________________
सम्मतितस्वसोपाने
[ षष्ठं मिथ्यावाद एव । किञ्च सामान्यस्य नानेक व्यक्तिव्यापित्वं केनचिज्ज्ञानेन व्यवस्थापयितुं शक्यम् , पुरोवर्त्तिव्यक्तिप्रतिभासकाले तद्व्यक्तिसंस्पर्शित्वेनैव जातेः स्फुटमवभासनात् , अपर. व्यक्तीनां तदाऽसन्निधानात् । तथा च यदेव रूपं यस्याः परिस्फुटदर्शने प्रतिभाति तदेव
तस्या युक्तम् दर्शनासंस्पर्शिनः स्वरूपस्यासम्भवात् , सम्भवे वा तस्य दृश्यस्वभावाद्भेद5 प्रसङ्गात् तदेकत्वे सर्वत्र भेदप्रतिहतेरेकरूपं जगत्स्यात् । तस्माद्दर्शनगोचरातीतञ्च व्यक्त्यन्तरसम्बद्धं जातिस्वरूपमप्रतिभासनादसत् , प्रतिभासे च तत्सम्बद्धव्यक्त्यन्तराणामपि प्रतिभासप्रसङ्गः । न च पुरोवर्तिव्यक्तिप्रतिभासकाले व्यक्त्यन्तरसम्बद्धजात्यप्रतिभानेऽपि व्यत्यन्तरदर्शनसमये तद्तत्वेन जातिभानात्साधारणस्वरूपपरिच्छेदः पश्चात्सम्भवतीत्य
नेकव्यक्तिव्यापिता इति वाच्यम् , व्यक्त्यन्तरदर्शनकालेऽपि तत्सम्बद्धत्वेनैव जातिस्वरूप10 प्रतिभासनात् । न च प्रत्यभिज्ञानादनेकव्यक्तिसम्बन्धित्वेन ग्रह इति वाच्यम् , प्रत्यभिज्ञाया
अक्षजत्वे प्रथमव्यक्तिदर्शनकाल एव समस्तव्यक्तिसम्बद्धजातिस्वरूपपरिच्छेदप्रसङ्गात् । नापि पूर्वदर्शनजनितसंस्कारोबोधसञ्जातस्मरणसहकृतमिन्द्रियं तत्वदर्शनं जनयितुमीशम् , तत्सहकृतस्यापीन्द्रियस्यासन्निहितव्यक्तिप्रतिभासनसामर्थ्य विरहात् , तस्मादनेकव्यक्तिव्यापि
जात्यसिद्धः सत्तासमवाययोरभावेन सत्तासमवायलक्षणं कार्यत्वमसिद्धमिति स्वरूपासिद्धः 15 कार्यत्वहेतुः। अथ कार्यत्वमभूत्वा भवनरूपम् , तच भूभूधरादेः रचनावत्त्वेन साध्यते, भूभू
धरादयः कार्य रचनावत्वात् , घटादिवदतः कार्यत्वहेतु सिद्ध इति चेन्न, पूर्ववदवयव्यसिद्ध्याऽऽश्रयासिद्धेः, हेतोरसिद्धविशेषणत्वाच्च, अवयवसन्निवेशोत्पाद्यत्वं हि रचनावत्त्वं भूभूधरादेः, तत्रावयवसनिवेशस्य संयोगापरनाम्नः तद्वाहकप्रमाणाभावेन बाधकप्रमाणोपप
तेश्वासिद्धिः, निरंतरोत्पन्नवस्तुद्वयप्रतिभासकाले तत्प्रतीतौ वस्तुद्वयव्यतिरेकेणापरस्य 20 संयोगस्य बहिग्राह्यरूपतां दधानस्याप्रतिभासनात् , तदेवमुपलब्धिलक्षणप्राप्तस्य संयोगस्या
नुपलब्धेरभावः शशविषाणवत् । न च संयुक्तप्रतीत्यन्यथानुपपत्या तत्सिद्ध्यतीति वाच्यम् , निरन्तरावस्थवस्तुद्वयस्यैव तत्र निमित्तत्वात् , भवतापि तदवस्थापन्नस्य संयोगजनकत्वेन संयुक्तप्रत्ययहेतुत्वस्य स्वीकारात् संयोगमन्तरेणैव तस्य तद्धेतुत्वसम्भवेऽन्तर्गडोः संयोगस्य
निरर्थकत्वात् । न च चैत्रो न कुण्डलीत्यादौ न कुण्डलं चैत्रो वा प्रतिषिध्यते, तयोरन्यत्र 25 सत्त्वात् किन्तु चैत्रकुण्डलसंयोग इति संयोगस्यावश्यकत्वमिति वाच्यम , तत्र चैत्रसम्ब
न्धिकुण्डलस्यैव निषेधात् न तु संयोगस्य, न च सम्बन्धव्यतिरेकेण चैत्रस्य कुण्डलसम्बन्धानुपपत्तिरिति वक्तव्यम् , यतः स सम्बन्धः किमसम्बन्धिनोरुत सम्बन्धिनो द्यः हिमवद्विन्ध्ययोरिवासम्बन्धिनोः सम्बन्धानुपपत्तेः, असम्बन्धिनोभिन्नेन सम्बन्धेन तदभिन्नसम्बन्धित्वविधानासम्भवाच्च, विरुद्धधर्माध्यासेन भेदात् । न वा भिन्नसम्बन्धित्व विधानम् ,
"Aho Shrutgyanam"