________________
सोपानम् ]
परेष्टमोक्षखण्डनम् । सुषुप्तावस्थायां स्वसंविदितज्ञानवादिनोऽप्यनुपलक्षितं ज्ञानं भविष्यतीति न तदवस्थायां विज्ञानासत्वात्तत्सन्तत्युच्छेदः । न च युगपज्ज्ञानानुत्पत्तेरश्वविकल्पकाले ज्ञानान्तरवेद्यं गोदर्शनं न सम्भवतीति वाच्यम् , सविकल्पाविकल्पयोर्ज्ञानयोर्युगपट्टत्तेरनुभवात् , अन्यथा प्रतिनिवृत्ताश्वविकल्पस्य गोदर्शनस्मरणाध्यवसायो न स्यात, क्रमभावेऽपि च तयोविज्ञानयोविज्ञानं ज्ञानान्तरवेद्यमपि अनुपलक्षितमवश्यं तस्यामवस्थायां परेणाभ्यु- 5 पगमनीयम् , तदभ्युपगमे च यदि स्वापावस्थायां तादृग् ज्ञानमभ्युपगम्यते तदा न कश्चिद्विरोधः । तस्मादनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयसुखादिलाभो मुक्तिरिति स्थितम् । न चानैकान्तज्ञानं मिथ्या, नित्यत्वानित्यत्वयोर्विधिप्रतिषेधरूपत्वादभिन्ने धर्मिण्यभावादिति वाच्यम् , एकान्तज्ञानस्यैव बाधकसद्भावेन मिथ्यात्वोपपत्तेः, प्रतीयमाने वस्तुनि विरोधासिद्धेश्च, न हि यद्रूपेण नित्यत्वं तद्रूपेणैवानित्यत्वं विधीयते येनैकत्र विरोधः स्यात् 10 किन्त्वनुस्यूताकारतया नित्यत्वं व्यावृत्ताकारतया चानित्यत्वम् , तथा चान्यधर्मनिमित्तक. स्वान्न विरोधः, अन्यथाऽतिप्रसङ्गात् । न चानुगतव्यावृत्ताकारयोरात्यन्तिको भेदः, पूर्वोत्तरकालभाविस्वपर्यायतादात्म्येन स्थितस्यानुगताकारस्य बाह्याध्यात्मिकस्यार्थस्याबाधितप्रत्यक्षप्रतिपत्तौ प्रतिभासनात् । न च घटादिम॒त्त्वादिना नित्य इत्यत्र मृत्त्वादि यदि ततोऽर्थान्तरं सामान्यं न ततो घटो नित्यः, तस्य कारणाद्विलयोपलब्धेरिति वाच्यम् , सामान्यस्य विशे- 15 षादर्थान्तरत्वानुपपत्तेः समानासमानपरिणामात्मकत्वाद्धटादेः । तथाहि मृत्वाविजातिः सत्ता वा न स्वाश्रयादर्थान्तरभूता, तथात्वे स्वाश्रयैः सम्बन्धाभावात् , स्वसम्बन्धात् प्रागसद्भिरपि स्वाश्रयैः सम्बन्धेऽतिप्रसङ्गात , स्वत एव सद्भिः सत्तासम्बन्धकल्पनावैयात् समवायम्य सर्वगतत्वाद्व्यक्त्यन्तर परिहारेण व्यक्त्यन्तरैरेव सर्वगतस्यापि सामान्यस्य सम्बन्धेऽतिप्रसङ्गपरिहारायाभ्युपगम्यमाना च प्रत्यासत्तिः प्रत्येक परिसमाप्ता व्यक्त्यात्मभूता 20 वाऽभ्युपगम्यमाना कथं समानपरिणामातिरिक्तस्य सामान्यस्य कल्पनां न निरस्येत् , शुक्लादिवच्च स्वाश्रये स्वानुरूपप्रत्ययादिहेतोः सामान्यात् सदादिप्रत्ययादिवृत्तिर्न भवेत् । सामान्यस्य तु स्वत एव सदादिप्रत्ययादिविषयत्वे द्रव्यादिषु कः प्रद्वेषः परतश्चेदनवस्था, तस्मात्पदार्थानामनेकान्तस्वभावतया नानेकान्तभावना मिथ्याभूता, ततो युक्तमुक्तमनुप. मसुखमुपगतानामिति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिमूरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य परेष्ट
मोक्षखण्डनं नाम अष्टम सोपानम् ॥
25
"Aho Shrutgyanam"