________________
सम्मतितत्त्वसोपाने
[ षष्ठं मिच्छता तदभावे कार्यकारणभावो नाभ्युपगन्तव्य इत्यन्वयव्यतिरेकानुविधानेन कार्यकारणभावो व्याप्तः, स यत्रोपलभ्यते तत्रान्वयव्यतिरेकानुविधानसंनिधापनेन तदभावं बाधत इत्यनुमानसिद्धो व्यतिरेकः, तत्सिद्धेश्चान्वयोऽपि सिद्धः, तथाहि य एव सर्वत्र साध्याभावे
साधनाभावलक्षणो व्यतिरेकः स एव साधनसद्भावेऽवश्यन्तया साध्यसद्भावस्वरूपोऽन्वय 5 इति व्यापकानुपलब्धेः पक्षधर्मत्वान्वयव्यतिरेकलक्षणः साध्याव्यभिचारः प्रमाणतः सिद्धः, न चैवं कार्यत्वादेरयमविनाभावः सम्भवति, पक्षव्यापकत्वे सत्यन्वयव्यतिरेकयोरभावस्य विपर्यये बाधकप्रमाणाभावतः प्रतिपादितत्वात् । तन्वादीनाश्च बुद्धिमत्कारणत्वे साध्ये तद्विपर्ययोऽबुद्धिमत्कारणाः परमाण्वादयः, न च तेभ्यो बुद्धिमत्कारणव्यावृत्तिनि
मित्तकार्यत्वनिवृत्तिप्रतिपादकं प्रमाणं प्रवर्तते अवयविनो भिन्नस्याभावेन विशिष्टावस्था10 प्राप्तपरमाणुरूपत्वात् । न च तेभ्यः कार्यत्वव्यावृत्तिः प्रत्यक्षतः सिद्धा, बुद्धिमत्कारण
निमित्तकार्यत्वग्राहकत्वेन प्रत्यक्षस्य प्रत्यक्षानुपलम्भशब्दवाच्यस्य तत्राप्रवृत्तेः, परमाण्व. न्तरासंसृष्टपरमाणूनाश्च प्रत्यक्षबुद्धावप्रतिभासनान्न ततः साध्यव्यावृत्तिप्रयुक्ता साधनव्यावृत्तिप्रतिपत्तिः । नाप्यबुद्धिमत्कारणेषु कार्यत्वादेरदर्शनात् साकल्येन ततो व्यतिरेक
सिद्धिः, स्वसम्बन्धिनोऽदर्शनस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् सर्वसम्बन्धिनोs15 सिद्धत्वान्न ततो विपक्षाद्धेतोयाप्त्या व्यतिरेकसिद्धिः । नापि परमाण्वादीनामनुमाना
नित्यत्वसिद्धेरकार्यत्वस्य कार्यत्वविरुद्धस्य तेषु सद्भावात्ततो व्यावर्तमानः कार्यत्वलक्षणो हेतुर्बुद्धिमत्कारणत्वेनान्वितः सिद्ध्यति, कार्यत्वस्याबुद्धिमत्कारणत्वेन विरोधासिद्धेरङ्कुरादिष्वबुद्धिमत्कारणनिष्पाद्येष्वपि तस्य सम्भवात् । न च कार्यत्वमकृतकत्वादेव नित्येभ्यो
व्यावृत्तं, अङ्करादीनाश्चोत्पत्तिमतां बुद्धिमत्कारणपूर्वकत्वेन पक्षीकृतत्वान्न तेहेतोय॑भि 20 चार इति वाच्यम् , पक्षीकरणमात्रादेवावुद्धिमत्कारणत्वाभावस्य तेष्वसिद्धेः, तथाभ्युपगमे
वा पक्षीकरणादेव साध्यसिद्धेहेतूपादानवैयर्थ्यात् । तस्मात्साकल्येन व्यतिरेकासिद्ध्या साकल्येनान्वयासिद्धन कार्यत्वं हेतुः प्रकृतसाध्यसाधनसमर्थः । न च सर्वानुमानेष्वेष दोषस्तुल्य इति वक्तव्यम् , अन्यत्र विपर्यये बाधकप्रमाणबलादन्वयव्यतिरेकसिद्धेः, प्रकृते
तु तदभावात् । किञ्चेश्वरस्य शरीरसम्बन्धाभावेऽपि क्षित्यादिकार्यकर्तृत्वे कर्तत्वं ज्ञानचि25 कीर्षाप्रयत्नानां समवायरूपं वक्तव्यम् , तन्न सम्भवति समवायस्य निषिद्धत्वात् , कुलालादौ
शरीरसम्बन्धव्यतिरेकेणान्यस्य कर्तृत्वस्यानुपलम्भात् , तथा चेश्वरेऽपि तदेव कर्तृत्वं कल्प. नीयं दृष्टानुसारित्वात् कल्पनायाः । न हि शरीरव्यतिरेकेण ज्ञानचिकीर्षाप्रयत्नानां सद्भावः कचिदुपलब्ध इति नेश्वरेऽपि तदभावेऽसावभ्युपगन्तव्यः । ज्ञानाद्युत्पत्तौ हि समवायिकारणमात्मा, आत्ममनःसंयोगोऽसमवायिकारणं, शरीरादि निमित्तकारणम् , न च कारणत्रया
"Aho Shrutgyanam"