SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] शब्दसङ्केतसमर्थनम् । किन सर्वे शब्दा न परमार्थतो वस्त्वभिधायकाः, तेषु परमार्थतः कृतसमयत्वाभावात्, यत्र परमार्थतः कृतसमया न भवन्ति न ते परमार्थतस्तमभिदधति, यथा सास्नादिमति पिण्डेश्वशब्दोऽकृतसमय इति व्यापकानुपलब्ध्या शाब्दप्रत्ययस्य निर्विषयत्वसिद्धिः, कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात्, अन्यथाऽतिप्रसङ्गात् । न च हेतुरयमसिद्ध इति वाच्यम्, स्वलक्षणस्य जातेस्तद्योगस्य जातिमतो बुद्ध्याकारस्य वा वस्तुतः शब्दार्थतया व्यवस्थापयितुमशक्यवात्, तत्र समयासम्भवात्, सांवृर्तस्य तु शब्दार्थत्वं न निषिध्यतेऽतो न स्ववचेनविरोधः प्रतिज्ञायाः, किन्तु यः तात्त्विकत्वं धर्मः परैस्तत्रारोप्यते तस्यैव निषेधः क्रियते न तु शब्दवाच्यस्य धर्मिणः, न हि तावत्स्वलक्षणे शब्दस्य सङ्केतस्सम्भवति व्यवहारार्थमेव सङ्केतस्य क्रियमाणत्वात् संकेतव्यवहारकालव्यापके एव समयस्य कर्त्तव्यतया स्वलक्षणस्य तावत्कालव्यापकत्वासम्भवात् देशादिभेदेन हि शाबलेयादिव्यक्तयः परस्परमत्यन्तव्या - 10 वृत्ता अतो न ताः संकेतव्यवहारकालव्यापिन्यः, तस्मादेकत्र कृतसमयस्य पुंसोऽन्यैव्यैवहारो न स्यात् । न वाऽनैकान्तिकत्वं विपक्षे बाधकसत्त्वात्, अकृतसमयोऽपि शब्दो यदि तदर्थप्रतिपादकः स्यात्तदा गोशब्दोऽप्यश्वं प्रतिपादयेदिति । अशक्यक्रियत्वाश्च न स्वलक्षणे समयः । उत्पत्त्यनन्तरविनाशिषु भावेषु संकेत: क्रियमाणो यद्यनुत्पन्नेषु क्रियेत तदा न पैरमार्थतः समयः स्यात्, असंतः सर्वोपाख्यारहितस्याधारत्वानुपपत्तेः । यत्पन्ने तर्हि 15 प्रथमं तत्रानुभवोत्पत्तौ सत्यां तत्पूर्वकशब्दस्मरणे सति संकेतो भवेत् स एव न सम्भवति, शब्दस्मरणकाल एव स्वलक्षणस्य चिरविनष्टत्वात् । न च सादृश्यात्समयक्रियाकालभाविनि क्षणे ऐक्यमध्यवस्य समयः क्रियत इति वाच्यम्, सादृश्यस्य विकल्पबुद्ध्याऽध्यारोपितत्वेन तस्य शब्दैः प्रतिपादनेऽपि स्वलक्षणस्यावाच्यत्वतादवस्ध्यात् । एवं स्वलक्षणवज्जातितद्योगजातिमत्स्वपि न समयसम्भवः, जातेस्तद्योगस्य समवायस्य च निषिद्धत्वात्, 20 तयोरभावे जातिमतोऽप्यसम्भवात्, तद्वतश्च स्वलक्षणात्मकत्वात्तत्र च दोषश्योक्तत्वात् । नापि बुद्ध्याकारे संकेत: सम्भवति, तस्य बुद्ध्यभिन्नत्वेन बुद्धिस्वरूपवत् प्रतिपाद्यमर्थं बुद्ध्यन्तरं प्रति वाऽननुगततया संकेतव्यवहारकालाव्यापकत्वात् । तस्य व्यवहार कालान्वयि . " : ६३ : १ पररूपं हि स्वप्रतिभासेन यया बुद्धया संवियते यथार्थमप्रकाशनात् सा कल्पिक बुद्धिः संधृतिः, तया यद्व्यवस्थापितं रूपं तत्सांवृतमुच्यते, संवृतिसत्त्वं तदेव, न पारमार्थिकं तस्यासत्त्वात् ॥ २ एतान् स्वलक्षणजात्यादीन् शब्देनाप्रतिपाद्यैषामशब्दार्थत्वं प्रतिपादयितुमशक्यम्, तत्प्रतिपिपादयिषया च शब्देन स्वलक्षणादीन्युपदर्शयता शब्दार्थत्वमेषामभ्युपगतं स्यात् पुनश्च तदेव प्रतिज्ञया प्रतिषिद्धमिति स्ववचनव्याघातः स्यात्, न हि सर्वथाऽस्माभिः शब्दार्थापवादः क्रियते, तस्याबालगोपालमपि प्रतीतत्वात्तर्हि किं क्रियत इत्यात्राह किन्त्विति || ३ अत्र परमार्थतः इति पदं सांकृतव्यावृत्तये तेनाजातेऽपि पुत्रादौ समयदर्शनान दृष्टविरोधः, तस्य विकल्पनिर्मितार्थविषयत्वेनावास्तविकत्वात् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy