________________
सोपानम् ]
आदिवाक्य साफल्यप्रदर्शनम् ।
: ६१ :
श्च तत्स्वभावतया तत्कार्यतया चानवधारणात्, अन्यस्य च स्वसाध्याप्रतिबन्धात्, न चेदं वाक्यं स्वाभिधेयप्रयोजनप्रतिपादने प्रमाणम, तत्र प्रवर्त्तमानस्यास्य स्वमहिम्नैव शब्दप्रमाणस्वरूपत्वेन स्वार्थप्रत्यायकत्वादिति वाच्यम्, बाह्येऽर्थे शब्दस्य प्रतिबन्धासम्भवेनाप्रामाण्यात्, विवक्षायां प्रामाण्येऽपि तस्या बाह्यार्थाविनाभावित्वायोगात् न च येषां यदर्थविषयिणी विवक्षा ते तमर्थं तथैव प्रतिपादयन्ति, अन्यविवक्षायामप्यन्यशब्दोच्चारणदर्शनान विवक्षाया एकान्ततो ब्राह्मार्थप्रतिबद्धता । तस्मान्न शब्दादपि प्रमाणादादिवाक्यरूपात् प्रयोजनविशेषोपायप्रतिपत्तिः, तदप्रतिपत्तौ च तेषां ततः प्रवृत्तौ प्रेक्षापूर्व कारिताव्याहतिप्रसङ्ग इत्याक्षिपन्ति तदयुक्तम्, प्रत्यक्षानुमानयोरसम्भवेऽपि बाह्यार्थेन शब्दप्रतिबन्धस्य साधयिष्यमाणत्वात्, बाह्यार्थ एव च प्रतिपत्तिप्रवृत्त्यादिव्यवहारस्योपलभ्यमानतया प्रत्यक्षवच्छब्दस्यापि तत्र प्रामाण्यात्, न ह्यर्थाव्यभिचारित्वलक्षणप्रामाण्यनिश्चयवतां ततः 10 प्रवृत्तौ प्रेक्षापूर्व कारित्वक्षतिः, न चानाप्तप्रणीतात् नद्यास्तीरे पञ्च फलानि सन्तीत्यादिवाक्यादस्य विशिष्टता नवगमान्नातः प्रवृत्तिरिति वाच्यम्, प्रत्यक्षाभासात् प्रत्यक्षस्येवानाप्तप्र
वाक्यादस्य विशिष्टता निर्णयात्, यस्य तु न निर्णयो नासावतः प्रवर्त्तते, अनवधृतत्वाभास विवेकाद्धेतोरिवानुमेयार्थक्रियार्थी । न चाप्ताः परहितप्रवणाः प्रमाणभूताञ्चातः स्ववामात्रेणापि ते प्रवर्त्तयितुं क्षमाः, तस्मात् किं प्रयोजनवाक्योपन्यासेनेति वाच्यम्, सुनि- 15 चिताप्तप्रणीतवाक्यादपि प्रतिनियतप्रयोजनार्थिनां तदुपायानिश्चये तत्र प्रवृत्त्ययोगात्, यदि आप्तप्रणीतशास्त्रेऽपि प्रयोजनविशेषप्रतिपादकं वाक्यं न स्यात्तदा कथं तत्र प्रयोजनविशेषप्रतिपादकतानिश्चयः स्यात् येनाप्तप्रणीतवाक्यादेव तदर्थिनां तत्र प्रवृत्तिः स्यात्, तदनभिमतप्रयोजनप्रतिपादकानामपि वाक्यानां सम्भवात्, अतः यत्र खल्विदं कर्त्तव्यमिति पुरुषाः प्रतीततदासभावा आप्तैर्नियुज्यन्ते तत्रावधारिततत्प्रेरणातथाभावविषयविचारास्तद- 20 भिहितं वाक्यमेव बहुमन्यमाना अनाहतप्रयोजनपरिप्रश्ना एव प्रवर्त्तन्ते, विनिश्चिततदाप्रभावानां प्रत्यवस्थानासम्भवादित्यपि निरस्तम्, आप्तप्रवर्त्तितप्रतिनियत प्रयोजनार्थिजनप्रेरणावाक्यस्यैव प्रयोजनवाक्यत्वनिश्चयाञ्च । अन्यथाऽभिमतफलार्थिजनप्रेरक वाक्यस्याप्त प्रयुक्तत्वमेवानिश्चितं स्यात्, अनभिमतार्थप्रेरकस्यावगताप्तवाक्यत्वे चातिप्रसङ्गः, न चाप्तवाक्यादपि प्रतिनियतप्रयोजनार्थिनस्तदनवगमे तत्र प्रवर्त्तितुमत्सहन्ते, अतिप्रसङ्गात्तस्मादादा- 25 वभिधेयप्रयोजनं सार्थकमेवेति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिन विन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्व सोपानस्याऽऽदिवाक्य साफल्यप्रदर्शनं नाम नवमं सोपानम् ॥
" Aho Shrutgyanam"
5