SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपामे | अष्टमम् कानुगतैकत्वलक्षणतद्विशेषरूपस्य । न च सम्बन्धत्वेनाध्यवसीयत इति युक्तम् , स हि किं सम्बन्ध इति बुद्ध्या उत इहेतिबुद्ध्या किं वा समयाय इति बुद्ध्या अध्यवसीयते, आये कोऽसौ सम्बन्धः, किं सम्बन्धत्वजातियुक्तः, आहोरिवदनेकोपादानजनितः, उत अनेकाश्रितः, किं वा सम्बन्धबुद्धिविषयः अथवा सम्बन्धबुद्ध्युत्पादकः, नाद्यः समवायस्या. 5 सम्बन्धवप्रसङ्गात् , तत्र त्वया जात्यनभ्युपगमात् । न द्वितीयः, घटादेरपि सम्बन्धत्व. प्रसङ्गात् । न तृतीयः, घटजात्यादेः सम्बन्धत्वप्रसङ्गात् । न तुर्यः, घटादिष्वपि सम्बन्धशब्दव्युत्पादने कृते सम्बन्धज्ञानविषयत्वेन तेषां सम्बन्धवप्रसङ्गात् । सम्बन्धेतरयोरेकज्ञानविषयत्वे इतरस्यापि सम्बन्धरूपताप्रसङ्गाच्च । न चरमः, चक्षुरादेरपि सम्बन्धत्वापत्तेः । न चेहबुद्ध्यवसेयत्वं समवायस्य, तदुद्धरधिकरणाभ्यवसायरूपत्वात् , न ह्यन्यस्मिन्नाकारे 10 प्रतीयमानेऽन्याकारोऽर्थः कल्पयितुं युक्तोऽतिप्रसङ्गात् । नापि समवायबुद्ध्या स प्रतीयते, तदुद्धेरनुपपत्तेः, न ह्येते तन्तवः, अयं पटः, अयश्च समवाय इति परस्परं भिन्नतया त्रयं कस्यांचित् प्रतीतौ प्रतीयते, तथानुभवाभावात् । प्रत्यक्षाभावे च तत्पूर्वकानुमानस्याप्य. प्रवृस्या न तेन स प्रतीयते । सामान्यतो दृष्टानुमानमपि समवायजन्यकार्यानुपलब्ध्या नात्र प्रवर्तते, न च इह तन्तुषु पट इतिप्रत्ययः सम्बन्धनिमित्तः, अबाधितेहप्रत्ययत्वात् , 15 इह कुण्डे दधीति प्रत्ययव दित्यनुमानमुखेनेहबुद्धिरेव समवायज्ञापिकेति वाच्यम् , विक ल्पानुपपत्तेः, अनेन हि किं निमित्तमात्रं प्रतीयते सम्बन्धो वा, निमित्तमात्रप्रतीतौ सिद्धसावनम् , द्वितीयेऽपि स किं संयोगः उत समवायः, न प्रथमः, अभ्युपगतसमवायासिद्धेः । अन्त्ये च व्याप्त्यभावः, न चान्यसम्बन्धे सत्यन्यस्य गमकत्वम् , न हि देवदत्तेन्द्रियघटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकमर्थ करणत्वात् प्रकाशयद् दृष्टम् , 20 तस्मान्न समवायः कस्यचित्प्रमाणस्य गोचरः। असम्बद्धस्य तस्य सम्बन्धत्वासम्भवेन तत्र सम्बन्धान्तराभ्युपगमेऽनवस्था च । अतः समवायासिङ्ख्या बुद्धयादिसन्तानेषु सन्तानत्वं न तेन सम्बन्धेन वृत्तिमदिति हेतुरसिद्ध एव । नापि उपादानोपादेयभूत बुद्ध्यादिस्वरूपं प्रवाहरूपमेव सन्तानत्वं वक्तुं शक्यम् , असाधारणानैकान्तिकत्वात् , तथाभूतहेतोरन्यत्राननुवृत्तेः, अभ्युपगमविरोधाच्च, न हि त्वया बुद्धयुपादाना बुद्धिरिष्यते, 25 आत्मोपादानाङ्गीकारात् । तथाभ्युपगमे च मुक्तावस्थायामपि पूर्वपूर्वबुद्धथुपादानक्षणादु. त्तरोत्तरोपादेयबुद्धिक्षणस्य सम्भवेन बुद्धिसन्तानस्यात्यन्तोच्छेदो न स्यात्, तथा च हेतुबोधितः स्यात् । न वा पूर्वापरसमानजातीयक्षणप्रवाहमात्र सन्तानत्वम् , असाधारणानैका १ द्रव्यगुणकर्मस्वेव आतेनैयायिकैः स्वीकारात्, समवाये जात्यङ्गीकारेऽसम्बन्धस्य प्रतियोगिताऽनुयोगितान्यतरसम्बन्धेन समवायाभावलक्षणस्य बाधकत्वाभिधानात् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy