________________
सम्मतितस्वसोपाने
[ षष्ठ तदात्मनस्त बुद्धावनुप्रवेशे तस्या निराधारत्वेनास्मदादिबुद्धरपि तथात्वापया मतुबर्थासम्भवाद्वटादावपि बुद्धिमत्कारणत्वस्यासिद्धत्वात् साध्यविकलो दृष्टान्तः । अथ बुद्धित्वे समानेऽपि तबुद्धरेवानाश्रितत्वलक्षणो विशेषोऽभ्युपगम्यते तर्हि पृथिव्यादिकार्यस्यापि समानेऽपि का
यत्वेऽकर्तृपूर्वकत्वलक्षणो विशेषोऽभ्युपगन्तव्य इति पुनरपि तैहेतुर्यभिचारी। किञ्च किमिदं 5 तन्वादीनां कार्यत्वम्, प्रागसतः स्वकारणसमवायो वा सत्तासमवायो वा, नाद्यः, प्रागिति विशेषणानर्थक्यात् कारणसमवायात् प्रागिव कारणसमवायसमयेऽपि स्वरूपसत्त्ववैधुर्यात्, सति सम्भवे व्यभिचारे चोपादीयमानं विशेषणं ह्यर्थवद्भवति, यदि कारणसमवायसमये तन्वादिकं स्वरूपेण सद्भवेत्तदा तत्काल इव प्रागपि तस्य सत्त्वे कार्यत्वं न स्यादिति क्रिय
माणं विशेषणं सार्थकं स्यात् , यदा तु प्रागिव कारणसमवायसमयेऽपि स्वरूपसत्त्वविकलता 10 तदा प्रागिति विशेषणं न कश्चिदर्थं पुष्णाति, असत इत्येतावन्मात्रस्यैव सम्यक्त्वात् । न
चासतः कारणसमवायोऽपि युक्तः, शशशृङ्गादीनामपि तत्प्रसङ्गात् । न च तेषामसत्त्वाकारणविरहेण न तत्प्रसङ्ग इति वाच्यम, तन्वादेः कारणमस्ति न शशशृङ्गादेरित्यत्र नियामकाभावात् । किञ्च तन्वादिरेव सन् न वन्ध्यासुतादिरिति कुतः, यदि कारणसमवा.
यात्तथेत्युच्यते तर्हि सोऽपि कुतः, सत्त्वादिति चेत्तर्हि अन्योन्याश्रयः कारणसमवायात्सत्त्वं 15 ततश्च कारणसमवाय इति । नापि प्रागसतः सत्तासमवायलक्षणो द्वितीयः पक्षः, पूर्ववत्
प्रागिति विशेषणवैयात् । असतः सत्तासमवाये च कूर्म रोमादेरपि तत्प्रसङ्गः, अविशेषात् । न च तस्यात्यन्तासरवं तन्वादिकन्तु न स्वयं सत् , नाप्यसत् सत्तासम्बन्धात्तु तदेव सदिति वाच्यम, अन्योन्यव्यवच्छेदरूपाणामेकतरनिषेधेऽपरविधानस्यावश्यकत्वात् , सत्तायाः
स्वयमसत्त्वेन ततस्तन्वादेः सत्वासम्भवाच्च । तस्याः सत्वं यद्यन्यसत्तातस्तदाऽनवस्था, 20 स्वतः सत्त्वे च पदार्थानामपि स्वत एव सत्त्वात्तस्या वैयर्थ्यापत्तिः, तस्याः स्वतः सत्वे
प्रमाणाभावश्च । न च सत्ता स्वयं सती, तत्सम्बन्धात्तन्वादेः सत्त्वादिति प्रमाणमस्तीति वाच्यम् , अन्योन्याश्रयात् , तत्सम्बन्धात् तन्वादिसत्त्वे सिद्धे सत्तासत्त्वसिद्धिः तत्सिद्धौ तत्सम्बन्धात् तन्वादिसत्त्वसिद्धिरिति । न च सदभिधानप्रत्ययविषयत्वात्सत्ता
स्वत: सतीति वक्तव्यम् , द्रव्यं सत् गुणः सन्नित्येवं सदभिधानप्रत्ययविषयत्वेऽपि परेण 25 स्वतः सत्त्वानभ्युपगमेन व्यभिचारात् , स्वतस्तदभ्युपगमे तु सत्ताकल्पनाया वैययं स्यात् ।
न च द्रव्यादौ तद्विषयत्वं परापेक्षं न सत्तायामिति वाच्यम् , तस्यामपि तदपेक्षत्वसम्भवात् , यथैव हि सत्तासम्बन्धात् द्रव्यादिकं सत् तथा द्रव्यादिस्वरूपसत्त्वसम्धन्धात् सत्तापि सती । न च द्रव्यादेः स्वरूपसत्त्वं नास्तीति वाच्यम् , तस्य स्वतः सत्त्वे दोषाभावात्। न चावान्तरसामान्याभावो दोष इति वाच्यम् , स्वतोऽसत्त्वे खरविषाणादेरिव सुतरां द्रव्यादेर
"Aho Shrutgyanam"