________________
सोपानम् ]
परलोकव्यवस्थापनम् ।
सिद्धिः । न द्वितीयः, नीलज्ञानपरमाण्ववभासानामयः शलाका कल्पानां प्रतिभासनात्स्थूलैकनीलज्ञानसंवेदनासिद्धेः, प्रतिनीलज्ञानपरमाण्ववभासं भिन्नत्वात् । न च स्वसंवेदनविषयभेदेऽपि न तत्प्रतिभासस्य नीलज्ञानस्य भेद इति वाच्यम्, नीलज्ञानस्याभेदासिद्धेः, स्वसंवेदन भेदात्, स्वतोऽभेदस्यासिद्धत्वाचेति । न च दर्शनावस्थायां स्पर्शनावस्थाया अप्रतिभासनादवस्थातुदर्शनज्ञानेन स्पर्शनावस्थाव्याप्तिर्न ग्रहीतुं शक्येति वाच्यम्, तदव्याप्तेरपि ग्रहीतुमशक्यत्वात्, 5 तस्या एव प्रतिभासे तत इदमवस्थातृरूपं व्यावृत्तमित्यपि ग्रहीतुमशक्यत्वात् । अत एव तद्विविक्ततया अग्रहात् 'तद्विविक्त प्रतिभासादेव तदव्याप्तिर्ग्रहीतै वे' त्यपि वक्तुं न शक्यते । न च तदव्याप्तेस्तत्स्वरूपतया दर्शनज्ञानेन तत्स्वरूपग्रहे तदव्याप्तिरपि गृहीतैवेति वाच्यम्, तद्वयाप्रेरपि तत्स्वरूपत्वेन तत्स्वरूपग्रहे तस्या अपि ग्रहस्य वक्तुं शक्यत्वात् । न चाबाधितैकप्रत्य - यविषयस्यात्मन एकत्वमसिद्धम्, न वास्यैकत्वाध्यवसायस्य किञ्चिद्वाधकमस्ति, नापि 10 पूर्व दर्शितरीत्याऽन्योऽन्याश्रयः, एकत्वव्याप्तताया अनुसन्धानस्यान्वयदृष्टान्तद्वारेणानिश्चयनात्, किन्त्वनेकत्वेऽनुसन्धानस्यासम्भवात्ततो व्यावृत्तमनुसन्धानं तदेकत्वेन व्याप्यत इत्येकसन्ताने स्मरणाद्यनुसन्धानदर्शनादनुमानतोऽपि तत्सिद्धिः । न च भेदेऽनुसन्धानं सम्भवति, देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणाद्यनुसन्धानादर्शनात्, तस्मादध्यक्षानुमानप्रमाणसिद्धत्वात् परलोकिनः तस्याभावात्परलोकाभाव इति वचो निर्मूलमेव । न च शरीरान्तर्गत 15 संवेदनं कथं शरीरान्तरसञ्चारि, जीवतस्तावन्न शरीरान्तरसञ्चारो दृष्टः परस्मिन् मरणसमये भविष्यतीति दुरन्वयमेतदिति वाच्यम्, जीवत एव कुमारशरीरान्तर्गतपाण्डित्यादिविकल्पानां वृद्धावस्थाशरीरसञ्चारित्वेन दर्शनात् । न चैकमेवेदं शरीरं बालकुमारादिभेदभिन्नम्, जन्मान्तरशरीरन्तु मातापित्रन्तरशुक्रशोणितप्रभवं शरीरान्तरप्रभवमिति वाच्यम्, बालकुमारादिशरीरस्यापि भेदात् तस्मान्न मातापितृशुक्रशोणितान्वयि जन्मादिशरीरमपि 20 तु स्वसन्तानशरीरान्वय्येव, वृद्धादिशरीरवत्, अन्यथा मातापितृशरीरचपलतादिविलक्षण शरीरचेष्टावन्न स्यात् । न चेहजन्मबालकुमाराद्यवस्थाभेदेऽपि प्रत्यभिज्ञानात्तदवस्थाव्यापकस्य शरीस्यैकत्वं सिद्धम्, तद्दृष्टान्तबलाच्चात्यन्तभिन्ने जन्मान्तरशरीरादौ न ज्ञानसञ्चारो युक्त इति वाच्यम्, पूर्वोत्तरजन्मशरीरज्ञान सञ्चारकारिणः कार्मणशरीरस्यात एव कथचिदेकत्वसिद्धेः, इहजन्मादौ ज्ञानं हि अपर निजजन्मज्ञानप्रभवम्, तस्य चेहजन्मबालकुमाराद्यवस्था भेदेषु 25 तदेवेदं शरीरमित्यबाधित प्रत्यभिज्ञा प्रत्ययाव गतैकरूपान्त्रयिषु सञ्चारदर्शनात् पूर्वोत्तरजन्मावस्थास्वपि तथाभूतानुगामिकार्मणशरीरसमन्वितासु तस्य सञ्चारोऽनुमीयते, न चास्मदादिप्रत्यक्षविषयौदारिकशरीरस्य जन्मान्तरावस्थास्त्रनुगमो दाहादिना तस्य ध्वंसोपलब्धेः ।
५
"Aho Shrutgyanam"
: ३३ :