SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ छोपामा शब्दसतसमर्थनम् । नियतदेशकालतया साधारणबुद्धेरिव विशेषलक्षणनिमित्तव्यतिरेकेणापि तथाविधासाधारणबुद्धेरसम्भवात् । परेणापि हि वक्तुमेवं शक्यं यदभेदाविशेषेऽपि एकमेव ब्रह्मादिस्वरूपं प्रतिनियतानेकनीलाद्याभासनिबन्धनं भविष्यतीति किमपररूपादिस्खलक्षणपरिकल्पनयेति । यदि रूपादिस्वलक्षणमन्तरेणापि रूपाद्याभासज्ञानस्य सम्भवे प्रवृत्त्यादिलक्षणो व्यवहारो न स्यात् , अपरस्यार्थक्रियानिबन्धनार्थव्यवस्थापकस्याभावात् , अतस्स्वलक्षणाकारज्ञानस्य 5 तन्निमित्तत्वेन तद्व्यवस्थापकत्वमिति चेत्, न, सदृशाकारज्ञानेऽप्यस्य समानत्वात् , अबाधितस्समानाकार प्रत्ययो हि तथाभूतविषयमन्तरेणोपजायमानो मिथ्यारूप: स्यादिति विशेषप्रत्ययस्येवाबाधितसमानप्रत्ययस्यापि सामान्यमालम्बनभूतं निमित्तमभ्युपगन्तव्यमिति सामान्यमस्ति वस्तुभूतम् , अन्यथा समानप्रतिभासायोगात् । ननु यदि सामान्यमनुगताकारज्ञानजनकतैकस्वभावं तर्हि सर्वदा तज्ज्ञानं स्यात् , तस्यानपेक्षस्यापेक्षायोगात्, सहकार्यपेक्ष. 10 जनकत्वे वा तत्कृतोपकारस्य ततोऽभेदे उपकारस्य तत्कार्यत्वेन तदभिन्नं सामान्यमपि कार्य स्यात् , भेदे वा सम्बन्धासिद्धिः, नित्यानाञ्चैककार्यकर्तत्वरूपं सहकारित्वमपि न सम्भवति, तदवस्थाभाविस्वभावस्य प्रागूर्ध्वञ्च सत्त्वात् , असत्त्वे त्वनित्यत्वम् । कार्याजनकस्वभावत्वे तु न कदापि कार्यमुत्पादयेत् , अजनकस्वभावस्यान्यसन्निधानेऽप्यजनकत्वात् , साधारणज्ञानेऽपि सामान्यस्याप्रतिभासप्रसङ्गश्च, जनकाकारार्पकस्यैव ज्ञानविषयत्वात् , एवञ्च ज्ञानमप्य- 15 जनयइवस्त्वेव स्यात् , अर्थक्रियाकारित्वलक्षणत्वाद्वस्तुनः, तस्मात्सामान्यस्य नित्यत्वेन तद्वि. षयस्य ज्ञानस्य बाध्यमानतयाऽबाधित विषयत्वमसिद्धम् । किश्व सामान्यस्य सर्वसर्वगतत्वे व्यक्त्यन्तरालेऽप्युपलब्धिप्रसङ्गः, न चाभिव्यक्तिहेतुव्यक्त्यभावात्तत्रानुपलम्भ इति वाच्यम् , प्रथमव्यक्तिप्रतिभासवेलायो तस्याभिव्यक्तत्वात् , अन्तरालेऽनभिव्यक्तत्वेऽभिव्यक्तानभिव्यक्तस्वभावभेदादनेकत्वापत्त्या सामान्यरूपताभङ्गापत्तिर्भवेत् , तस्मादवश्यमन्तराले तदुपलम्भ- 20 प्रसङ्गः, ततश्चोपलब्धिलक्षणप्राप्तस्य तत्रानुपलम्भादसत्त्वमिति तन्न सर्वसर्वगतम् , यदि तु स्वव्यक्तिसर्वगतं तदित्युच्यते तर्हि प्रतिव्यक्ति तस्य परिसमाप्ततया व्यक्तिस्वरूपतेव भेदः स्यात् । अभेदे चैकव्यक्तावभिव्यक्तस्य ग्रहणेऽन्यव्यक्तिस्थस्यापि तस्य प्रतिभासप्रसङ्गेन तदाधारप्रतिभासमन्तरेण तदाधेयप्रतिभासानुपपत्त्या सर्वव्यक्तीनां युगपत् प्रतिभासप्रसङ्गः। किश्चैकत्र घटादौ समवेतं सामान्यमन्यत्रोत्पन्ने घटे निष्क्रियत्वान्न याति, न च तदुत्पत्तिपूर्व 26 तत्रैवासीत् देशस्यापि तस्य तद्वत्ताप्रसङ्गात्, नाप्येकत्रांशेन वत्तमानमपरत्र व्यत्क्युत्पत्तावंशेन सम्बद्ध्यते, सर्वसर्वगतत्वाभ्युपगमात् । नापि पूर्वव्यक्ति परित्यज्यान सम्बद्ध्यते पूर्वव्यक्तेरघ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy