________________
[ चतुर्थ
सम्मतितत्वसोपाने थंगतविशेषविषयत्वेन स्पष्टत्वात् । शब्दज्ञानजज्ञानपक्षेऽपि नान्योऽन्याश्रयः, अन्यान्यसर्वज्ञप्रणीतागमप्रभवत्वेन तदसम्भवात् , अनवस्था तु इष्यत एव, आगमसर्वज्ञपरम्पराया अ. नादित्वात् । स्वविषयग्रहणयोग्यज्ञानस्य तद्विषयाग्राहकत्वं विशिष्टद्रव्यसम्बन्धपूर्वकम् , यथा पीतहृत्पूरपुरुषज्ञानस्य, न गृह्णाति च सर्वमनेकान्तात्मकमिति सामान्यविषयं ज्ञानं तद्गत5 निखिलविशेषामिति पौगालिकातीन्द्रियधर्मादिसाधकहेतुसम्भवेन तज्ज्ञानस्य लिङ्गजत्वेऽपि
न क्षतिः । न च भावनाबलात्तज्ज्ञानवैशये कामादिविप्लुतविशदज्ञानवत इवासर्वज्ञत्वं शयम , भावनाबलाज्ज्ञान वैशद्यमनुभवतीत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात सकलदृष्टान्त. धर्माणां साध्यधर्मिण्यासञ्जनायोगात्, अन्यथा सकलानुमानोच्छेदप्रसङ्गात् , न हनुमान
गृहीतार्थस्य भावनाबलात् प्रतिभासिन्यभ्यासजन्ये ज्ञाने वैशद्यमनुभवतो वैपरीत्यं सम्भवति, 10 येन तज्ज्ञानं कामाद्युपप्लुतज्ञानमिवोपप्लुतं स्यात् । अन्वयव्यतिरेकाभ्याञ्च कुड्यादीनाम
प्यावारकत्वं न सम्भवति, सत्यस्वप्नप्रतिभासस्य हि अर्थग्रहणे न कुड्यादीनामावारकत्वम , निश्छिद्रापवारकमध्यस्थितेनापि भाव्यतीन्द्रियार्थस्यान्तरावरणाभावे प्रमाणान्तरसंवादिन उपलम्भात् , कुड्यादीनां त्वावरणत्वे तद्दर्शनमसम्भव्येव स्यात, तथाप्रतिभासेनादृष्टार्थेऽपि
कुझ्यादीन नावारकत्वम् । न च रागादीनां कथमात्यन्तिकः क्षयः, कथं वाऽविशदं ज्ञानम. 15 भ्यस्यमानमपि लङ्घनोदकतापादिवत् प्रकृष्टप्रकर्षावस्थायां वैशद्यञ्चावाप्नोतीति वाच्यम् ,
रागादीनां स्वरूपज्ञाने कस्या अप्यनुपपत्तेरभावात् , ज्ञानावरणहेतुत्वेन हि रागादीनामावा
रकत्वम् , तत्सद्भावे प्रबलप्रमाणनिश्चितस्य सर्वज्ञज्ञानस्याभावप्रसङ्गादनित्यत्वम् , अत एव ' च नाकस्मिकत्वं तस्य, मिथ्याज्ञानश्च तस्योत्पादकम् , न च मिथ्याज्ञानस्य नित्यत्वम् ,
तत्सद्भावे रागादीनां सद्भावेन तदावृतत्वात्सर्वज्ञज्ञानस्याभावप्रसङ्गात, आकस्मिकत्वे तु 20 तस्य कारणमन्तरेणापि प्रवृत्तेः रागादीनामपि प्रवृत्तौ सर्वज्ञज्ञानाभावप्रसङ्गतादवस्थ्यात्,
अहेतुकस्य मिथ्याज्ञानस्य देशकालपुरुषप्रतिनियमाभावेन भ्रान्ताभ्रान्तविभागाभावप्रसङ्गाश्च । नापि तत्प्रतिपक्षभूतोपायस्यापरिज्ञानम् , मिथ्यात्वविपक्षतया सम्यग्ज्ञानस्य निश्चितत्वात् , तदुत्कर्षे च मिध्याज्ञानस्यात्यन्तं क्षयात् । तथा च यदुत्कर्षतारतम्याद्यस्यापचयतारतम्यं तस्य विपक्षप्रकर्षावस्थायामात्यन्तिकक्षयः यथोष्णस्पर्शस्य प्रकर्षावस्थायां
25 १ अयं भाव: यद्यतो देशतः क्षीयमाणं समुपलभ्यते तत्ततः परमप्रकर्षावस्थाजायमानसर्वप्रक्षयम् , यथा
चिकित्सावाय्वादिभ्यो रोगमेघादि, समुपलभ्यते च देशतः क्षीयमानमावरणं सम्यग्दर्शनादिभ्य इति । यत्र हि आवरणविरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्धावस्तत्र तदत्यन्तनिवृत्तिसद्भाव आवश्यकः यथा चक्षुषि तिमिरादि, आवरणविरोधिसम्यग्दर्शनादिपरमप्रकर्षश्च कचिदात्मनि, यथा' कस्यचिच्चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धः तद्विरोधिविशिष्टा जनादिपरमप्रकर्षसद्धावसिद्धिश्च निर्विवादः सम्यग्दर्शनादेरावरणविरोधित्वञ्च तत्प्रकर्षे तदपकर्षदर्शनात् , यथोष्णस्पर्शः शीतस्पर्शस्येति ॥
"Aho Shrutgyanam"