SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ । ३२ । सम्मतितत्त्व सोपाने [ पञ्चमं प्रत्ययस्य सुखादिसमानाधिकरणत्वेन स्फुटप्रतिभासविषयतयोत्पत्तेः । न हि कृशोऽहमिति प्रत्ययस्य भ्रान्तित्वे ज्ञानवानमिति प्रत्ययस्यापि भ्रान्तत्वं युक्तमन्यथाऽग्निर्माणवक इत्यादापचरितविषयस्थाग्निप्रत्ययस्य माणवके भ्रान्तत्वेऽग्नावपि तत्प्रत्ययस्योपचरितत्वेन भ्रान्तत्वं स्यात् । न च तत्र पाटव पिङ्गलत्वादिलक्षणस्योपचारनिमित्तस्य सत्त्वेनोपचरितप्रत्ययसम्भवेऽ 5 पि प्रकृते तथाविधनिमित्ताभावान्न तथाप्रत्यय इति वाच्यम्, संसार्यात्मनः शरीराद्युपकृतत्वेन तदनुबद्धस्योपभोगाश्रयत्वेनोपभोगकर्तृत्वस्यात्राप्युपचारनिमित्तस्य सत्त्वात् । दृष्टश्व शरीरादिव्यतिरिक्तेऽप्यत्यन्तोपकार के स्वभृत्यादावुपचरितप्रत्ययस्तन्निमित्तः योऽयं भृत्यः सोऽहमिति । न च सुखादिसामानाधिकरण्येनोपजायमानस्यैवाहम्प्रत्ययस्योपचरितविषयति वाच्यम्, अग्नावग्निप्रत्यययदबाधितत्वेनास्थलद्रूपत्वेन चात्र मुख्यत्वात् गौरत्वादेस्तु पुद्गल10 धर्मत्वेन बाह्येन्द्रियग्राह्यतयाऽन्तर्मुखाकारानिन्द्रियां प्रत्ययविषयत्वासम्भवात् । न वा गौरत्वाद्याश्रयशरीरादेः प्रतिक्षणविशरारुत्वेनाभ्युपगमविषयस्य ' य एवाहं प्राङ् मित्रं दृष्टवान् स एवाहं वर्षादिव्यवधानेन स्पृशामी 'ति स्थिरालम्बनत्वेनानुभूयमानप्रत्ययविषयत्वं सम्भवति, अन्यथा रूपविषयकत्वेनानुभूयमानस्य तस्य रसाद्यालम्बनं स्यात् । नापि सुखादिविवर्त्तात्मकास्मालम्बनत्वे किश्चिद्बाधकमस्ति, नापि च तत्र तस्य स्खलद्रूपता, तस्मादबाधितारखलपाहू15 प्रत्ययप्रास्यत्वादात्मनो नासिद्धिः । न चात्मन एकत्वे सिद्धे तत्प्रतिबद्धोऽनुसन्धानप्रत्ययः, तत्सिद्धौ च ततस्तस्यैकत्वमित्यन्योऽन्याश्रय इति वाच्यम्, य एवाहं घटमद्राक्षं स एवेदानीं तं स्पृशामीति प्रत्ययात् प्रत्यभिज्ञास्वरूपादात्मन एकत्वसिद्धेः । ननु किं प्रत्यभिज्ञायामात्मनो द्रष्टृता स्पष्टृतानुप्रवेशेन प्रतिभासते, अननुप्रवेशेन वा आये स्पष्टृतैव स्यात्, द्रष्टृतायास्तत्रानुप्रवेशात् तथा चाहं द्रष्टां स्पृशामीत्युभयावभास्येकं प्रत्यभिज्ञानं न स्यात्, द्वितीयेप्येकं 20 प्रत्यभिज्ञानं न स्यात्, दर्शनस्पर्शनावभासयोर्भेदात्, तथाप्येकत्वे घटपटप्रतिभासयोरप्येकत्वं स्यात् । न च प्रतिभासभेदेऽपि तद्विषयस्यात्मनोऽभेद इति वक्तुं शक्यम्, अभेदासिद्धेः, प्रतिभासभेदात् । न च स्वतोऽभेदः, तस्याद्यापि विवादविषयत्वात् । न च दर्शनस्पर्शनावस्थयोर्भेदेऽपि चिद्रूपस्यावस्थातुरभिन्नत्वान्न दोष इति वाच्यम्, दर्शनावस्थाप्रतिभासकाले तत्सम्बद्धस्यैवात्मनो ग्रहणात् स्पर्शनावस्थाया अनुत्पन्नत्वात् । तत्प्रतिभास काले च तत्सम्बद्धस्यैव 25 ग्रहणम्, दर्शनावस्थायास्तदानीं विनष्टत्वेनाप्रतिभासनात्, तथापि तत्प्रतिभासने चानाद्यवस्थापरम्पराप्रतिभासप्रसङ्गः, तथा च नोभयावस्थाव्याप्येकावस्थातृसिद्धिरिति चेन्न नीलादिप्रतिभासेऽप्येवं वक्तुं शक्यत्वात् । तथाहि किमेकनीलज्ञानपरमाण्वव भासोऽपरतन्नीलज्ञानपरमाण्ववभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन, नाद्यः, अपरतन्नीलज्ञानपरमाण्ववभासानामेकनीलज्ञानपरमाण्ववभासानुप्रवेशेनैकपरमाणुरूपतया तस्य चाननुभवान्नीलसंवेदना "Aho Shrutgyanam" $
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy