________________
सोपानम् ]
परेटमोक्षखण्डनम् । अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न तन्त्र विवेकिनः प्रवर्तन्त इति चिदानन्दस्वरूप एव मोक्षोऽभ्युपगन्तव्यः, यथा तस्य चित्स्वभावता नित्या तथा परमानन्दस्वभावताऽपि, न चात्मनः सकाशाचिस्वभावत्वमानन्दस्वभावत्वं वाऽन्यत्, तस्य तु परमानन्दस्वभावत्वस्य संसारावस्थायामविद्यासंसर्गादप्रतिपत्तिरात्मनोऽव्यतिरिक्तस्यापि, यथा रज्वादेव्यस्य तत्त्वाग्रहणान्यथाग्रहणाभ्यां स्वरूपं न प्रकाशते, यदा त्वविद्या- 5 निवृत्तिस्तदा तस्य स्वरूपेण प्रकाशनम्, एवं ब्रह्मणोऽपि तत्त्वाग्रहान्यथाग्रहाभ्यां भेदप्रपञ्चसंसर्गादानन्दादिस्वरूपं न प्रकाशते, मुमुक्षुयत्नेन तु यदाऽनाद्यविद्याव्यावृत्तिस्तदा स्वरूपप्रति पत्ति: सैव मोक्ष इति, सत्यम् , परन्तु चित्स्वभावताया आनन्दस्वभावतायाश्चैकान्तनित्यता न सङ्गच्छते, आत्मस्वरूपता तु चिद्रूपताया आनन्दस्वरूपतायाश्च कथश्चिदभ्युपगम्यत एव, अविद्यानिवृत्तौ स्वरूपप्रतिपत्तिरपि युक्तैव, अष्टविधपारमार्थिककर्म- 10 प्रवाहरूपानाद्यविद्याऽऽत्यन्तिकनिवृत्तः स्वरूपप्रतिपत्तिलक्षणमोक्षावाप्तेरभीष्टत्वात् । न च मु. त्यवस्थायां सुखोत्पत्तावपेक्षाकारणं वक्तव्यम् , आकस्मिकका भावादिति वाच्यम, ज्ञानसुखादेः चैतन्यधर्मानुवृत्तितश्चैतन्योपादेयत्वात् , सेन्द्रियशरीरादिकन्तु न तदुत्पत्तावपेक्षा. कारणमव्यापकत्वात् , सेन्द्रियशरीराद्यपेक्षाकारणव्यापाररहितं हि विज्ञानं समस्तज्ञेयविषयत्वेनानियतविषयमुपलभ्यत एव, यथाऽव्यापृतचक्षुरादिकरणग्रामस्य सदसती तत्त्व- 15 मिति ज्ञानम् , सकलाक्षेपेण व्याप्तिप्रसाधकं वा । न चात्राप्यात्मान्तःकरणसंयोगस्य शरीराद्यपेक्षाकारणसहकृतस्य व्यापारः, अन्तःकरणस्याणुपरिमाणद्रव्यस्य प्रमाणबाधितत्वेनासिद्धः, संयोगस्य च निषिद्धत्वात् , ज्ञानोत्पत्तिवेलायाश्च शरीरादीनां सन्निधानेऽपि तद्गुणदोषान्वयव्यतिरेकानुविधानस्य तज्ज्ञानेऽनुपलम्भान्नापेक्षाकारणत्वं कल्पयितुं युक्तम् , तथापि तत्कल्पनेऽ तिप्रसङ्गः । देशकालादिकन्तु विज्ञानक्षणस्यान्वयिनो ज्ञानान्तरोत्पादेऽपेक्षाकारणं न प्रतिषि- 20 ध्यते मुक्तावस्थायामपि, शरीरादिकन्तु तदा कारणाभावादेवानुत्पन्नं नापेक्षाकारणं भवितुमर्हति । यदि तु शरीरायभावे ज्ञानादेरुत्पत्तिाभ्युपगम्यते तदा तथाभूतापेक्षाकारणजन्यस्य चक्षुरादिज्ञानस्येव प्रतिनियतविषयत्वं स्यादिति सदसत्पदार्थव्रातः कस्यचिदेकज्ञानावलम्बनः प्रमेयत्वात् , पञ्चाङ्गुलिवदित्यनुमानादनुमीयमानं सर्वज्ञज्ञानमपि प्रतिनियतविषयत्वान्न सर्व विषयं स्यात् , तत्र शरीरस्याकारणत्वेऽभ्युपगम्यमाने मुक्तावस्थायामपि तदजन्यं ज्ञानं कुतो न भवेत्। 25 किञ्च सकलपदार्थप्रकाशकत्वं ज्ञानस्य स्वभावः, स च सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यते, अपवरकावस्थितप्रकाश्यपदार्थप्रकाशकस्वभावः प्रदीप इव तदावारकशरावा. दिना । तदपगमे तु प्रदीपस्येव स्वप्रकाश्यप्रकाशकत्वं ज्ञानस्यायत्नसिद्धमिति कथमावरणभूत
"Aho Shrutgyanam"