SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] परेष्टमोक्षविध्वंसनम् । न्तिकत्वतादवस्थ्यात् । एकसन्तानरूपस्यान्यत्राननुवृत्तेः, व्यक्तेर्व्यक्त्यन्तराननुगमात , अनुगमे वा सामान्यपक्षभाविदोषानुषङ्गात् । पाकजपरमाणुरूपादिभियभिचारश्च, तत्र तथाविधसन्तानत्वस्य सद्भावेऽपि अत्यन्तोच्छेदाभावात् । सन्तानत्वं स्थादत्यन्तोच्छेदश्च न स्यादिति विपर्यये हेतोर्बाधकप्रमाणाभावेन सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकश्च, शब्दबुद्धिप्रदीपादिष्वत्यन्तानुच्छेदवत्स्वेव सन्तानत्वस्य भावाद्विरुद्धश्च, अत्यन्तनित्येष्विवात्य- 5 न्तानित्येष्वपि अर्थक्रियाकारित्वलक्षण सत्त्वस्यासम्भवात् , प्रत्यक्षतः प्रदीपादीनामुत्तरपरिणामस्यादर्शनमात्रेण ते तथा न सन्तीति व्यवस्थापयितुमशक्तः, अन्यथा परमाणूनामपि पारिमाण्डल्यगुणाधारतया प्रत्यक्षतोऽप्रतिपत्तेस्तद्रूपतयाऽसत्वप्रसङ्गात् । अनुमानात्तद्रूपतया तस्य प्रतिपत्तिस्तु प्रदीपादावपि तुल्यैव । यथाहि स्थूलकार्यप्रतिपत्तिस्तदपरसूक्ष्मकारणमन्तरेणासम्भविनी परमाणुसत्तामवबोधयति तथा मध्यस्थितिदर्शनं पूर्वापरकोटि- 10 स्थितिमन्तरेणासम्भवि तामपि साधयत्येव । न च ध्वस्तस्य प्रदीपादेविकारान्तरेण स्थित्यभ्युपगमे प्रत्यक्षबाधा, वारिस्थे तेजसि भास्वररूपाभ्युपगमेऽपि तद्बाधोपपत्तेः । न चोष्णस्पर्शस्य भास्वररूपाधिकरणतेजोद्रव्याभावेऽसम्भवादनुद्भूतस्य तत्रानुमानतः कल्पनमिति वाच्यम् , प्रदीपादेरप्यनुपादानोत्पत्तिवत् सन्ततिविपत्यभावमन्तरेण न विपत्तिरसम्भवतीत्यनुमानतोऽपि तत्सन्तत्यनुच्छेदस्यापि सिद्धेः । अन्यथा सन्तानचरमक्षणस्य क्षणान्तरा• 15 जनकत्वेनासत्त्वे पूर्वपूर्वक्षणानामपि तत्त्वान्न विवक्षितक्षणस्यापि सत्वमिति प्रदीपादेईष्टान्तस्य बुद्ध्या दिसाध्ययर्मिणश्चाभाव इति नानुमानप्रवृत्तिः स्यात् , तस्माच्छब्दबुद्धिप्रदीपानामपि सत्त्वे नात्यन्तिको व्युच्छेदोऽभ्युपगन्तव्यः अन्यथा विवक्षितक्षणेऽपि सत्त्वाभाव इति सर्वत्रानत्यन्तोच्छेदवत्येव सन्तानत्वलक्षणो हेतुर्वर्तत इति कथं न विरुद्धः । विपरीतार्थोपस्थापकानुमानान्तरस्य सदावादनुमानबाधितः पक्षः, हेतोर्वा कालात्ययापदिष्ठत्वम् । तथाहि 20 पूर्वापरस्वभाषपरिहारावाप्तिलक्षणपरिणामवान् शब्दबुद्धिप्रदीपादिकोऽर्थः, सत्त्वात् , कृतक. त्वाद्वा, यावान् कश्चिद्भावस्वभावः स सर्वस्तादृशस्वभावविवर्तमन्तरेण न सम्भवति । न हि तावत् क्षणिकस्य निरन्वयविनाशिनः सत्त्वसम्भवोऽस्ति स्वाकारानुकारि झानमन्यद्वा कार्यान्तरमप्राप्त्याऽऽत्मानं संहरतः सकलशक्तिविरहितस्य व्योमकुसुमादेरिव सत्त्वानुपपत्तेः । क्षणिकत्वभङ्गाप्रसङ्गेन तादृशस्य कार्यकालं यावत्प्राप्त्यसम्भवात्, चिरतरविनष्टस्येव च कार्यकालेऽसतम्तजननसामर्थ्य विरहात्, स्वसत्ताकाले एव समनन्तर कार्योत्पत्तिजननसामर्थ्यसद्भावे कार्यकाल इव ततः पूर्वमपि कार्योत्पत्तिः स्यात्, समर्थस्य क्षेपायोगात् , न वा तत्सत्ताकालेऽभवतः तदभावे च भवत्तस्तकार्यत्वं तस्य च कारणत्वं युक्तमतिप्रसङ्गात् । न वा तत्समनन्तरभावमात्रेण तस्य कारणत्वं, सर्वेषां पूर्ववर्तिनां कारणवप्रसङ्गात् , अक्ष "Aho Shrutgyanam'
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy