________________
सोपानम् ।
— ईश्वरकर्तृत्वभङ्गः । भावप्रसङ्गात् । न च यत्स्वतः सत् तन्नावान्तरसामान्यवत् यथा सामान्यविशेषसमवायाः, द्रव्यादयस्त्ववान्तरसामान्यवन्तोऽतः स्वतो न सन्त इति व्यतिरेकिहेतुना स्वतोऽसत्वं साध्यत इति वाच्यम् , प्रतिज्ञाया बाधितत्वात् , धर्मिणो हि द्रव्यादेः कस्याश्चित्प्रतीतेर्गोचरतया सत्त्वे सैव प्रतीतिस्तस्य स्वतः सत्त्वं साधयतीति तदसत्त्व विषयां प्रतीतिं कुतो न बाधते । किञ्च द्रव्यादेरवान्तरसामान्यानां एकान्तेन भेदे तस्यैव तानीत्यत्र नियामकाभावादवान्तरसामान्यव- 5 स्वादिति हेतुरसिद्धः, तथापि तस्येत्यभ्युपगम्यमाने सामान्यादयोऽपि कथं न तद्वन्त इति सामान्यादिवदिति वैधय॑निदर्शनमयुक्तं स्यात् । यदि द्रव्यादावेव समवेतानीत्यतो न दोष इत्युच्यते तदा समवायसत्त्वेऽपि यत्र द्रव्ये गुणे कर्मणि च द्रव्यत्वं गुणत्वं कर्मवश्वावान्तरसामान्य तत्रैव पृथिवीत्वादीनि रूपत्वादीनि गमनत्वादीनि च तथाविधानि सामान्यानि समवायोऽपि तत्रैव, सामान्यवत्तस्य सर्वगतत्वाञ्च द्रव्यादिवत्सामान्यादीन्यप्यन्योन्यसत्तानीति न 10 द्रव्यादेः स्वतः सत्त्वबाधनमत आशङ्का न निवर्तते किं द्रव्यादिसम्बन्धात्सत्ता सती किं वा तया द्रव्यादिकं सदिति, तस्मान्न सत्तातस्तन्वादेः सत्वं तस्या एवासिद्धत्वात् । अथ प्रत्यक्षादिप्रमाणसिद्धत्वं सत्तायाः, न च द्रव्यप्रतिभासवेलायां प्रत्यक्षबुद्धौ परिस्फुटरूपेण व्यक्तिविवेकेन सत्ता न प्रतिभातीति वाच्यम् , अनुगताकारस्य व्यावृत्ताकारस्य च प्रत्यक्षानुभवस्य संवेदनात् , न हि विषयं विना व्याकारा बुद्धिर्घटते, अन्यथा नीलादिस्वलक्षणप्रतीतेरपि तथाभावप्रस- 15 शादिति, मैवम् , व्यक्तिदर्शनसमये स्वरूपतो बहिर्लाह्याकारतया प्रतीतौ जातेरप्रतिभासनात् , न हि घटपटवस्तुद्वयप्रतिभाससमये तदैव तद्व्यवस्थितमूर्तिर्भिन्नाऽभिन्ना वा जातिराभाति, तदाकारस्यापरस्य बहिग्राह्यतया तत्राप्रतिभासनात् , बहिन ह्यावभासश्च बहिरर्थव्यवस्थाकारी, नान्तरावभासम् | घटपटादिषु च प्रतिभासमानेषु केवलं बुद्धिरेव सत् सदिति तुल्यतनुराभाति न तु बाह्या जातिनिमित्तम् । न वा निनिमित्तता, कासांचिद्बाह्यव्यक्तीनामेव तत्र निमित्तत्वात् । 20 न च व्यक्तीनामनुगताकारबुद्धिनिमित्तत्त्वे गिरिशिखरादिदर्शनेऽपि गौर्गोरिति एकाकाराप्रतीतिर्भवेदिति वाच्यम् , यत्रैव तादृशी बुद्धिरुदेति तासामेत्र व्यक्तीनां तथाविधबुद्धिजनने सामावधारणात् , यथाऽऽमलकीफलादिषु यथाविधानमुपभुक्तेषु व्याधिविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विधौ समर्थानीयवसीयते, व्यक्तिभेदाविशेषेऽपि न पुन. स्त्रपुषदध्यादीनि । न च भिन्नेषु भावेषु सत् सदितिमतिरस्ति, तत्र यदेकत्वं सैव जातिरिति 25 वाच्यम् , यतः तदेकत्वं घटपटादिषु किमन्यत् उतानन्यत्, नाद्यस्तस्याप्रतिभासनात् । न द्वितीयः, एकरूपाप्रतिभासनात् न हि घटस्य पटस्य चैकमेव रूपं प्रतिभाति, सर्वात्मना प्रतिद्रव्यं भिन्नरूपदर्शनात् , तस्मादप्रतीतेरभिन्नापि जातिनास्ति तस्यादर्शनात् , बुद्धिरूपमप्यपरबुद्धिस्वरूपं नानुगच्छतीति तदपि न सामान्यमित्येकानुगतजातिवादो
"Aho Shrutgyanam"