SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सोपानम् । ईश्वरकर्तृत्वभङ्गः । कर्मकर्तृकरणनिर्वय॑त्वेऽपि वनस्पत्यादिष्वकृष्टोत्पत्तिषु तचेतनकर्तृरहितमपि स्यादिति बुद्धिमत्कारणपूर्वकत्वे साध्ये हेतुः कार्यत्वं स्थावरैयभिचरितं स्यात् । अव्याप्त्या च वर्त्तने देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्थासन्निधानेऽपि यथा व्यापारस्तथाऽदृष्टस्याप्यग्न्यादिदेशेषु असन्निहितस्यापि ऊर्ध्वज्वलनादि विषयो व्यापारो भविष्यतीति । अग्नेरूव॑ज्वलनं वायोस्तिर्यपवनं, अणुमनसोश्चाद्यं कर्मादृष्टकारितम् ' (वैशेषिकद० अ० ५-२-१३) इत्यनेन 5 सूत्रेण सर्वगतात्मसाधकहेतुसूचनमसङ्गतं भवेत् , ज्ञानादिविशेषगुणवददृष्टगुणस्य तत्रासन्निहितस्याप्यग्न्यायूर्द्धज्वलनादिकार्येषु व्यापारसम्भवात् । तस्मात्तस्यैव तन्नान्यस्येति सम्बन्धानुपपत्तिः, समवायस्यानुपपत्तेश्व, तथाहि समवायः किं सतां स्यादसतां वा, नाधः, सम. वायात्प्राक् तेषां सत्त्वासम्भवात् , न चापरसमवायात्सन्तस्ते, तस्यैकत्वाभ्युपगमात् । यदि च तेषां स्वत एव सत्त्वं तर्हि समवायाभावेऽपि सत्त्वाभ्युपगमे तत्परिकल्पनाऽऽनर्थक्यम् । 10 ननु ते समवायात्पूर्वं न सन्तो नाप्यसन्तः, सत्तासमवायाच सन्त इति चेन्न, ततः पूर्व पदार्थानां योगिज्ञानस्याप्यजनकत्वेऽसत्त्वाभावासम्भवान् , जनकत्वे वा सत्त्वाभावासम्भवात् , अन्योन्यव्यवच्छेदरूपाणामेकनिषेधस्यापर सत्तानान्तरीयकत्वादसत्त्वनिषेधे सत्ताविधानस्य सत्त्वनिषेधे चासत्त्वविधानस्यावश्यकत्वाच्च । न द्वितीयः, शशशृङ्गादीनामपि तत्प्रसङ्गात् । न चात्यन्तासत्वात्तेषां न तत्प्रसङ्ग इति वाच्यम् , आत्मतज्ज्ञानयोरत्यन्तासत्त्वाभावासिद्धेः । 15 न च तत्समवायात्तत्सिद्धिरिति वक्तव्यम् , अन्योन्याश्रयात् , सिद्धे तत्समवाये तयोरत्यन्तासत्त्वाभावः, तदभावाच्च तत्समवाय इति । न च समवायः प्रत्यक्षप्रमाणसिद्ध इति वक्तव्यम् , इन्द्रियजे तदात्मा तज्ज्ञानं तत्समवायश्चेति त्रितयम्यागोचरत्वात् , स्वसंवेदनाध्यक्षस्य च भवतानभ्युपगमात् , एकार्थसमवेतानन्तरमनोऽध्यक्षविषयत्वे तदेकार्थसमवेतानन्तरप्रतीतेरप्यपरतथाभूतप्रतीत्यव्यवस्थापितत्वे न समवायव्यवस्थापकप्रतीतिव्यवस्थापक- 20 त्वमिति पुनरपि तथाभूताऽपरा प्रतीतिरभ्युगन्तव्ये त्यनवस्था भवेत् । न च तन्तुषु पटः शृङ्गे गौः, शाखायां वृक्ष इति लौकिकी प्रतीतिरस्ति, पटे तन्तवः गवि शृङ्गं वृक्षे शाखा इत्याकारेण प्रतीत्युत्पत्तेः संवेदनात् , तस्याश्च समवायनिबन्धनत्वे तन्त्वादीनां पटाद्यारब्धत्वप्रसङ्गः। तदेवं बुद्धस्तदात्मनो भेदे सम्बन्धासिद्धमतुबर्थानुपपत्तिः । तयोरभेदे तु तदात्मनि तद्रुद्धरनुप्रवेशेन बुद्धेरभावाद्गगनादिवत्तदात्मा जडस्वरूप इति कथं स जगत्स्रष्टा स्यात् । तदात्मनो 25 घुड्यादिगुणगणवैकल्ये चास्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्यान्मुक्तात्मन इव संसारित्वं न स्यात् , नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् । यद्यात्मत्वाविशेषेऽपि तदात्माऽस्मदाद्यात्मभ्यो विशिष्टोऽभ्युपगम्यते तर्हि घटादिकार्येभ्यः कार्यत्वाविशेषेऽपि स्थावरादिकार्यमकर्तृकत्वेन विशिष्टं किं नाभ्युपगम्यते तथा च तैः कार्यत्वं ब्यभिचारि। एवं "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy