तम , आत्यन्तिकबुद्ध्यादिविशेषगुणध्वंसयुतस्यात्मन एव मुक्तिस्वरूपतया तस्यानुपमसुखत्वे मानाभावात् , न चेहशस्य मुक्तित्वे प्रमाणं नास्तीति वक्तव्यम् , बुद्ध्यादिविशेषगुणसन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् प्रदीपसन्तानवदित्यनुमानसद्भावात , बुद्धयादिषु सन्तानत्वस्य सत्त्वान्नासिद्धता हेतोः, प्रदीपादौ सा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy