SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ दशमम् त्वेऽपि न तत्र व्यवहर्तणां समयो युक्तः, अस्माच्छब्दादर्थक्रियार्थी अर्थक्रियायोग्यार्थान विज्ञाय प्रवर्ततामित्यभिप्रायेण हि व्यवहर्तृभिर्वाचका ध्वनयो नियोज्यन्ते, न चासौ विकल्पो बुद्ध्याकारोऽभिप्रेतशीतापनोदनादिकार्य तदर्थिनां सम्पादयितुमलम् , तदनुभवोत्पत्तावपि तदभावात् । तस्माद्वाच्यवाचकयोरभावादागमस्य परमार्थ एव नास्तीति कथं समयपरमार्थ5 विस्तरेत्यादि इति चेन्मैवम, शाब्दप्रत्ययस्य भ्रान्तत्वसाधनायोपन्यस्तस्य भिन्नेष्वभेदाध्यव सायित्वहेतोरसिद्धः, तत्र तस्यानुपपत्तेः, गौौरित्यबाधितप्रत्ययविषयतया वस्तुरूपस्याभिन्नस्य सामान्यस्य सिद्धत्वात् ! अबाधितप्रत्ययविषयस्याप्यभावे विशेषस्याप्यभावः स्यात् , अबाधितप्रत्ययविषयताव्यतिरिक्तस्यान्यस्य तद्व्यवस्थापकस्य तत्राप्यभावात् । पुरस्थे गोवर्गे व्यावृत्ताकारा बुद्धिर्यथोपजायते तथैवानुगताकारेणापि तस्या उपजायमानत्वात् , तस्याश्च 10 व्यात्मकवस्तुव्यतिरेकेणासम्भवात् , अबाधितप्रत्ययस्य विनापि विषयं सद्भावे ततो वस्तु व्यवस्थाऽभावप्रसक्तेः । न चानुगताकारत्वं बुद्धेर्वाधितम् , सर्वत्र देशादावनुगतप्रतिभासस्यास्खलद्रूपस्य तथाभूताकारव्यवहारहे तोर्दर्शनात् । तस्मादिन्द्रियान्वयव्यतिरेकानुविधायिनी व्यावृत्ताकारानुभवांशानधिगतमनुगताकारमवभासयन्ती अनुभूयमाना बुद्धिवस्तुभूतं सा मान्यं व्यवस्थापयति । न च नियतशाबलेयादिव्यक्तिभिन्नतया साधारणरूपस्यापरस्य 15 भेदेनाप्रतिभासनाद्वयक्त्यभिन्नं भिन्नं वा सामान्यमभ्युपगन्तुं न युक्तमिति वाच्यम् , वाता तपादीनां समानदेशसमानेन्द्रियग्राह्याणामपि प्रतिभासभेदादन्यस्य भेदव्यवस्थापकस्याभावाद्वयक्तिजात्योरपि तत्सद्भावात् , शाबलेयादिव्यक्तिप्रतिभासाभावेऽपि बाहुलेयादिव्यक्तिप्रतिभासे गौगौरितिसाधारणावभासम्य तद्वयवस्थापकस्य सद्भावात् । एकान्ततो व्यक्त्य भेदे तु सामान्यस्य व्यक्तिस्वरूपस्येव तदभिन्नसाधारणरूपस्यापि व्यक्त्यन्तरे प्रतिभासो 50 न स्यात् , प्रतिभासते च व्यक्त्यन्तरेऽपि, अतो न कथं भिन्नसामान्यस्य सद्भावः । न च ब्यक्तिदर्शनसमये जातेर्बुद्धिग्राह्याकारतया स्वेन रूपेण व्यक्तिभिन्नतया बहिर्नावभास इति वाच्यम् , अस्य व्यक्त्याकारेऽपि समानत्वात् , नापि केवलं गौौरिति बुद्धिरेव तुल्याकारा बाह्यनिमित्तनिरपेक्षा प्रतिभासत इति युक्तं वक्तुम , तथा सति तद्धेः प्रतिनिय तदेशकालत्वं न स्यात् , न हि तत्र व्यक्तयो निमित्तम् , तासां भेदरूपत्वेनाविशिष्टत्वात् , 25 अश्वादीनामपि तद्बुद्धिनिमित्तत्वापत्तेः । न च तासामविशिष्टत्वेऽपि यास्वेव तादृशीबुद्धि रुदेति ता एव तो जनयितुं समर्था इति नाश्वादेः गौौरितिप्रत्ययनिमित्तत्वमिति वाच्यम्, तथा सति स्वलक्षणस्याप्यभावप्रसङ्गात् , सामान्यलक्षणनिमित्तमन्तरेणापि प्रति --- - - --- - - ---.-.-.--. --. - - - १ तथा चायमनुगतप्रतिभासः बहिनिमित्तसापेक्षः, प्रतिनियतदंशकालाकारत्वान्, विशेष प्रतिभासवदिति मानम्, व्यक्तरेव निमित्तत्वे अश्वादेरपि गौ!रिति बुद्धिनिमित्तत्वानुषङ्ग इति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy