________________
३४ : सम्मतितत्त्वसोपाने
[ पञ्चमम् अतो जन्मद्वयावस्थाव्यापकस्योष्मादिधर्मानुगतस्य कार्मणशरीरस्य विज्ञानसञ्चारकारिणः सद्भावः सिद्धः । पूर्वोत्तरजन्मावस्थाव्यापकस्यावस्थातुस्तदवस्थाभ्यः कथश्चिदभेदान्मातापितृशरीरविलक्षणनिजपूर्वशरीरावस्थाचपलताद्यनुविधाने उत्तरावस्थायाः कथं नावस्थातृज्ञान
लक्षणधर्मानुविधानम् , तथा च कार्यविशेषस्य विशिष्टकारणपूर्वकत्वादुक्तरूपेण पूर्वजन्म5 सिद्धिः ! यदुकं पर्यनुयोगमात्रमस्माभिः क्रियत इति तदयुक्तम् , पर्यनुयोगकारिणः प्रत्य.
क्षप्रमाणरूपत्वासम्भवात् , प्रत्यक्षस्याविचारकत्वेन पर्यनुयोगलक्षणविचारकरणासामर्थ्यात् । भवदभ्युपगमेन प्रत्यक्षस्य प्रामाण्यलक्षणानाक्रान्तत्वाच । स्वरूपव्यवस्थापकधर्मो हि लक्षणम् , प्रत्यक्षस्य च प्रामाण्यव्यवस्थापको धर्मोऽविसंवादित्वमेव तञ्च प्रत्यक्षप्रामाण्येन सहा.
विनाभूतं स्वीकार्यम् , अन्यथा प्रत्यक्षप्रामाण्यासिद्धेः । अविनाभावावगमश्च निखिलदेश10 कालव्यात्या प्रमाणतोऽभ्युपगमनीयः, अन्यथा यस्यामेव व्यक्तौ संवादित्वप्रामाण्ययोरविना
भावोऽवगतस्तस्यामेव ततस्तत्सिद्ध्येत् , न व्यक्त्यन्तरे तत्र तस्यानवगमात् । न च यस्यां ध्यक्ती सोऽवगतः सा देशकालान्तरमनुवर्तते, तस्यास्तदैव ध्वंसात् , व्यत्यन्तराननुगमात् , अनुगमे वा व्यक्तिरूपत्वाभावेन सामान्यरूपत्वापत्तिः सामान्यस्य च भवतान
भ्युपगमात् , अभ्युपगमे वा न सामान्यलक्षणानुमानविषयाभावप्रतिपादनेन तत्प्रतिक्षेपो 15 युक्तः । तादृशाविनाभावावगमकञ्च प्रमाणं न प्रत्यक्षात्मकम् , सन्निहितस्वविषयप्रतिभास
मात्रे तस्य व्यापारास , न चैकत्र व्यक्ती प्रत्यक्षेण तयोरविनाभावावगमादन्यत्रापि एवम्भूतं प्रत्यक्षं प्रमाणमिति प्रत्यक्षेणापि लक्ष्यलक्षणयोर्देशकालव्याप्त्या प्रतिबन्धावगम इति वाच्यम् , अन्यत्रापि प्रत्यक्षेणैव एवम्भूतं ज्ञानलक्षणं कार्य एवम्भूतज्ञानकार्यप्रभव
मिति सर्वोपसंहारेण कार्यलक्षणहेतोः स्वसाध्याविनाभावावगमप्रसङ्गात् , तथा चानुमा20 नमप्रमाणमविनाभावसम्बन्धस्य व्यास्था ग्रहीतुमशक्यत्वादिति दूषणमसङ्गतं स्यात् ।
नाप्यनुमानादिकं पर्यनुयोगकारि, भवद्भिरनुमानादेः प्रमाणत्वेनानभ्युपगमात् । तदेवं परलोकस्य प्रत्यक्षादिप्रमाणसिद्धत्वाद्भवेति विशेषणं सार्थकमेवेति दिक् ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितस्य
सम्मतितत्वसोपानस्य परलोकव्यवस्थापनं नाम 25
पञ्चमं सोपानम् ॥
"Aho Shrutgyanam"