SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ अष्टमम् णिक इव क्षणिकेऽपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधश्च, न हि कार्यकारणयोः क्रमः सम्भवति, कालभेदाजन्यजनकभावविरोधात् , चिरतरोपरते पितरि उत्पन्नपुत्रवत् । नापि तादृशस्यापेक्षासम्भवः, अनाधेयाप्रहेयातिशयत्वात् , न हि किञ्चिदतिशयं ततोऽनासादयत्तद् भावान्तरमपेक्षते येन क्रमः स्यात् । योगपद्यन्तु तयोर्हेतुफलमावतयैवासम्भवि, समानकालयोर्हि 5 न हेतुफलभावः, सव्येतरगोविषाणव दपेक्षानुपपत्तेः । अत एव कृतकत्वादयोऽपि हेतवो वस्तुस्वभावाः परिणामानभ्युपगमवादिनां न सम्भवन्ति, तथा हि अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक उच्यते, सा च परापेक्षा एकान्त नित्यवदेकान्तानित्येऽप्यसम्भविनी, तदपेक्षाकारणकृतस्वभावविशेषेण विवक्षितवस्तुनः सम्बन्धोऽपि नोपपद्यते स्वभाव भेदप्रसक्तेः । अभेदे वाऽपेक्ष्यमाणादपेक्षकस्य सर्वथाऽऽत्मनिष्पत्तिप्रसङ्गात् । अतः स्वभावभि10 नयोः प्रत्यस्तमितोपकार्योपकारकस्वभावयो वयोः सम्बन्धानुपपत्तेः अस्येदमिति व्यपदेश स्यानुपपत्तिः। यदि पुनरपेक्षमाणस्य तदपेक्ष्यमाणेन व्यतिरिक्तमुपकारान्तरं क्रियेत तदा तत्सम्बन्धव्यपदेशार्थं तत्राप्युपकारान्तरं कल्पनीयमित्यनवस्था प्रसज्येत, तस्मान्नित्यानित्यपक्षयोरर्थक्रियालक्षणं सत्त्वं कृतकत्वं वा न सम्भवतीति यत्किञ्चित्सत् कृतकं वा तत् सर्व परि णामि, इतस्थाऽकिश्चित्करस्यावस्तुत्वप्रसङ्गात् , गगनारविन्दवत् , सन् कृतको वा शब्दबुद्धि15 प्रदीपादिरिति सिद्धः परिणामी, सत्त्वं चार्थक्रियाकारित्वमेव, अन्यस्यासम्भवात् , तश्चात्य न्तोच्छेदवत्सु न सम्भवत्येव, अतस्ततो व्यावर्त्तमानो हेतुरनत्यन्तोच्छेदवत्स्वेव सम्भवतीति सन्तानत्वहेतोः कालात्ययापदिष्टत्वम् , पक्षो वानुमानबाधितः । तथा सत्प्रतिपक्षश्च, बुद्ध्यादिसन्तानो नात्यन्तोच्छेदवान , सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वात् , यो हि सर्वप्रमाणानुपल भ्यमानतथोच्छेदो न स तत्त्वेनोपेयः, यथा पार्थिवपरमाणुपाकजरूपादिसन्तानः तथा चाय. 20 मिति प्रत्यनुमानसद्भावात् । एवं सम्यग्ज्ञानान्मिथ्याज्ञानव्यावृत्तिक्रमेण धर्माधर्मयोस्तत्कार्य शरीरादेरभावेऽपि सकलपदार्थविषयकसम्यग्ज्ञानानन्तानिन्द्रियसुखादिसन्तानस्य निवृत्त्यसिद्धिः। शरीरादेस्तनानिमित्तत्वात् , ज्ञानस्य ज्ञानोपादानताप्रतिपादनात् , ज्ञानादिस्वभाव. स्यात्मन उत्तरज्ञानाद्यवस्थारूपतया परिणामे देशकालादेः सहकारित्वसम्भवाच । आरब्धकार्य योर्धर्माधर्मयोरुपभोगात्सश्चितयोश्च तत्त्वज्ञानात् प्रक्षय इत्यपि न सम्यक् , उपभोगात् कर्मणः ४ प्रक्षये तदुपभोगसमयेऽपरकर्मनिमित्तस्याभिलाषपूर्वकमनावाकायव्यापारस्वरूपस्य सम्भवाद. विकलकारणस्य च प्रचुरतरकर्मणः सद्भावादात्यन्तिककर्मक्षयासम्भवात , सम्यग्ज्ञानस्यैव पापक्रियानिवृत्तिलक्षणचारित्रोपबृंहितस्य मिथ्याज्ञाननिवृत्त्यादिक्रमेणागामिकर्मानुत्पत्तिसामयंवत् सश्चितकर्मक्षयेऽपि सामर्थ्यसम्भवात् , तच्च सम्यग्ज्ञानं परिणामिजीवाजीवादिवस्तुविषयमेव न त्वेकान्तनित्यानित्यात्मादिविषयम् , तस्य विपरीतार्थग्राहकत्वेन मिथ्यात्वोपपत्तेः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy