SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्व सोपाने [ षष्ठं स्थावरादिभिर्न व्यभिचारो व्यात्यभावो वा साध्याभावे हेतुर्वर्त्तमानो व्यभिचाच्यते, तेषु तु कर्त्रग्रहणं न कर्त्रभावनिश्चय इति वाच्यम्, सर्वप्रमाणाविषयत्वेन कर्त्रभावनिश्रयात् तथात्वेऽपि यदि न निश्चयस्तर्हि गगनादौ रूपाद्यभाव निश्चयो मा भूत्, न चाकृष्टजातेषु स्थावरादिषु न कर्त्तुरग्रहणेन प्रतिक्षेपः कर्त्तुं शक्यः अनुपलब्धिलक्षणप्राप्तत्वाददृष्टवत् 5 न च सर्वा कारणसामग्र्युपलब्धिलक्षणप्राप्तेति वाच्यम शरीरसम्बन्धरहितस्य मुक्तात्मन इव जगत्कर्तृत्वानुपपत्तेः । न च मुक्तात्मनोऽकर्तृत्वं ज्ञानप्रयत्नचिकीर्षा समवायाभावात् न तु शरीरसम्बन्धाभावादिति वाच्यम्, ज्ञानादिसमवायस्य कर्तृत्वेनाभ्युपगतस्यान्योऽन्याश्रयातत्राप्यसिद्धेः, सिद्धे हि सकलजगदुपादानाद्यभिज्ञत्वे सकलजगत्कर्तृत्वसिद्धिः तत्सिद्धौ च तस्य तदभिज्ञत्वसिद्धिरित्यन्योन्याश्रयः तस्माच्छरीरसम्बन्धादेव तस्य जगत्कर्तृत्वमभ्युप10 गन्तव्यं कुलालस्येत्र घटकर्त्तृत्वम्, ततश्च कथं न तस्योपलब्धिलक्षणप्राप्तता, अतः स्थावरेषु तस्यानुपलम्भादभावसिद्धौ कार्यत्वं हेतुर्व्यभिचार्येव । न च तच्छरीरमदृश्यमिति वाच्यम्, अस्मिन् सती स्थावरादिकं जातमिति अन्वयप्रतिपत्यभावेऽपि यथान्यकारणसद्भावेऽपीन्द्रियस्यातीन्द्रियस्याभावे न भवति रूपादिज्ञानं तथा पृथिव्यादिकारण साकल्येऽपि तच्छरीरविरहे तत्स्थावरादिकार्य नोपजायत इति व्यतिरेका प्रतीतिः स्यात् न च 15 भवति तथा । न च तच्छरीरं नियमेन सन्निहितमतो न तथा प्रतीतिरिति वक्तव्यम्, त्रिलोकाधिकरणेषु युगपद्भाविषु पदार्थेषु सावयवस्य मूर्त्तस्यैकस्य तच्छरीरस्य युगपद्र्यात्यसम्भवात्, अमूर्त्तत्वे च निरंशप्रसङ्गेनाकाशमेव तच्छरीरमिति वाच्यम्, तस्य तच्छरीरत्वेनाद्याप्यसिद्धत्वात् । नापि कार्यस्य शरीरेण सह व्यभिचारः स्वशरीरावयवानां प्रवृत्तिनिवृत्योर्विनापि शरीरान्तरं करणादिति वक्तव्यम्, तत्रापि शरीरसम्बन्धव्यतिरेकेण चेतनस्य 20 कार्यनिर्वर्त्तकत्वादर्शनात शरीररहितस्यापि कर्तृत्वे मुक्तस्यापि शरीरमन्तरेण ज्ञानसमवायिकारणत्व कल्पनापत्तेः तथात्वे च ज्ञानादिगुणरहितात्मस्वरूपावस्थितिलक्षणमुक्त्य सम्भवेन तदर्थमीश्वराराधनस्यासंगतिप्रसङ्गः, व्यतिरेकमात्रादपि नेश्वरस्य कारणतासिद्धिः तस्य नित्यव्यापकतया व्यतिरेकासम्भवादतो न व्याप्तिसिद्धिः कार्यत्वहेतोः । तथा बाधितोऽपि हेतुः, तदभावग्राहकानुमानस्य सत्वात् । यद्धि यस्यान्वयव्यतिरेको नानुविधत्ते तन्न तत्का25 रणम, यथा पादयो न कुलालकारणाः, नानुविदधति चाङ्कुरादयो बुद्धिमत्कारणान्वयव्यतिरेकाविति व्यापकानुपलब्धिः यच यत्कारणं तत्तस्यान्वयव्यतिरेकावनुविधत्ते यथा बटादिः कुलालस्य । न चोपलब्धिमत्कारणसन्निधाने प्रागनुपलब्धस्याङ्कुरादेरुपलम्भस्तदभावे : ४२ : , १ अत्र हि प्रतिषेध्यं बुद्धिमत्कारणं तयापकं अङ्कुरादेर्बुद्धिमत्कारणान्वयव्यतिरेकानुविधानं तस्यानुपलम्भात्तत्कारणत्वाभावः सिद्धयतीति तात्पर्यम् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy