________________
सम्मतितश्व सोपाने
वातातपादीनां पृथक् भिन्नतनुत्वेनोपलम्भात् । न च मन्दमन्दप्रकाशेऽन्तरेणावयवप्रतिभासमवयविप्रतिभासो भवतीति वाच्यम्, अस्पष्टप्रतिभासस्य तस्यावयविस्वरूपव्यवस्थापकत्वायोगात्, अस्पष्टरूपस्य स्पष्टज्ञानावभासितत्स्वरूपेण विरोधात् । किञ्चावयविप्रतिभासः किं कतिपयावयवप्रतिभासे सत्यभ्युपगम्यते निखिलावयवप्रतिभासे वा नाद्यः, महतो 5 जलमग्नस्तम्भादेरुपरितनकतिपयावयवप्रतिभासे सत्यपि समस्तावयवव्यापिस्तम्भाद्यवयविनोऽप्रतिभासनात् । न द्वितीयः, मध्यपरभागवर्त्तिसमस्तावयव प्रतिभासासम्भवेनावयविनोऽप्रतिभासप्रसङ्गात् । न च भूयोऽवयवग्रहणादवयवी गृह्यत इति वाच्यम्, पुरोववयवप्राहिप्रत्यक्षतः परभागभाव्यवयवाग्रहणात्तद्व्याप्तेरवयविनो ग्रहणासम्भवात्, व्याप्याग्रहणे तेन तद्व्यापकत्वस्यापि ग्रहीतुमशक्तेः ग्रहणे चातिप्रसङ्गात् । न च पुरोवयवयवद10 शेने सत्युत्तरकालं परभागदर्शने ततः स्मरण सहकृतेन्द्रियजनितेन स एवायमिति प्रत्यभिज्ञालक्षणप्रत्यक्षेणावयविनः पूर्वापरावयवव्याप्तिर्गृह्यत इति वाच्यम्, एतद्विषयप्रत्यभिज्ञानस्य प्रत्यक्षत्वानुपपत्तेः, प्रत्यक्षस्याक्षानुसारित्वेनेन्द्रियाणां व्यवहिते व्यापारासम्भवादवकूपरभागभाव्यवयवग्रहणे व्यापारासम्भवात्, अविषये स्मरणसहायस्यापीन्द्रियस्य व्यापारासम्भवाश्च, अन्यथा परिमलस्मरणसहाय लोचनमपि गन्धादौ प्रवर्त्तेत, एको घट इति 15 घटादिद्रव्यावसायेऽपि तदवयवस्वरूपं नामोल्लेखश्वाध्यवसीयते नावयविद्रव्यम्, वर्णाकृत्यक्षराकारशून्यस्य तद्रूपस्य केनचिदप्यननुभवात् । न चावयव्यभावे दिग्भेदादिविरुद्धधर्माध्यासाद्यावत्परमाणु भेदात् प्रतिभासविषयस्थौल्यादीनां तत्राभावेन स्थूलताप्रतिभासो न स्यात्, तथा परमाणूनामपि नानादिक्सम्बन्धात्सांशतयाऽनवस्थापत्तितोऽभावप्रसक्तिरिति वाच्यम्, अवयव्यभावेऽपि निरन्तरोत्पन्नानां घटाद्याकारेण परमाणूनां सद्भावात् 20 तद्ब्राहकाणामपि ज्ञानपरमाणूनां तथोत्पन्नानां तद्ब्राहकत्वात् परमाणूनां ज्ञानस्य चाभावे सुतरां कार्यत्वादिहेतोराश्रयासिद्धतादिदोषाञ्च । एवं बुद्धिमत्कारणमिति साध्यनिर्देशे बुद्धिमदिति मतुबर्थस्य साध्यधर्मविशेषणस्यानुपपत्तिः, तज्ज्ञानस्य ततो भिन्नत्वे कार्यत्वे च तस्य तदिति सम्बन्धानुपपत्तेः । न च तद्गुणत्वात्तस्य तदिति वाच्यम्, नित्यत्वे च तस्यैव तद्गुणो नाकाशादेरिति व्यवस्थापयितुमशक्तेः । न च समवायो व्यवस्थाकारी, तस्यापि 25 ताभ्यां भेदे तस्यैव दोषस्य सत्त्वात् न चेश्वरात्मकार्यत्वादीश्वर गुणस्तज्ज्ञानमिति वाच्यम्, तदसिद्धेः, तस्मिन् सति तद्भावस्थाकाशादावपि समानत्वात्, नित्यव्यापित्वाभ्याञ्च तदभावे तदभावस्यासम्भवात् । यदि तदात्मन्येव तस्य दर्शनात्तत्कार्यत्वमिति उच्यते तर्हि तदात्मन्येव तस्येत्यनेन तस्य तदात्मसमवेतत्वं समवेतत्वञ्च समवायेन वर्त्तनमिति वक्तव्यम्, तत्र व्यात्या समवायेन वर्त्तने यथाऽस्मदादिज्ञानविलक्षणं तज्ज्ञानं तथा घटादौ कार्यत्वस्य
,
: ३६ :
"Aho Shrutgyanam"
[ षष्ठं