________________
सोपानम् ] ईश्वरकर्तृत्वभङ्गः ।
:४५: भावे भवद्भिः कार्योत्पत्तिरभ्युपगम्यते, न चासमवायिकारणात्ममनःसंयोगादिसद्भाव ईश्वरेऽ. भ्युपगत इति न ज्ञानादेरपि तत्र भावः । न चासमवायिकारणादेरभावेऽपि तत्र ज्ञानमुत्पद्यत इति वक्तव्यम् , तथा सति निमित्तकारणव्यतिरेकेणापि क्षित्यादेरुत्पत्तिप्रसङ्गात् । तज्ज्ञानादीनाश्च नित्यत्वे नित्यमकुरादिकार्योत्पत्तिप्रसङ्गः । न च सर्वदा न सहकारिणां सन्निधान. मतो न दोष इति वक्तव्यम् , लेषामपि तज्ज्ञानायत्तजन्मतया सर्वदा सन्निधानात् , नित्यज्ञा- 5 नादीनामेव कारणसम्भवे तदाधारेश्वरकल्पनावैयर्थ्यप्रसङ्गाञ्च, न चानाश्रितस्य ज्ञानादेः सम्भवोऽतस्तदात्मा कल्प्यत इति चेन्न, तदात्मनोऽप्यनाश्रितस्याप्यसम्भवेनापरापराश्रयकल्पनाप्रसङ्गात् । न च तस्यात्मनो द्रव्यत्वेनानाश्रितस्यापि सम्भव इति वाच्यम् , गुणाश्रितस्यैव द्रव्यत्वेन बुद्ध्यादेर्गुणत्वासिद्धेः, तत्समवेतत्वानिश्चयात्, इदमत्र समवेतमितीश्वरप्रतीतेरयोगात्तेनात्मनो ज्ञानस्य चाग्रहणात् । न वा तज्ज्ञानं स्वं स्वधारञ्चा- 10 स्मानं वेत्ति, अस्वसंविदितत्वाभ्युपगमात् । न चापरं ग्राहकं नित्यं ज्ञानं तस्येश्वरस्य सम्भवति, येनैकेन सकलपदार्थजातमपरेण च तज्ज्ञानमवगमयतीति स्यात् , एकदा यावद्रव्यभाविसजातीयगुणद्वयस्यान्यत्रानुपलब्धेः, ज्ञानद्वयाङ्गीकारेऽपि ज्ञानस्य स्वाग्राहकत्वेन स्वाधारस्य स्वसहचारिज्ञानस्यान्यस्य गोचरस्य वा ग्राहकत्वासम्भवः, यद्धि स्वग्रहणविधुरं तन्नान्यग्राहकं, यथा घटादि, स्वग्रहणविधुरश्च प्रकृतं ज्ञानमिति । तस्मान्न तत्समवेतत्वेन 15 बुद्धेर्गुणत्वं नापि तदाधारस्य द्रव्यत्वं सिद्ध्यति, एवश्च शरीरसम्बन्धस्यैव कुम्भकारादो कर्तृत्वव्यापकत्वेन प्रतीतेस्तदभावे कर्तृत्वस्यापि व्याप्यस्याभावप्रसङ्गः, कर्तृत्वं हि कचित्करादिव्यापारेण कारणप्रयोक्तृत्वलक्षणं यथा कुम्भकारस्य दण्डादिकारणप्रयोक्तृत्वम् । अपरं वाग्व्यापारेण यथा स्वामिनः कर्मकरादिप्रयोक्तृत्वस्वरूपम् , अन्यच्च प्रयत्नव्यापारेण यथा जाप्रतः स्वशरीरावयवप्रेरकत्वस्वभावम, किश्चिञ्च निद्रामदप्रमादविशेषेण ताल्वादिकरादि 20 प्रेरकत्वम् । अतः सर्वथा शरीरसम्बन्ध एव कर्तत्वस्य व्यापकः, स यदीश्वरान्निवर्त्तते तर्हि स्वव्याप्यं कर्त्तत्वमप्यादाय निवर्तते, इति न तस्य कर्तृत्वमभ्युपगन्तव्यमिति प्रसङ्गः । अथ तस्य जगत्कर्तृत्वमभ्युपगम्यते चेत्तदा शरीरसम्बन्धः कर्तृत्वव्यापकोऽभ्युपगन्तव्यः इति प्रसङ्गविपर्ययः, न हि कारकशक्तिपरिज्ञानलक्षणं तस्य कर्तत्वम् , येन प्रसङ्गविपर्ययो
र्याप्त्यसिद्धेरभावः स्यात, कुम्भकारादौ मृत्पिण्डादिकारकशक्तिपरिज्ञानेऽपि शरीरव्यापारा- 25 भावे घटादिकार्यकर्तत्वादर्शनात , सुप्तप्रमत्तादौ च ताल्वादिकारणपरिज्ञानाभावेऽपि तद्रूया. पारे प्रयत्नलक्षणे सति तत्प्रेरणाकार्यदर्शनात् | किश्च मुमुक्षुभिः सर्वज्ञत्वेन विशिष्टधर्माधर्माग्रुपदेशकर्तेश्वर उपास्यः अन्यथाऽज्ञोपदेशानुष्ठाने विप्रलम्भशंकया प्रवृत्तिर्न स्यात् । तस्य सर्वज्ञत्वे सत्यपि शरीराभावे वाभावादुपदेष्वृत्वासम्भवेन तदुपदेशस्य तत्कृतत्वेन प्रामा
"Aho Shrutgyanam"