________________
सोपानम् ]
ईश्वरकर्तृत्वभङ्गः ।
अथेश्वरकर्तृत्वभङ्गः। अत्र नैयायिकाः पूर्वोदितरीत्या सर्वज्ञसिद्धावपि स नित्यज्ञानादिधर्मकलापान्वितः शासनादिसर्वजगत्स्रष्टा ईश्वर एव । न च तत्र नास्ति प्रमाणमिति वक्तव्यम् , सामा. न्यतो दृष्टानुमानस्य तत्र प्रमाणत्वात् , तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वक कार्यत्वात् , घटादिवदित्यनुमानस्य सत्त्वात् , न च पृथिव्यादौ कार्यत्वमसिद्धम् , बौद्धस्त- 5 स्य कार्यत्वाभ्युपगमात्, सर्वैः संस्थानवत्त्वस्य तत्राभ्युपगतत्वेन कार्यत्वस्यावश्यकत्वाच । नाकृष्टजातैः स्थावरादिभिव्यभिचारो व्याप्त्यभावो वा, साध्याभाववति वर्तमानस्यैव हेतो. र्व्यभिचारित्वात , तेषु तु न सकर्तृकत्वाभावनिश्चयः, किन्तु कर्वग्रहणमात्रम्, न चोपलब्धिलक्षणप्राप्तस्य कर्तुः तत्रानुपलम्भादभावनिश्चय इति वाच्यम् , उपलब्धिलक्षणप्राप्त तायाः कर्तुस्तेष्वनभ्युपगमात कत्रग्रहणश्च शरीराद्यभावात् , न त्वसत्त्वात् । न च शरी- 10 राद्यभावे कर्तृत्वस्याप्यभाव इति वाच्यम्, कार्यस्य शरीरेण सह व्यभिचारात्, शरीर. स्य प्रवृत्तिनिवृत्त्यादिषु शरीरापेक्षाविरहात्, अन्यथाऽनवस्थानात् । साध्यान्विते चैकस्मिन् हेतौ स्थिते सति द्वितीयस्य साध्याभावान्वितस्य हेतोस्तत्रानवकाशतया न सत्प्रतिपक्षता, अबुद्धिमत्कारणपूर्वकत्वस्य प्रमाणेनाग्रहणान्न बाधः । नापि धर्म्यसिद्धता, पृथिव्यादेर्भूतग्रामस्य च प्रमाणेन सिद्धत्वात् । न वा हेतोर्विशेषविरुद्धता, तद्विरुद्धत्वे 15 हेतोर्विशेषणेऽभ्युपगम्यमाने कस्यापि हेतोरविरुद्धत्वासम्भवात् । धूमस्य वह्निसाधकत्ववदेतद्देशकालावच्छिन्नवह्नयभावस्यापि साधकत्वात् , न हि पूर्वधूमस्यैतद्देशकालावच्छिअवह्निना व्याप्तिः, यदि वह्निमात्रेण हेतोाप्लेन विरुद्धतेत्युच्यते तर्हि कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेर्ने विरुद्धता, एवञ्चोक्तहेतोर्ज्ञानाद्यतिशयवद्गुणयुक्तस्य सिद्धेस्तस्यैव शास्त्रप्रणेतृत्वं न तु योगिनामिति भवजिनानां शासनमित्ययुक्तमिति चेदुच्यते 20 सामान्यतो दृष्टानुमानस्यापि तत्साधकत्वेनाप्रवृत्तिः हेतोराश्रयासिद्धत्वादिदोषदुष्टत्वात् , तथाहि प्रतीयमानं तन्वादिकमवयविरूपं न सम्भवति, देशादिभिन्नस्य तस्य स्थूलस्यैकस्यासम्भवात् , न ह्यनेकदेशादिगतमेकं भवितुमर्हति, देशादिभेदलक्षणविरुद्धधर्माध्यासेन भेदात्, अन्यथा घटपटादीनामपि भेदो न स्यात् , विरुद्धधर्माध्यासमन्तरेण प्रतिभासस्यापि भेदासम्भवेन तद्भेदाद्धटपटादीनां भेदस्य वक्तुमशक्यत्वात् । न चैकत्व. 25 प्रतिभासाद्देशादिभेदेऽपि तन्वादेरेकत्वमिति वाच्यम् , देशभेदेन व्यवस्थितानामवय. वानां प्रतिभासभेदेन भेदात्, न हि ते एकरूपा भासन्ते, पिण्डस्याणुमात्रतापत्तेः, तद्व्यतिरिक्तस्य चापरस्य तन्वाद्यवयविनो द्रव्यस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्वात् । न च समानदेशत्वादवविनोऽवयवेभ्यः पृथगनुपलम्भ इति वाच्यम् , समानदेशानामपि
"Aho Shrutgyanam"