________________
: ४६ :
सम्मतितत्व सोपाने
[ सप्तमम्
यसिद्धिर्न स्यात्, तथा च मुमुक्षूणां तत्र प्रवृत्तिर्न भवेदेवातस्तस्योपदेशकत्वेऽवश्यं शरीरसम्बन्धो वक्तव्यः व्याप्याभ्युपगमस्य व्यापकाभ्युपगमनान्तरीयकत्वात्, शरीरसम्बन्धाभावे च व्याप्यस्याप्युपदेशकत्वस्याभावः इति प्रसङ्गविपर्ययौ, व्याप्यव्यापकभावप्रसाधक प्रमाणं प्रत्यक्षानुपलम्भशब्दवाच्यं कार्यकारणभावप्रसाधकं प्रत्यक्षमेव, ताल्वादि5 व्यापाराभावेऽप्युपदेशस्य सद्भावे तस्य तद्धेतुकत्वासम्भवात् । ततो न शरीराभावे ईशस्य कर्तृत्वम्, तेन शरीरमनः सम्बन्धाभावे प्रयत्न बुद्ध्यादेरभावादीश्वर सत्चैवासिद्धा, तदेवमीश्वरकर्तृत्वसाधकस्य तन्नित्यत्वादिधर्मसाधकस्य च प्रमाणस्याभावात् क्लेशकर्म विपाकाशयैर परामृष्टः पुरुषविशेष ईश्वर इत्याद्यसिद्धमेव । तस्माद्भवहेतुरागादिजयात् शासनप्रणेतारो जिनाः सिद्धाः, अतः सुव्यवस्थितं भवजिनानां शासनमिति दिक् ||
10
15
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वर पट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिन विन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य ईश्वरकर्तृत्वभङ्गो नाम षष्ठं सोपानम् ॥
बि
अथात्मविभुत्वनिराकरणम् ।
20
-----
स्थानमनुपम सुखमुपगतानामित्यनेन नवानां बुद्ध्यादिविशेषगुणानामात्यन्तिकः क्षय आत्मनो मुक्तिरिति मतस्य व्यवच्छेदः । ननु त्रिभुतयाऽऽत्मनो विशिष्टस्थानप्राप्तिहेतुगत्यभाचेन कथमनुपम सुखं स्थानमुपगतानामिति युज्यते, सुखस्यापि कर्मक्षयेन शरीरमनःसंयोगाभावान्निमित्तभूतासमवायिकारणाभावेन मुक्तात्मसूत्पत्त्यसम्भवात्, नित्यस्य चावैषयिकस्य सुखस्यानुपलम्भेनासत्त्वात्, आत्मनो विभुत्वञ्च नित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वाद्गनादेखि सिद्धम, न च बुद्धेर्गुणत्वासिद्ध्या हेतुविशेषणासिद्धिरिति वाच्यम्, प्रतिषिध्यमानद्रव्यकर्मस्वभावे सति सत्तासम्बन्धित्वात्तत्सिद्धेः, बुद्धिर्हि सामान्यविशेषवत्वे सत्ये केन्द्रिय प्रत्यक्षत्वात् रूपादिवत् सामान्यविशेषवत्त्वे सत्यगुणवश्वे च सति अचाक्षुषप्रत्यक्षत्वात् शब्दवदेकद्रव्या, एकद्रव्यत्वाच रूपादिवद्रव्यं न भवति, संयोगविभागाकारणत्वाच्च कर्म न भवति, एवं बुद्धिः सतीति प्रत्ययोत्पत्तेः सा सत्तासम्बन्धिनीति न गुणत्वसाधकहेतोरसिद्धता । बुद्धेरस्मदाद्युपलभ्यमानत्वञ्च तदेकार्थसमवेतानन्तरज्ञानप्रत्यक्षत्वानासिद्धम, अकार्यत्वादाकाशवदात्मनो नित्यत्वमपि सिद्धम् । न वा विभुत्वसाधकस्य हेतोरनैकान्तिकत्वं विपक्षेऽस्याप्रवृत्तेः । नापि विरुद्धः विभुन्याकाशे वृत्त्युपलम्भात् । नापि
25
"Aho Shrutgyanam"