SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सोपानम् । परलोकव्यवस्थापनम् । तथाविधशीतस्पर्शस्यात्यन्तिकः क्षयः, सम्यग्ज्ञानोपचयतारतम्यश्चानुविधत्ते मिथ्याज्ञानापच. यतारतम्यमिति तदुत्कर्षेऽस्यात्यन्तिकक्षयसद्भावान्मिथ्याज्ञानकार्यरागाद्यनुत्पत्तेरावरणाभावः सिद्ध इति, रागादिविपभभूतवैराग्याभ्यासाद्वा रागादीनां निर्मूलतः भय इति कथं नावरणाभाव इति । तथा च सर्वज्ञावेदकप्रमाणसद्भावाद्वाधकप्रमाणविरहाच सर्वज्ञसिद्धौ जिनानां शासनमिति विशेषणात्सर्वज्ञविशेषसिद्धिः, इतरकपिलादिप्रणीतसिद्धान्तानां दृष्टेष्ट- 5 विषये विरोधात् । अतः स्थितमेतजिनशासनं तत्त्वादेव निश्चितप्रामाण्यमिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य सर्वसाधनं नाम तुर्य सोपानम् ॥ अथ परलोकव्यवस्थापनम् । इत्थं सर्वज्ञसिद्धौ स न तावत्कश्चिदतिरिक्तो जीवेभ्यः, न वा कश्चित्स्वभावत एव रागादिक्लेशरहितोऽपि तु स भवजिन एवेति परलोकसाधनाथ नैयायिकाद्यभिप्रेतेश्वरनिरसनार्थश्च भवजिनानामित्युक्तम् । ननु भवेति विशेषणेन नारकतिर्यनरामररूपपरिणतिस्वभावतया भवन्ति उत्पद्यन्तेऽस्मिन्निति प्रतिपादितं तच्चायुक्तं परलोकस्यास्तित्वे मानाभावात , तथाहि 15 तदभ्युपगन्तृभिः प्रत्यक्षमनुमानमागमो वा तत्र प्रमाणमभिधानीयम् , तश्च न सम्भवति, परलोकप्रतिपादकत्वेन प्रत्यक्षस्याप्रवृत्तेः, तस्य सन्निहितप्रतिनियतरूपादिविषयत्वात् , योगिन एवाप्रसिद्ध्या तत्प्रत्यक्ष स्याप्यसम्भवात् प्रत्यक्षाप्रवृत्तौ च तत्पूर्वकानुमानस्याप्यप्रवृत्तेः । सामान्यतो दृष्टस्यापि प्रतिपन्न लिङ्गप्रभवत्वेन तल्लिने तत एव प्रत्यक्षतोऽनवस्थानाचानुमानतो व्याप्तिप्रतिपत्तेरसम्भवात् , अस्मान् प्रति तस्य प्रमाणाभासवदनिश्चितार्थप्रतिपादकत्वेन 20 प्रमाणत्वासिद्धेः, विषयविचारेणापि अनुमानस्य प्रामाण्यायोगाच्च । तथाहि धर्मस्य धर्मिणः स्वतन्त्रतयोभयस्य वा तेन साधने सिद्धसाध्यता स्यात् , अतो विशेषणविशेष्यभावः साध्यः, विशिष्टप्रमेयविपयप्रमाजनकं हि प्रमाणं प्रमाणभावमश्नुते, इतरेतरावच्छिन्नश्च समुदायोऽत्र प्रमेयः, तदपेक्षया च पक्षधर्मत्वादीनां रूपाणामप्रसिद्धिः, न हि हेतुः समुदायधर्मः, न वा समुदायेन हेतोरन्वयो व्यतिरेको वा, केवलं धर्म्यपेक्षया पक्षधर्मत्वे धर्मापेक्षया चान्वये 25 व्यतिरेके वा प्रमाणस्य गौणता स्यात् । नापि एकदेशाश्रयेण त्रैरूप्यं युक्तं, व्याप्त्यसिद्धेः, - १ अयं भावः, अनुमानं तावन्न प्रमाणम् , गौणत्वात् , पक्षधर्मत्वं हि तज्जन कस्य हेतोः स्वरूपं पक्षश्च धर्मधर्मिसमुदायात्मा, तदनिश्चये कथं तद्धर्मताया हेतौ निश्चयः, तनिश्चये चानुमानं व्यर्थम् । ततोऽवश्यं पक्षधर्मव्यवहारसिद्धये धर्मधर्मिसमुदाय रूडोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युरचरणीयः, तस्मादित्थं पक्षस्य गौणत्वं तद्वौणत्वे च हेतोरपि गौणता तद्धर्मत्वात् , तजन्यत्वेनानुमानमपि गौणमिति न प्रमाणं गौणत्वादिति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy