________________
सम्मतितत्त्वसोपाने
[ पञ्चम सत्तामात्रेण हि नाविनाभावो गमकोऽतिप्रसङ्गात् किन्त्ववगत एव, स चाविनाभावो निखिलसपक्षविपक्षाप्रत्यक्षीकरणे दुर्विज्ञेयः । न च भूयोदर्शनतस्तदवगमः, सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात् , ततोऽप्रमाणमनुमान नातीन्द्रियपरलोकसद्भावप्रतिपादकम् । न च
जन्मेदं पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणपरलोकसिद्धिरिति वाच्यम् , यतो 5 यदीयमापत्तिस्तदा तल्लक्षणाभावान्न परलोकसिद्धिः, अस्य जन्मनो जन्मान्तरमन्तरेणानुपपत्तेरभावात् , मातापितृसामग्रीमात्रेण तस्योपपत्तेः । न चागमादपि परलोकसिद्धिः, तस्य प्रामाण्यासिद्धेः । न चाप्रमाणसिद्धं परलोकादिकमभ्युपगन्तुं युक्तम् , तदभावस्यापि तथाऽभ्युपगमप्रसन्नात् । न च भवतः परलोकनास्तित्वे किं प्रमाणमिति शङ्कयम् , परोपन्यस्तप्रमाणप
यनुयोगमात्रस्यैवास्माभिः क्रियमाणत्वादिति चेत् उच्यते, यत्कार्य तत्कार्यान्तरोद्भूतम् , यथा 10 पटादिलक्षणं कार्यम् , कार्यश्चेदं जन्मेति परलोकसिद्धिः न च प्रत्यक्षाभावेऽनुमानं कथं
प्रवर्तत इति वाच्यम् , प्रत्यक्षेण सम्बन्धग्रहणपूर्व परोक्षे पावकादौ यथाऽनुमानप्रवृत्तिस्तथा परलोकसाधनेऽपि तस्य प्रवृत्तेः । न चेहजन्मनः कार्यत्वमसिद्धम् , अकार्यत्वे हेतुनिरपेक्षतया नित्यसत्वासत्त्वप्रसङ्गात् । न च कादाचित्कत्वं पदार्थानां स्वभावत एव भविष्यति, प्रत्यक्षतः
कार्यकारणभावस्यैवासिद्ध्या तस्य कार्यकारणभावपूर्वकत्वस्य प्रत्यक्षतोऽनुपलब्धेरिति वाच्य. 15 म्, तथा सति सकलव्यवहारोच्छेदप्रसङ्गात् , बाह्येनाप्यर्थेन सह कार्यकारणभावस्यासिद्ध्या
स्वसंवेदनमात्रत्वादद्वैतम् , विचारतस्तस्याप्यभावेन सर्वशून्यत्वं वा स्यात् । अतः आत्मनो बाह्यार्थप्रतिबद्धत्वं प्रत्यक्षतः प्रतीयत एव, अन्यथा इहलोकस्याप्यप्रसिद्धेः, प्रत्यक्षतस्तजन्यस्वभावत्वानवगमे तस्य तद्वाहकत्वासम्भवात, यथा चेहलोकसाधनार्थ स्वार्थेन सहात्मनः प्रति
बन्धसाधकं प्रत्यक्षमङ्गीकर्तव्यम् , तथा परलोकसाधनार्थमपि तदेव साधनमिति सिद्धः पर20 लोकोऽनुमानतः, यथा च बाह्यार्थप्रतिबद्धत्वं प्रत्यक्षस्य कादाचित्कत्वेन साध्यते धूमस्यापि च
वहिप्रतिबद्धत्वम् , तथा इहजन्मनोऽपि कादाचित्कत्वेन जन्मान्तरप्रतिबद्धत्वमपि । ततोऽनलबाह्यार्थवत् परलोकेऽपि सिद्धमनुमानम् । न चेहजन्मादिभूतमातापितृसामग्रीमात्रादप्युत्पत्तेः कादाचित्कत्वं युक्तमेवेहजन्मन इति वाच्यम् , प्रदेशा दिसामग्रीविशेषादेव धूमादेः सम
नन्तरप्रत्ययमात्रसामग्रीविशेषादेव प्रत्यक्षसंवेदनस्य च कादाचित्कत्वाद्वहिबाह्यार्थप्रतीत्य25 सिया सकलव्यवहाराभावप्रसङ्गात् । यदि अन्यथाऽसम्भविन आकारविशेषादेवानलबा
ह्यार्थसिद्धिरित्युच्यते तर्हि प्रज्ञामेधाद्याकारविशेषादेवेहजन्मनोऽपि मातापितृशरीरव्यतिरिक्तनिजजन्मान्तरपूर्वकत्व सिद्धिः । यथा च तैमिरिकादिज्ञानव्यावृत्त आकारविशेष एवायं प्रत्यक्षस्य बाह्यार्थमन्तरेण न सम्भवतीति निश्चीयते, अन्यथा बाह्यार्थासिद्ध्या ज्ञानाद्वैतप्रसजात्, तथेहजन्मादिभूतप्रज्ञाविशेषात् इहजन्मविशेषाकारो निजजन्मान्तरप्रतिबद्ध इति
"Aho Shrutgyanam"