SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] शब्द सङ्केत समर्थनम् । योगक्षेमत्स्य व्यतिरेकानिश्चयात् । न च साध्याभावस्य साधनविरुद्धैक योगक्षेमत्वव्याप्तस्वात् पारम्पर्येण विरोध: सिद्ध एवेति वाच्यम, अत्रापि अभेदलक्षणहेतोः एकयोगक्षेमत्वरूपसाध्यविरोधिना विरोधासिद्धेः । न च भिन्नयोगक्षेमस्याप्यभेदाभ्युपगमे न कचिदपि भेदः सिद्धयेदिति विश्वमेकं स्यादिति वाच्यम्, भिन्नयोगक्षेमत्वैक योगक्षेमत्वाभ्यां भेदाभेदव्यवहारव्यवस्थाया असिद्धेः किन्तु भेदाभेदप्रतिभासादेव, अतः सामायनविशेषयोः सहो. 5 त्पादविनाशाभावेऽपि अभेदप्रतिभासादभेदो न विरुद्ध इति वस्तुभूतसामान्यसद्भावे बाधकाभावः । न च यदेव शाबलेयव्यक्तौ सदृशपरिणतिरूपं सामान्यं तदेव बाहुलेयव्यक्तावपि, व्यापकस्यैकस्य सर्वगोव्यक्त्यनुयायिनः तस्यानभ्युपगमात्, तदनभ्युपगमश्च शाबलेयादिव्यक्तीनां बाहुलेयादिव्यक्तिसदृशतया प्रतिभासेऽपि एकानुगतसामान्यक्रोडीकृतत्वेनाप्रतिभासनात् तस्मात्समानासमानपरिणामात्मनः शाबलेयादिवस्तुनोऽवाधिताकार- 10 प्रत्यक्षप्रतिपत्तौ प्रतिभासनाद्विशेषवन्न सामान्याभावः । ननु सजातीयविजातीयव्यावृत्तं निरंशं वस्तु तत्सामर्थ्य भाविनि च प्रत्यक्षे तत्तथैव प्रतिभाति, तदुत्तरकालभाविनस्तु विकल्पा अवस्तुसंस्पर्शिनः व्यावर्त्यवस्तुबलेन भिन्नभिन्नव्यावृत्तिनिमित्तान् सामान्यभेदान् व्यावृत्ते वस्तुन्युपकल्पयन्तः समुपजायन्ते, अतो न तद्वशात्तद्व्यवस्था युक्ता अतिप्रसङ्गात् एवच सर्वे भावाः स्वभावतः स्वभावपरभावाभ्यां व्यावृत्ताः, स्वस्वभावव्यवस्थितेरित्यनुमानेन सजा- 15 तीयविजातीयव्यावृत्तनिरंशवस्तुसिद्धिरिति चेन्मैवम्, स्वसाध्येन हेतोर्व्यायसिद्धेः, ना दनुमानेन तत्सिद्धिः सर्वभावानां प्रत्यक्षाविषयत्वेन धर्म्यसिद्ध्याऽनुमाया अप्रवृत्तेः । साध्यहेत्वरविनाभावस्य सर्वोपसंहारेणानुमानान्तरेण साधनेऽनवस्थानात् । नापि प्रत्यक्षेण त सिद्धि:, तस्य सन्निहितविषयग्राहकत्वेन देशादिविप्रकृष्टा शेषपदार्थलम्बनत्वानुपपत्तेः । न च प्रत्यक्षेण पुरोवर्त्तिषु भावेषु भेदेन साध्यलक्षणेन सह हेतोः सर्वोपसंहारेण व्याप्तिं प्रतिपद्यत 20 इति वाच्यम्, अध्यक्षस्य यत्रैव स्वव्यापारानुसारिस्वोत्तर विकल्पजनकत्वं तत्रैव तस्य प्रा. माण्येन सर्वतो व्यावृतात्मनि तद्बलेन विकल्पानुत्पत्तेः, सर्वदा विकल्पस्यानुवृत्तव्यावृत्ताकाराभ्यवसायिन एवोत्पत्तेः, अन्यथा सजातीयाद्भेद इत्यभिधानानर्थकत्वापत्तेः । किञ्च क्षणिकत्वानुमानमपि व्यर्थं स्यात्, अक्षणिकादिव्यावृत्तेः स्वलक्षणानुभवजन्य विकल्पेनाध्यवसायात्, तथा सर्वतो व्यावृत्ताकाराध्यवसायिनां विकल्पानां स्वलक्षणमपि विषयं स्यात्, 25 यथाह्यध्यक्षं प्रतिनियतस्वरूपस्यानुकरणात्स्वलक्षणविषयं तथैव सर्वतो व्यावृत्ताकारमाही विकल्पोऽपीति सोऽपि स्वलक्षणविषयः कुतो न भवेत् । तस्याविशदावभासित्वान्न तथेति चैत्र दूरे वर्त्तमानवृक्षादिस्वरूपविषयस्याध्यक्षस्यापि अविशदावभासितया स्वलक्षणविषयत्वाभावप्रसङ्गात् । न चेष्टापत्तिः अयथार्थाकारग्राहित्वेन तस्य भ्रान्तत्वादिति वाच्यम्, तद "Aho Shrutgyanam" : ६७ :
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy