SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ दशमम् अथ शब्दसङ्केतसमर्थनम्. अत्र बौद्धाः वदन्ति नन्वागमस्याकल्पितो बाह्यार्थः शब्दार्थयोर्वास्तवसम्बन्धश्च न घटते प्रमाणबाधितत्वात , शब्दानां हि वस्तुतो वाच्यं वस्तुस्वरूपं न किञ्चिदस्ति, सर्वेषां शाब्दप्रत्ययानां भ्रान्तत्वात् , भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः, यत्र तु परम्परया 5 वस्तुप्रतिबन्धः तत्रार्थसंवादो भ्रान्तत्वेऽपि, तत्र यदारोपितं विकल्पबुद्ध्याऽर्थेष्व भिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयश्चान्यव्यावृत्ततया प्रतिभासनात् भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्याध्यवसित्वात् अन्यापोढपदार्थाधिगतिफलत्वाच्चान्यापोह उच्यते, अतोपोहः शब्दार्थ इति प्रसिद्धम् । अत्र शब्दार्थो विधिरेवेत्येवंवादिनो यदि द्रव्यगुणकर्मसा मान्यादिपदार्थाशब्दप्रवृत्तिनिमित्ताः परमार्थतो न सन्ति तर्हि कथं लोके तन्निमित्ताः प्रत्य10 यव्यवहाराः प्रवर्तन्ते, तत्र हि दण्डी विषाणीत्यादिप्रतीतिव्यवहारौ लोके द्रव्योपाधिको, शुक्लः कृष्ण इत्यादि गुणोपाधिको, चलति भ्रमतीति क्रियोपाधिको, अस्ति विद्यत इति सत्तानिमित्तको, गौः अश्व इति सामान्य विशेषोपाधिनिमित्तौ, इह तन्तुषु पट इति समवायनिमित्तौ । तत्र द्रव्यादीनामभावे एतौ प्रतीतिशब्दौ निर्विषयौ स्याताम् , तथा च सति सर्वत्र सर्वदा तयोरविशेषेण प्रवृत्तिप्रसङ्गः न चास्ति तथा, तस्मात्सन्ति द्रव्यादयः पारमा15 र्थिकाः प्रत्ययशब्दविषयाः, तथा च ये परस्परासंकीर्णप्रवृत्तयस्ते सनिमित्ताः यथा श्रोत्रा दिप्रत्ययाः, असंकीर्णप्रवृत्तयश्च दण्डीत्यादिप्रत्यया इति स्वभावहेतुः, अनिमित्तत्वे सर्वत्राविशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणमिति प्राहुः। अत्र बौद्धाः किमत्र सिषाधयितं भवताम् , पारमार्थिकबाह्यपदार्थनिमित्तेन सनिमित्तत्वं येन केनचिन्निमित्तेन सनिमित्तत्वं वा, नाद्यः, साध्यविपर्यये बाधकप्रमाणविरहेण हेतोरनै कान्तिकत्वात् , न द्वितीयः सिद्ध20 साधनात् , अस्माभिरपि अन्तर्जल्पवासनाप्रबोधस्य निमित्तत्वोपगमात्, न तु विषय भूतस्य, भ्रान्तत्वेन सर्वस्य शाब्दप्रत्ययस्य निर्विषयत्वात्, न चैवं वाच्यं तस्य भ्रान्तत्वं निर्विषयत्वं च कथमिति, भिन्नेष्वभेदाध्यवसायेन प्रवर्त्तमानस्य प्रत्ययस्य भ्रान्तत्वात, यो पतस्मिस्तदिति प्रत्ययो भ्रान्तः सः, यथा शुक्तिकायां रजतप्रत्ययः, तथा चार्य भिन्नेष्वभेदाध्यवसायी शाब्दप्रत्यय इति स्वभावहेतुः न चायमसिद्धो हेतुः, वस्तुभूतस्य र सामान्यस्य ग्राह्यस्याभावात् , भावेऽपि तस्य भेदेभ्यो भिन्नत्वे भिन्नेषु भावेषु अभेदाध्यवसायस्य भ्रान्तित्वम्, न ह्यन्येनान्ये समाना युक्ताः, तद्वन्तो हि ते स्युः । यद्यभेदस्तर्हि सर्वस्यैव विश्वस्यैकत्वापत्त्या परमार्थत एकमेव वस्त्विति तत्र सामान्यप्रत्ययो भ्रान्तिरेव स्यात् , न हि सम्भवत्येकस्मिन् समानप्रत्ययः, तस्य भेदनिबन्धनत्वात् तथा च सिद्धे भ्रान्तत्वे निर्विषयत्वमपि सिद्धम् , स्वाकारार्पणद्वारेण जनकस्य कस्यचिदर्थस्य विषयभूतस्याभावात् । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy