________________
सोपानम् ]
परलोकव्यवस्थापनम् । अनुमानेन निश्चीयते । न चैवं विधविषयेऽनुमानमितरेतराश्रयदोषान्न प्रवर्तत इति वक्तव्यम् , तथा सति सर्वभेदाभावात् व्यवहारोच्छेदात् , अतो तदुच्छेदमनभ्युपगच्छता व्यवहाराथिनाऽवश्यमनुमानमभ्युपगन्तव्यम् । न वाऽनुमानपूर्वकत्वेऽनवस्थेति प्रतिबन्धाग्रह इति शङ्कयम् , उक्तहेतोः व्याप्तिप्रसाधनाय केषांचिन्मतेन निर्विकल्पकस्य, अन्येषां तु चक्षुरादि. करणव्यापारजन्यस्य सविकल्पकस्य, अपरेषां मानसप्रत्यक्षस्य, केषाश्चिद् व्यावृत्तिग्रहणो. 5 पयोगिज्ञानस्य, अन्येषां प्रत्यक्षानुपलम्भबलोद्भूतालिङ्गजोहाख्यस्य परोक्षस्य प्रमाणत्वेन प्रवृत्तेः । न चास्मान् प्रत्यनुमानं न प्रमाणमिति वाच्यम् , अनुमानमात्रस्य प्रतिषेधासम्भवात्, अन्यथा लोकव्यवहारोच्छेदप्रसङ्गात् , प्रतियन्ति हि कोविदाः कस्यचिदर्थस्य दर्शने नियमेन किश्चिदर्थान्तरं न तु सर्वस्मात् सर्वस्यावगमः, अतः किञ्चिद् दृष्टा कस्यचिदवगमे निमित्तं कल्पनीयम , तच्च निमित्तं व्याप्तिरेव तदवगमश्च पूर्वोक्तप्रमाणादेव । यदि तन्निमित्ता । व्याप्ति भ्युपगम्यते तदा कथं न सर्वस्मात्सर्वप्रतिपत्तिः । न च परलोकिन आत्मनोऽ भावात् परलोकाभावः, न ह्यनाधनन्त आत्मा प्रत्यक्षेण सिद्धः, अनुमानेन चेदन्योन्याश्रय इति वाच्यम्, शरीरेन्द्रियविषयव्यतिरिक्तस्यात्मनोऽहंप्रत्यय प्रत्यक्षेणोपलम्भात्, तस्य च स्वसंवेदनप्रत्यक्षग्राह्यत्वात् । उपसंहृतसकलेन्द्रियव्यापारस्य हि अन्धकारस्थस्य च अहमिति ज्ञानं सर्वप्राणिनामुपजायमानं स्वसंविदितमनुभूयते तत्र च शरीराधनवभासेऽपि तद्वयति- 1 रिक्तमात्मस्वरूपं प्रतिभाति । न चैतज्ज्ञानमपह्रोतुं शक्यम , सर्वानुभवापलापप्रसङ्गात् , अनुभूयमानस्याप्यपलापात् । न चेदं नोत्पद्यते, कादाचित्क्रत्वविरोधात् । न च बहिरिन्द्रियव्यापारप्रभवम् , तद्व्यापाराभावेऽप्युपजायमानत्वात् । नापि शब्दलिङ्गादिनिमित्तोद्भूतम् , तदभावेऽप्युत्पत्तिदर्शनात् । न चेदं बाध्यत्वेनाप्रमाणम्, तत्र बाधकसद्धावस्यासिद्धेः । तथा कदाचिद् बाह्येन्द्रियव्यापारकालेऽपि यदा घटमहं जानामीति विषयमवगच्छति तदा स्वा-2 त्मानमपि, कर्मतया विषयस्य कर्तृतयाऽऽत्मनश्चावभासनात् । न च शरीरादीनामेव ज्ञातत्वम्, घटादिविषयस्येव प्रतीतिकर्मतया शरीरादेः प्रतिभासनात्, 'मम घटादयः, अहं घटादीनां ज्ञातेति प्रतीतिवत् ' मम शरीरादयः अहं शरीरादीनां ज्ञाते'ति प्रतीतेः । न वा ज्ञातुरप्रतिभासनम् , तदप्रतिभासे · ममैते भावाः प्रतिभान्ति नान्यस्ये ' त्येवं प्रतिभासाभावप्रसङ्गात् । तस्माल्लिङ्गायनपेक्षस्याऽऽत्मावभासस्य सद्भावात्स कथं न प्रत्यक्षप्रसिद्धः । 2 न चात्मावभासस्येन्द्रियव्यापाराजन्यत्वेन न प्रत्यक्षतेति वाच्यम् , इन्द्रियजन्यमेव प्रत्यक्षमित्यनभ्युपगमात्, इन्द्रियानिन्द्रियनिमित्तं यत्र यद्विशदं ज्ञानं तत्तत्र प्रत्यक्षमित्यभ्युपगमाच्च । न च शरीरसामानाधिकरण्येन 'कृशोऽहं स्थूलोऽह' मिति ज्ञानस्य भावाच्छरीरमेवाईप्रत्ययविषयो नात्मेति वाच्यम् , चक्षुरादीन्द्रियव्यापाराभावेन शरीरस्याग्रहणेऽपि अहमिति
"Aho Shrutgyanam"