________________
सोपानम् ]
शब्द सङ्केतसमर्थनम् |
: ६९ :
प्रसङ्गः, लिङ्गवदस्य प्रतिबन्धनिश्चयापेक्षया गमकत्वाभावात् प्रत्यक्षवत् योग्यतयैव स्वार्थप्रकाशनात् स्वहेतोरेव नियतार्थप्रकाशनयोग्यस्योत्पत्तेः । न च स्वलक्षणाध्यक्ष पृष्ठभाविनो विकल्पस्थाविशदावभासित्वान्न सामान्यग्राहकत्वमिति वाच्यम्, सहशेष्वर्थेषु विस्फारिताक्षस्य पुरः स्थितेषु स्फुटं तस्यावभासनात् । सविकल्पाविकल्पयोर्युगपद्वृत्तेस्तयोरेकतां विमूढोऽ ध्यवस्यति, अतः स्पष्टतावभासस्तत्र संलक्ष्यत इति चेन्न युक्तयाऽनुपपत्तेः, किं तयोरेक- 5 विषयत्वादेकत्वाध्यवसायः, उतान्यतरेणान्यतरस्य विषयीकरणात् किं वाऽपरस्येतरत्राध्यारोपात् । नायः, विकल्पस्य पूर्वानन्तरप्रत्ययाग्राह्यस्व समानकालवस्तुविषयत्वात् । न द्वितीयः समानकालभाविनोरपारतंत्र्यात् । नान्त्यः, अविषयीकृतस्यान्यस्यान्यत्राध्यारोपासम्भवात् । न च तदुत्तरभाविज्ञानं तौ विषयीकृत्यापरमन्यत्राध्यारोपयतीति वाच्यम्, तयोर्विवेकेनोपलम्भप्रसङ्गात्, तस्मान्नैकत्वाध्यवसायः । किञ्च ज्ञानयोर्युगपद्वृत्तित्वमप्यसिद्धम्, तयोरेक- 10 दोत्पत्तौ हि युगपद्वृत्तिः स्यात्, अर्थेन्द्रियादिलक्षणैक सामग्रीविशेषाद्विकल्पा विकल्परूपकार्यद्वयोदयासम्भवात् सामग्रीभेदाद्धि तज्जन्यकार्यस्य भेदो युक्तोऽन्यथा स भेदो निर्हेतुकः स्यात् । न च यस्य व्यतिरेकात्कार्यस्य व्यतिरेको दृष्टस्तत्र तस्य सामर्थ्यनिर्णयः, अर्थादिव्यतिरेके च न विकल्पस्य व्यतिरेकः, अर्थेन्द्रियाद्यभावेऽपि विकल्पसमानजातीयस्यातीतादिविषयविकल्पस्योदयात्, अतोऽर्थेन्द्रियादेरविकल्पोत्पादन एव सामर्थ्यनिश्वयादस्त्येव 15 सामग्रीभेद इति कार्यभेदोऽपि युक्त एवेति वाच्यम्, अविकल्पदर्शनस्यापि अनर्थजन्यत्वप्रसक्तेः, तैमिरिकचक्षुषोऽर्थाभावेऽपि कस्यचिदविकल्पस्योत्पत्तिदर्शनात्, तस्मात्सिद्धमक्ष. जन्यस्य विकल्पस्यार्थसाक्षात्करणलक्षणं वैशद्यम् । तथा एकस्यैव विकल्पस्यार्थग्राहिण उपलभ्यमानतया तदपरं दर्शनं नास्ति यद्व्यापारानुसारिणो विकल्पस्य गृहीतग्राहितया भवद्भिप्रामाण्यं प्रतिपाद्येत । न च सादृश्यात्तयोर्भेदेनानुपलक्षणमिति वाच्यम्, सन्तानतद्भिन्न- 20 विषयत्वेन तयोरेकविषयत्व कृतसादृश्याभावात् ज्ञानत्वेन सादृश्ये नीलपीताकारज्ञानयोरपि ज्ञानत्वेन सादृश्यात् भेदेनानुपलक्षणप्रसङ्गात्, अतो नाविकल्पकज्ञानसद्भावः । न च प्रथमेऽक्षसन्निपात एव यदि सविकल्पकं दर्शनं भवेत्तद्वाह्यश्चार्थात्मा, तथा सत्यर्थग्रहणाभाव एव स्यात्, तथाहि सति हि वस्तुदर्शने तत्सन्निधाने दृष्टे ततस्तद्वाचकशब्दस्मृतिः स्यात्, तत्स्मृतौ तेनार्थं योजयति, तद्योजितवार्थं विकल्पिक बुद्धिरध्यवस्यति, न हि सविकल्पक - 25 प्रत्यक्षवादी शब्दरहितमर्थं पश्यति, स्वाभिधानविशेषणापेक्षा एवार्थी विज्ञानैव्यर्वसीयन्त इति नियमात् । विना तद्दर्शनं न तद्वाचकशब्दस्मृति: तामन्तरेण च न वचनपरिष्वक्तार्थ दर्शनमित्यर्थदर्शनाभाव एव प्रसक्त इति वाच्यम्, शब्दसंयोजितार्थग्रहणमेव विकल्प इत्यनभ्युपगमात, किन्तु निरंशक्षणिकानेक परमाणुविलक्षणस्थिरस्थूलार्थग्रहणं विकल्पः, स च
" Aho Shrutgyanam"