SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] परेष्टमोक्षविध्वंसनम् । ध्यसमानधर्मिणि सत्वान्न विरुद्धत्वं, विपक्षे परमाण्वादावभावान्नानकान्तिकत्वम , साध्याभावसाधकयोः प्रत्यक्षागमयोरनुपलम्भान्न कालात्ययापदिष्टत्वं, साध्याभावव्याप्तहेत्वन्तरस्य तत्राभावान सत्प्रतिपक्षत्वमिति पश्चरूपत्वात्प्रमाणम् । तत्सन्तानोच्छेदे हेतुश्च मिथ्याज्ञानादिव्यकच्छेदद्वारा तत्त्वज्ञानमेव, शुक्तिकादौ मिथ्याज्ञाननिवृत्तेः सम्यग्ज्ञानसाध्यत्वेनोपलम्भान्न तत्त्वज्ञानस्य मिथ्याज्ञानव्यवच्छेदासामर्थ्यम् । न च सम्यग्ज्ञानस्य उत्तरकालभाविना मिथ्याज्ञाने- 5 नापि विरोधः स्यादिति वाच्यम् , मिथ्याज्ञानस्यासदर्थत्वेन दुर्बलत्वात् , सम्यग्ज्ञानस्य तु सत्यार्थत्वादलीयस्त्वेन तदुच्छेदकत्वात् तथा च निवृत्ते मिथ्याज्ञाने तन्मूलत्वाद्रागादयो न भवन्ति कारणाभावे कार्यानुत्पत्तेः, तदभावे च तत्कार्यरूपप्रवृत्तेरभावस्ततश्च धर्माधर्मयोरनुत्पत्तिः आरब्धकार्ययोश्वोपभोगात् सश्चितयोश्च तत्त्वज्ञानादेव प्रक्षय इति, अत्रोच्यते, सन्तानत्वलक्षणो हेतुराश्रयासिद्धत्वादिदोषदुष्टः, त्वया बुद्ध्यादीनां ज्ञानान्तरपाद्यतास्वीका- 10 रात्तत्र चानवस्थानात् , अवेद्यतयाऽज्ञातस्य च सत्त्वासिद्धेः । तथा स्वरूपासिद्धः सन्तानत्वस्य सामान्यात्मकत्वे बुद्ध्यादिविशेषगुणेषु प्रदीपे च तेजोद्रव्ये सत्त्वातिरिक्तस्योभयसाधारणस्यापरसामान्यस्यासम्भवात् । सत्तास्वरूपत्वे तु तस्य सत् सत् इति प्रत्यये हेतुत्वमेव स्यान तु सन्तानप्रत्ययहेतुत्वम् , सन्तानत्त्वस्य विशेषगुणमात्राश्रितजातिरूपत्वे तस्य दृष्टान्ते प्रदीपेऽभा. वेन स साधनविकलो भवेत् । स्वाधारसर्वगतस्यैकस्य सामान्यस्य प्रतिवाद्यसिद्धत्वेन प्रतिवाद्य- 15 सिद्धोऽपि । समवायस्याभावेन बुद्धयादिषु व्याप्त्या तस्य वर्तमानत्वमप्यसिद्धम् , समवायाङ्गीकारेऽपि तस्य तत्र वृत्तित्वमिव आकाशादिष्वपि नित्येषु तस्य सद्भावादनैकान्तिकोऽपि । न च सम्बन्धाविशेषेऽपि सम्बन्धिनोर्विशेषात्सन्तानत्वं बुद्ध्यादिष्वेव वर्तते नाकाशादाविति वाच्यम् , अन्योन्याश्रयात् , सिद्धे हि समवायस्याकाशादिव्यवच्छेदेन बुद्ध्यादिवृत्तित्वे विशेषत्वसिद्धिः, तत्सिद्धेश्चान्यपरिहारेण तद्वृत्तित्वसिद्धिरिति । सर्वत्र समवायस्याविशेषेऽपि 20 बुद्ध्यादिविशेषगुणसन्तानत्वयोः प्रतिनियताधाराधेयभावो यदि सिद्धस्तर्हि समवायाभ्युपग. मो व्यर्थः, तद्व्यतिरेकेणापि तयोस्तद्रूपतासिद्धेः । न च समवायिनोर्विशेषरूपत्वान्यथानुपपत्त्या न समवायपरिकल्पनं किन्तु प्रमाणसिद्धत्वादिति वाच्यम् , तद्राहकप्रमाणाभावात् , स हि किं सर्वेषु समवायिषु अनुगतैकस्वभावोऽभ्युपगम्यते व्यावृत्तस्वभावो वा, नाद्यः तस्य समवायत्वायोगात् , नित्यस्य सतोऽनेकवृत्तेः सामान्यस्य त्वया समवायत्वानभ्युप. 35 गमात् । न द्वितीयः, सर्वतो व्यावृत्तस्वभावस्यान्यासम्बन्धित्वेन नीलस्वरूपवत समवाय. त्वानुपपत्तेः । निर्विकल्पकं सविकल्पकं वा प्रत्यक्षं न तावत्तत्स्वरूपस्यापि ग्राहकं किमुताने १ समवायस्याश्रयतयाभिमतव्यक्तिदर्शनसमये समवायः स्वरूपतो बहि ह्याकारतया हि न प्रतीतिपथमवतरन्नुद्भाति, बहिह्यिाकारतयाऽवभासच बहिरर्थव्यवस्थाकारी. कल्पनाधीरपि दर्शनदृष्टभेव बहिरुल्लिखन्ती प्रतिभातीति दर्शनाभावे सापि न प्रवर्तत इति न समवायस्वरूपग्रहमिति भावः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy