________________
सोपानम् ]
ईश्वरकर्तृत्वभनः । तत्सद्भावेऽपि स्वरूपतस्तयोरसम्बन्धित्वप्रसङ्गात् , भिन्नस्य तत्कृतोपकारमन्तरेण तत्सम्बन्धित्वायोगात् , ततोऽपरोपकारकल्पनेऽनवस्थापत्तेः । न द्वितीयः, सम्बन्धकल्पनावैयात्, विनैव सम्बन्धं तयोः स्वत एव सम्बन्धिरूपत्वात् । तस्मादेकसामग्र्यधीनविशिष्टोत्पत्तिमत्पदार्थव्यतिरेकेण नापरः संयोगः, तस्य बाधकप्रमाणविषयत्वात् , साधकप्रमाणाभावाच, अतो रचनाववादित्यत्र विशेषणस्य रचनालक्षणसंयोगविशेषस्यासिद्ध्या तद्विशिष्टस्यापि हेतोर-5 सिद्धिरिति स्वरूपासिद्धत्वम् । न च बौद्धैः पृथिव्यादौ कार्यत्वस्य स्वीकाराम तैरसिद्धता हेतोरुद्भावनीयेति वाच्यम् , तत्र कार्यत्वस्य प्रसिद्धत्वेऽपि बुद्धिमत्कारणत्वेन व्याप्तस्य कार्यस्वस्यासिद्धत्वात् , यादृशं हि देवकुलादिषु कार्यत्वमन्वयव्यतिरेकाभ्यां बुद्धिमत्पूर्वकत्वेन व्याप्तमुपलब्धं, यदक्रियादर्शिनोऽपि जीर्णदेवकुलादाबुपलभ्यमानं लौकिकपरीक्षकादेः तत्र कृतबुद्धिमुत्पादयति तादृशस्य कार्यत्वस्य क्षित्यादावनुपलब्धेरसिद्धः कार्यत्वलक्षणो हेतुः, उपलम्भे 10 वा तत्र ततो जीर्णदेवकुलादिष्विवाक्रियादर्शिनोऽपि कृतबुद्धिः स्यात् । तथा च यद्बुद्धिमत्का. रणत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रमाणत: प्रसिद्धं तच्च क्षित्यादावसिद्धं, यञ्च क्षित्यादौ कार्यत्वमात्रं हेतुत्वेनोपन्यस्यमानं सिद्धं तत्साध्यविपर्यये बाधकप्रमाणाभावात्सन्दिग्धव्यतिरेकित्वेनानैकान्तिकमिति न ततोऽभिमतसाध्यसिद्धिः । किश्च क्षित्यादेः किं व्यापकनित्यैकबुद्धिमत्कारणमभिप्रेतं किं वा बुद्धिमत्कारणमात्रम् , न प्रथमः, दृष्टान्तस्य साध्यविकलत्वात् , 15 तत्र तत्पूर्वकत्वेन कार्यत्वस्यानिश्चयात् , हेतोविरुद्धत्वाच, अनित्याध्यापकानेकबुद्ध्याधारकपूर्वकत्वेन व्याप्तस्य कार्यत्वस्य घटादौ निश्चयात् । नान्त्यः, नित्यव्यापकैकबुद्ध्याधारकर्तृ. पूर्वकत्वलक्षणस्य विशेषस्यासिद्ध्येश्वरासिद्धेः । न च बुद्धिमत्कारणत्वसामान्यमेव साध्यते तच पक्षधर्मताबलाद्विशिष्टविशेषाधार सिद्ध्यति निर्विशेषस्य सामान्यस्यासम्भवात् , अनित्यज्ञानवतश्शरीरिणः क्षित्यादिविनिर्माणसामर्थ्यरहितत्वेन घटादावुपलब्धस्य विशेषस्य 40 बुद्धिमत्कारणत्वसामान्याधारस्य तत्रासम्भवादिति वाच्यम् , तथापि क्षित्यादौ बुद्धिमत्कारणत्वस्यासिद्धेः घटादौ सामान्याश्रयत्वेन प्रसिद्धाया व्यक्तेः क्षित्यादावसम्भवात् विवक्षित. सामान्याश्रयत्वेनान्यस्या व्यक्तेरप्रसिद्धत्वात् निराधारस्य सामान्यस्यासम्भवाच्च । न चाक
१ अयम्भावः प्रतिबन्धग्रहण ह्यध्यक्षेण, तच्च कार्यजातिविशेषप्रतिबद्धम् कार्यजातिभेदे प्रवृत्तस्यापि प्रत्यक्षस्य कार्यमात्रविषयकत्वे कारणेऽपि प्रवर्त्तमानेन तेन कारणमात्रस्यैव व्यापकतया निश्चयनाद्बुद्धिमत्कारण एवं तदसिद्धेः। एवञ्च कार्यजातीनामत्यन्तविलक्षणानामानन्त्यात् प्रतिजातिभेदं व्याप्तिग्रहणापेक्षणान् यावजातिकं कार्य बुद्धिमत्पूर्वकं परिच्छिन्नं तथाविधं कार्यमेव बुद्धिमत्पूर्वकत्वं साधयति । तादृशी कार्यजातिश्च यद्दर्शनादकियादर्शिनोऽपि कृतबुद्धिरूदेति सा, इयञ्च कुविन्दादिस्वभावसाध्यबुद्धिः तदभावाच क्षित्यादेरत्यन्तविजातीयतया तव्याप्तकार्यत्वस्यासिद्धिः, तद्गतकार्यत्वे वा न वुद्धिमत्पूर्वकत्वाविनाभाव सिद्धिरिति ।
"Aho Shrutgyanam"