________________
सम्मतितत्व सोपाने
[ अष्टमम्
सेन्द्रदेहाद्यभावे तदवस्थायां ज्ञानस्याप्यभावः प्रेर्येत, अन्यथा प्रदीपावारकशरावाद्यभावे प्रदीपस्याप्यभावः प्रेरणीयः स्यात् । न च शरावादेरावारकस्य प्रदीपं प्रत्यजनकत्वमाशङ्कनीयम्, तथाभूतप्रदीपपरिणतिजनकत्वाच्छरावादेः, अन्यथा तं प्रत्यावारकत्वमेव तस्य न स्यात् । उपलभ्यते च संसारावस्थायामपि वासीचन्दनकल्पस्य मुमुक्षोः सर्वत्र समवृत्तेः 5 विशिष्ट ध्यानादिव्यवस्थितस्य सेन्द्रियशरीरव्यापाराजन्यः परमाह्लादरूपोऽनुभवः, तस्यैव भावनावशादुत्तरोत्तरामवस्थामासादयतः परमकाष्ठागतिरपि संभाव्यत एव । परमार्थतस्तु आनन्दरूपताऽऽत्मनः स्वभावभूता तद्विबन्धककर्मक्षयात्तस्यामवस्थायामुत्पद्यते, एकान्तनित्यस्य त्वविचलितरूपस्यात्मनो वैषयिकसुखदुःख भोगोऽप्यनुपपन्नः, एकस्वभावस्य तत्स्वभावापरित्यागे भिन्नसुखदुःख संवेदनोत्पादे ऽप्याकाशस्येव तदनुभवाभावात् । ज्ञानोत्तरज्ञा10 नोत्पादनस्वभावम्, यच्च यत्स्वभावं न तत्तदुत्पादनेऽन्यापेक्षम्, यथाऽन्त्या बीजादिकारणसामग्री अङ्कुरोत्पादने, तत्स्वभावश्च पूर्वो ज्ञानक्षणः उत्तरज्ञानक्षणोत्पादन इति स्वभावहेतु:, अन्यथाऽसौ तत्स्वभाव एव न स्यात् । न च संसारावस्थाज्ञानान्त्यक्षणस्योत्तर ज्ञानजननस्वभावत्वमसिद्धम्, तथाभ्युपगमे सत्तासम्बन्धादेः सत्त्वस्य निषिद्धत्वात्तदजनकत्वेन तस्यानर्थक्रियाकारित्वादवस्तुत्वाप सेस्तज्जनकस्याप्यवस्तुत्वं ततस्तज्जनकस्येत्येवमशेषचित्तसन्तान15 स्यावस्तुत्वप्रसङ्गः । एवं साश्रवचित्तसन्ताननिरोधलक्षणापि मुक्तिर्विशेपगुणरहितात्मस्वरूपे वाऽनुपपन्ना, निराश्रव चित्तसन्तत्युत्पत्तिलक्षणात्वभ्युपगम्यत एव किन्तु सा सान्वया युक्ता, बद्धस्यैव मोक्षणात्, न हि अन्वयिनोऽभावे बद्धस्य मुक्तिः सम्भवति, अन्यस्य बन्धादन्यस्य च मोक्षणात् । सन्तानस्यैकत्वेऽपि सोऽयं सन्तानो यदि परमार्थतः सन् तह्यत्मैव सन्तानशब्दाभिधेयः स्यात्, यदि तु संवृत्त्या सन् तदैकस्य परमार्थसतोऽभावाद्बन्ध20 मोक्षयोर्भिन्नाश्रयतया बद्धस्य मुक्त्यर्थं प्रवृत्तिर्न स्यात्, तस्माद्विज्ञानक्षणेष्वन्वयिनोऽभावे बन्ध मोक्ष योस्तदर्थप्रवृत्तेर्वाऽसम्भवात्सान्वया चित्तसन्ततिरभ्युपगन्तव्या । न च विज्ञानसन्तत्यनुच्छेदे सुषुप्तावस्थायामपि तत्सद्भावे तस्या जाग्रदवस्थातो विशेषो न स्यादिति वाच्यम्, मिद्धादिसामग्रीविशेषाद्विलक्षणस्य सुषुप्याद्यवस्थायां गच्छत्तृणस्पर्शज्ञानतुल्यस्य बाह्याध्यात्मिकपदार्थानेकधर्मग्रहणविमुखस्य ज्ञानस्य सद्भावात्, अन्यथा जाग्रत्प्रबुद्धज्ञानप्रवाहयो25 रप्यभावः स्यात् । यथा चाश्वविकल्पनकाले प्रवाहेणोपजायमानमपि गोदर्शनं ज्ञानान्तरवेद्यपि भवदभिप्रायेणानुपलक्षितमास्ते, अन्यथाऽश्व विकल्पप्रतिसंहारावस्थायां इयन्तं कालं यावन्मया गौर्दृष्टो न चोपलक्षित इति ज्ञानानुत्पत्तिप्रसक्तेः प्रसिद्धव्यवहारोच्छेदः स्यात्, तथा
: ५८ :
१ निराश्रवचित्तसन्तानोत्पत्तिमक्ष इति सौगताः, तत्राविधातृष्णारहितं चित्तं निराश्रवमभिधीयते, अविद्यारागद्वेषाभिलाषः, तृष्णा तु भाविभोगाभिलाषः । अपरे तु प्रदीपनिर्वाणवत्सर्वथा चित्तसन्तानोच्छेदो मोक्ष इतिसङ्गिरन्ते तेऽपि मिथ्यावादिनः, चित्तसन्तानाभावे शून्यतापत्तेः ॥
" Aho Shrutgyanam"