SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वलोपाने टादिरूपताप्रसङ्गादिति कृत्स्नैकदेशवृत्तिविकल्पानुपपत्त्या व्यक्तिभिन्नत्वे तस्य कथमबाधितप्रत्ययविषयत्वात् सत्त्वम् । व्यक्तिस्वभावत्वे च व्यक्तिवदुत्पादविनाशयोगित्वेन तस्यासाधारणरूपत्वं स्यात्, असदेतत् यदि सामान्य नित्यं व्यापकमेकान्तेन व्यक्तिभ्यो भिन्न मभिन्नं वा स्यात्तदा निरुक्तबाधकानुषशः स्यात्, यदा तु सदृशपरिणामलक्षणं सामान्य 5 विसदृशपरिणामलक्षणस्तु विशेषस्तदात्मकञ्चैकं वस्तु तदाऽत्यन्तभेदाभेदपक्षभाविदोषानु षङ्गोऽनास्पद एव । न च साधारण रूपमसाधारणस्वरूपाद्भिन्नं, तदाकारपरिहारेणावस्थितस्वरूपत्वात् , यद्यदाकारपरिहारावस्थितस्वरूपं तत्ततो भिन्नं यथा घटस्वरूपपरिहारावस्थितस्वरूपः पट इत्यनुमानेन साधारणासाधारणस्वरूपस्य एकत्वविरोधोऽत्रापि बाधकः, अन्यथा न किश्चिदपि भिन्नं स्यात् , अन्यस्य भेदव्यवस्थापकस्याभावा10 दिति वाच्यम् , समानासमानाकारतया शाबलेयादेः परिस्फुटप्रतिपत्तौ बहिः प्रतिभास मानस्यैकत्वेन विरोधासिद्धेः, अन्यथा ग्राह्यग्राहकसंवित्तित्रितयाध्यासितं संवेदनं कथमेकं स्यात् , परस्परविरुद्धनीलाद्यनेकाकारं चित्रज्ञानं वा कथमेकमभ्युपगम्येत । यदीदमपि अने. काकारमेकं न स्यात्तर्हि ग्राहग्राह्यकाकारादिविविक्तं तद् भवेत् , तथैव स्वसंवेदनेऽपि तदव भासेत चेत्तदा क्वचिदपि ज्ञाने ग्राह्यग्राहकाकारप्रतिभासाभावेनाप्रवृत्तिकं जगत्स्यात् । किञ्च 15 द्विविधो विरोधः, सहानवस्थानलक्षणः परस्परपरिहारस्थितिलक्षणश्व, स द्विविधोऽप्ये. कोपलम्भेऽपरानुपलम्भाव्यवस्थाप्यते साधारणासाधारणाकारयोऽस्तु प्रत्यक्षेण भेदाभेदात्मकतया प्रतीतेः कथं विरोधः, तद्रूपातद्रूपाकारते हि तयोर्भेदाभेदी तथाऽवभासनमेव च भेदाभेदग्रहणमिति कथं विरोधादिदूषणम् । न च तयोः परस्परपरिहारस्थितिलक्षणता सम्भवति, अव्यवच्छेदरूपतया प्रत्यक्ष प्रतिभासनात् । न च सामान्यविशेषयोराकारभे20 देऽप्यभेदेऽन्यत्रापि अन्यतोऽन्यस्यान्यत्वं न स्यादिति वाच्यम् , सामान्यविशेषवत्तादात्म्ये नान्यत्र प्रत्यक्षतोऽग्रहणात् , ग्रहणे वा भवत्येवाकारभेदेऽप्यभेदः । आकारनानात्वे सामान्यविशेषयोरभेदप्रतिपत्तिर्मिध्येति चेन्न तथाविधप्रत्यक्षे बाधकाभावात् । सामान्यविशेषौ भित्री स्वभावभेदात्, घटपटादिवदित्यनुमानं बाधकमिति चेन्न प्रत्यक्षेण बाधितत्वादवानुमाना प्रवृत्तेः दृष्टान्तस्य साधनविकलत्वाच्च, घटादेरपि केनचिदाकारेण सहशतयाऽभेदात्तद्विरो. 25 धिनः सर्वथा स्वभावभेदस्याभावात् । एवं सामान्यविशेषयो)द एव, भिन्नयोगक्षेमत्वात्, हिमवद्विन्ध्ययोरिवेत्यपि अनुमानमयुक्तं व्याप्त्यसिद्धेः, विपक्षेण सह साक्षादविरोधिनः भिन्न. १ तथा च ये यत्र नोत्पन्ना नापि प्रागयस्थायिनो नापि पवादन्यतो देशादागतिमन्तस्तै तत्र नोपलभ्यन्ते नापि वर्तन्ते यथा शशशिरसि तद्विषाणम् , तथा च सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति व्यापकानुपलब्धिः, न चायमनैकान्तिको हेतुः तत्र वृत्त्युपलम्भयोः प्रकारान्तराभावादिति बोध्यम् ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy