SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ नवमम् अथादिवाक्यसाफल्यप्रदर्शनम् । तदेवं स्वेष्टदेवतास्त वेन प्रध्वस्तसमाप्तिप्रतिबंधकान्तराय आचार्यश्शासनस्य प्रकरणमन्तरेणापि जिनप्रणीतत्वेन स्वतः सिद्धत्वात्तदभिधेयस्य निष्प्रयोजनत्वमाशङ्कमानः प्रकरणा. भिधेयप्रयोजनमाह समयपरमत्थवित्थरविहाडजणपज्जुवासणसयन्नो । आगममलारहियओ जह होइ तमत्थमुन्नेस्सं ॥ २॥ समयपरमार्थविस्तरविहाटजनपर्युपासनसकर्णः । आगममलारहृदयो यथा भवति तमर्थमुन्नेष्ये ॥ छाया ॥ समय इति, मलमिव आरा प्राजनकविभागो यस्यासौ मलार: गौर्गली, आगमे 10 तद्वत्कुण्ठं हृदयं यस्य तदर्थप्रतित्तिसामर्थ्याभावात् असौ तथा, मन्दधीरित्यर्थः, सम्यगीयन्ते परिच्छिद्यन्तेऽनेनार्था इति समयः आगमः, तस्य परमार्थः, अकल्पितोऽर्थः, तस्य विस्तरो रचनाविशेषः, ननु 'प्रथने वावशब्दे' (पाणि० ३-३-३३ ) इति सूत्रेण घनि कृते विस्तार इति रूपं स्यात् कथं तर्हि विस्तर इति चेद्युक्तं, शब्दार्थयोर्भेदेऽपि पारमार्थिकसम्ब न्धप्रतिपादनायाभेदविवक्षया घळ न कृतः । तस्य रचनाविशेषस्य विहाटः प्रकाशकः, 15 श्रोतृबुद्धौ प्रकाशमानानर्थान् हाटयति दीपयतीति व्युत्पत्तेः, स चासौ जनश्च चतुर्दशपूर्व विदादिलोकः तस्य पर्युपासनं सेवाजनितं तद्व्याख्यानं कारणे कार्योपचारात , तत्र सह कर्णेन वर्सत इति सकर्णः तद्व्याख्यातार्थावधारणपटुः, एवम्भूतो यथा येन प्रकारेण भवति तथाभूतमर्थमुन्नेष्ये प्रतिपादयिष्ये इत्यर्थः, यथाभूतेनार्थेन प्रतिपादितेनातिकुंठितधीरपि श्रोतृजनो विशिष्टागमस्य व्याख्यात्रा प्रतिपादितानामर्थानामवधारणे समर्थो भवति तमर्थमनेन प्रक20 रणेन प्रतिपादयिष्यामीति यावत् । अत्राकल्पितस्य बाह्यार्थस्यागमप्रतिपाद्यतया शब्दार्थयोश्च वास्तवसम्बन्धस्य समयपरमार्थविस्तरेत्यनेन निर्देशः कृतः, तथा च चतुर्दशपूर्वविदादिजनानां व्याख्यातृणां प्रतिपादितार्थावधारणसामर्थ्यसम्पत्तिर्मन्दधियामेतत्प्रकरणप्रयोजनं प्रदर्शितम् , तज्ज्ञानं विना प्रेक्षावतां प्रवृत्त्यनुपपत्तेः । अनभिहितप्रयोजनं हि काकदन्तपरी क्षावत् प्रेक्षावतामनादरणीयं भवति सस्मात् प्रयोजनाभिधानमुखेन तेषां शास्रादौ प्रवर्त्त25 नायादौ तत्प्रतिपादनमावश्यकमिति ।। अत्र केचित् प्रेक्षापूर्वकारिणां प्रवृत्तये प्रयोजनाभिधानायादिवाक्यमुपादीयते यदि तर्हि कथमप्रमाणके तेषां प्रवृत्तिः, प्रामाणिक एव प्रेक्षापूर्वकारिणां प्रवृत्तः, न हि तद्वाक्यं तज्जन्यज्ञानं वा प्रमाणमिन्द्रियाजन्यत्वेन तस्य प्रत्यक्षत्वासम्भवात् , नाप्यनुमानं स्वभावकार्यलिङ्गप्रभवम् , तद्वोध्यप्रयोजनस्य तद्भावत्वेन तत्कारणत्वेन वा प्रमाणादप्रतिपत्तेः, तदुत्थापकस्य लिङ्गस्य "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy