________________
सोपानम् ]
ईश्वरकर्तृन्यभङ्गः । चापरकारणसाकल्येऽपि तस्यानुपलम्भ इत्यन्वयव्यतिरेकानुविधानमङ्कुरादिकार्याणाम् । न चेयं व्यापकानुपलब्धिरेव बुद्धिमत्कारणानुमानेन बाध्यत इति वाच्यम् , लोहलेख्यं वनं पार्थिवत्वात् काष्ठवदित्यनुमानेन तस्य तदलेख्यत्वग्राहकप्रत्यभस्य बाधितत्वापत्तेः । न च पार्थिवत्वानुमानमाभास इति वाच्यम , प्रत्यक्षबाधितविषयत्वे सति तदनुमानस्याभासत्वम् तस्याभासत्वे च प्रत्यक्षमबाधित विषयत्वेनानाभासमिति तद्बाधकं भवेदित्य- 5 न्योऽन्याश्रयात् । न च प्रत्यक्षम्य स्वपरिच्छेद्याव्यभिचारादनाभासत्वमतो न दोष इति वाच्यम् , अनुमानस्यापि स्वसाध्याव्यभिचारादेवानाभासत्वात् । न चाबाधितविषयत्वे सति तस्य स्वसाध्याव्यभिचारित्वं परिसमाप्यत इति वाच्यम् , अबाधित विषयत्वम्येव निश्चेतुमशक्यत्वेन कचिदपि स्वसाध्याव्यभिचारित्वस्याप्रसिद्धिप्रसङ्गात् । न हि बाधानुपलम्भाद्वाधाभावः, तस्य विद्यमानबाधकेष्वप्यनुत्पन्न बाधकप्रतिपत्तिषु भावात् । 10 न च यत्र बाधकमस्ति तत्र प्राक्तदनुपलम्भेऽपि उत्तरकालं नियमेन तदुपलब्धिः, यत्र तु तन्नोपलभ्यते तत्र न तत्सद्भाव इति वाच्यम् , अर्वाग्डशा तदनुपलम्भमात्रेण नात्र कदाचनापि बाधकोपलब्धिरिति ज्ञातुमशक्यत्वात् , स्वसम्बन्धिनोऽनुपलम्भस्यानैका. न्तिकत्वात् , सर्वसम्बन्धिनोऽसिद्धत्वात् । नापि बाधकाभावोऽभावग्राहिप्रमाणावसेयः, तस्य प्रमाणत्वासम्भवात् । न चाज्ञातः सोऽनुमानाङ्गम् , पक्षधर्मत्वादिवत् । 15 न च स्वसाध्याव्यभिचारित्वनिश्चयादेव बाधकामावनिश्चयः, तनिश्चयमन्तरेण त्वदभिप्रायेण स्वसाध्याव्यभिचारित्वस्यापरिसमाप्तत्वेन निश्चयायोगात । तस्मात् पक्षधर्मत्वान्वयव्यतिरेकनिश्चयलक्षणस्वसाध्याविनाभावित्वस्य प्रकृतानुमानेऽपि सद्भावात् प्रत्यक्षवन्न तस्थापि तदाभासत्वम् । यदि विपर्यये बाधकप्रमाणाभावात् पार्थिवत्वानुमानस्य नान्ताप्तिरिति तदाभासत्वमिति चेत्तर्हि कार्यत्वानुमानेऽपि विपर्यये बाधकप्रमाणाभावात् व्याप्त्य- 20 भावतस्तदाभासत्वमिति न व्यापकानुपलब्धिविषयबाधकत्वम् । तदेवं स्वग्राह्याव्यभिचारस्यैव सर्वत्र प्रामाण्य निबन्धनत या व्यापकानुपलब्धौ तस्य प्रमाणनिश्चितस्य पक्षधर्मत्वान्वयव्यतिरेकस्वरूपस्य सत्त्वात्तथाविधाया एव च तस्याः स्वसाध्यप्रतिपादकत्वेन प्रामाण्यं न तु बुद्धिमत्कारणानुमानस्य, स्वसाध्याव्यभिचाराभावादिति । न च व्यापकानुपलब्धावपि पक्षधर्मत्वाऽन्वयव्यतिरेकनिश्चयस्य स्वसाध्याव्यभिचारित्वनिश्चयलक्षणस्याभाव 25 इति वाच्यम् , विपक्षे बाधकप्रमाणसद्भावात् तत्रान्वयव्यतिरेकयोरवगमात् , तत्कारणेषु हि कुम्भादिषु तदन्वयव्यतिरेकानुविधानस्योपलब्धिः तदनुपलब्धेबर्बाधकं प्रमाणम् । अथवा तत्कारणत्वं तदन्वयव्यतिरेकानुविधानेन व्याप्तम् , तदभावेऽपि भवतस्तत्कारणत्वे सर्व सर्वस्य कार्य कारणश्च स्यात् , ततश्च न कचित्कार्यकारणभावव्यवस्था स्यात् , अतस्तव्यवस्था
"Aho Shrutgyanam"