SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ दशमम् *यक्षस्यानधिगतार्थ गन्तृत्वेना विसंवादित्वेन च प्रमाणान्तरत्वप्रसक्तेः न च तस्य प्रत्यक्षता, भ्रान्तत्वाभ्युपगमात्, नानुमानत्वमलिङ्गजत्वात् नापि विकरूपरूपता, तत्कारणं स्वलक्षणमन्तरेणापि बाह्यार्थसन्निधिबलतस्तस्योपजायमानत्वात् । न चाध्यक्ष विषयस्वलक्षणाध्य वसायित्वादस्याप्रामाण्यम्, तथाभ्युपगमेऽध्यक्षेक्षितशब्दविषये क्षणिकत्वानुमानस्याप्यप्रामा5 व्यापत्तेः । न चानुमानमनिश्चितार्थाध्यवसाय्यतोऽनधिगतार्थ गन्तृत्वात् प्रमाणम्, निश्चितो ह्यध्यक्षविषयः, क्षणिकत्वस्य चानिश्चयान्नाध्यक्षविषयत्वमिति वाच्यम्, तथा सति क्षणिकत्वानुमानवद्विकल्पस्यापि प्रामाण्यं स्यात् अनिश्चितार्थाध्यवसायत्वस्योभयत्र समानत्वात् । यत्रांशे प्रत्यक्षं निश्चयोत्पादनसमर्थं तत्र प्रतिभासाविशेषेऽपि विकल्पो न प्रमाणम्, प्रत्यक्षगृहीतांशमाहित्वात्, अनुमानन्तु प्रमाणम्, अगृहीतार्थाधिगन्तृत्वात्, तद्विषयेऽर्थेऽध्य10 क्षस्य निश्चयोत्पादनासामर्थ्यादिति चेन्न, एकस्यैवानुभवज्ञानस्य स्वार्थविषयक निश्चयोत्पादने बिरोधेन सामर्थ्यासामर्थ्यानुपपत्तेः । नापि समारोपव्यवच्छेदकत्वेनानुमानं प्रमाणं न पुनः प्रत्यक्षपृष्ठभावी विकल्प इति वक्तव्यम्, अनुमानस्य समारोपव्यवच्छेदकत्वानुपपत्तेः क्षणिके ह्यक्षणिकज्ञानं समारोपः, तश्चानुमानप्रवृत्तेः प्रागिव पञ्चादव्यविकलमेवेति । पश्चादस्खलद्रूपेण समारोपस्याप्रवृत्तेस्तद्वैकल्यमिति चेत्, न तदा स्खलते रक्षणिक प्रत्ययात् स्वपुत्रादौ 15 प्रवृत्तिर्न स्यात् । किञ्च समारोपव्यवच्छेदः अभावरूपत्वेनाहेतुकः, स कथमनुमानेनान्येन वा क्रियते ज्ञाप्यते वा, अभावेन सह कस्यचिदसम्बन्धात्तथा तस्याप्रतिपत्तेश्च अतो न क्षणिकसमारोपाव्यवच्छेदकत्वात् क्षणिकानुमानस्य प्रामाण्यम् । तस्मादनुमानप्रामाण्यवादिना सर्वोपसंहारेण व्याप्तिग्राहकः प्रत्यक्ष प्रभवः स्वविषयाविसंवादी विकल्पः प्रमाणयितव्यः, स चास्मद्दर्शने आभिनिबोधिकं ज्ञानमिति प्रसिद्धः, अस्पष्टतया श्रुतं वा ऊहशब्द20 वाच्यतया न प्रत्यक्ष परोक्षप्रमाणद्वयव्यतिरिक्तं तत् प्रमाणान्तरम् । प्रत्यक्षानुमानवादिनान्तु व्याप्तिग्राहकं प्रमाणान्तरं प्रसक्तम्, ताभ्यां व्याप्तिग्रहणासम्भवात् । न च प्रतिबन्धग्राहकस्य प्रमाणस्य स्वार्थे व्यभिचारस्तत्र प्रतिबन्धाभावादिति वाच्यम्, तत्र योग्यतालक्षणप्रतिबन्धसद्भावात्, प्रत्यक्षेsपि हि स्वार्थपरिच्छेदो योग्यतात एव न तु तदुत्पत्त्यादेः, अन्यथा इन्द्रियादेरपि तत्परिच्छेद्यत्वप्रसङ्गात् । न च योग्यतायाः प्रतिबन्धसाधकत्वेऽनवस्था : ६८ १ जात्यादेरपोहरूपस्य व्यक्तौ आलोचनाज्ञानेन गृहीतायां गृहीतत्वात्तद्विषयं सविकल्पकं गृहीतग्राहिवात्स्मृतिवन्न प्रमाणम्, न च प्रथमं सम्मुग्धरूपेणालोचना ज्ञानेनाधिगतं न हि निश्चितरूपेण, उत्तरोत्तरस्तु निश्चयः प्रमाणं समारोपव्यवच्छेद विषयत्वादनुमानवदिति वाच्यम्, प्रवृत्तसमारोपव्यवच्छेदेनैवानुमानस्य प्रमाणत्वात् न तु समारोपविषयव्यवच्छेदमात्रेण, स्मृतेरपि प्रामाण्यप्रसङ्गात् । दर्शनानन्तरभाविनो गवादेविकल्पस्य तु न प्रवृत्तसमारोपव्यवच्छेदकता, अन्तर समारोपस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भतोऽनुत्पन्नत्वादिति बौद्धाः || " Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy