SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] सर्वसाधनम् | परिसमाप्तिसम्भवात् । अन्यथा ' चोदना भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियमि 'त्यादिवचनस्य नैरर्थक्यं स्यात् । न वाऽन्योन्याश्रयः, यथा हि उपलब्धिलक्षणप्राप्ते सन्निहितदेशादावपरानुपलब्धेरपरमत्र नास्तीतीदानींतनानामियत्तानिश्चयस्तथा सर्वज्ञस्यापि सकलपदार्थग्रहणस्वशक्तिपरिच्छेदादियत्तानिश्चयसम्भवात्, अन्यथा घटादीनामपि क्वचित्प्रदेशेऽभावनिश्चयेऽन्यः 5 प्रकारासम्भवेन सकलव्यवहारविलोपप्रसङ्गः, तदेवं सकलपदार्थज्ञत्व सिद्धौ यावदुपयोगि तावदसौ जानातीत्याद्यपि निरस्तम् । ननु कथमतीतानागतवस्तुग्रहणम्, अतीतादीनां स्वरूपासम्भवात् । असत्स्वरूपग्रहणे च न तैमिरिकज्ञानवत्प्रमाणत्वं स्यात्, यदि त्वतीतादिकमपि वस्तु वर्त्तते तदाऽतीतादित्वादेरभावात्सर्वज्ञत्र्य व्यवहारोच्छेदः दः । न च प्रतिपाद्यापेक्षया तस्याभाव इति युक्तम्, विद्यमानस्यैवापेक्षया तदैवाविद्यमानत्वासम्भवात् । न चानुपलब्ध्याऽविद्य- 10 मानतेति वाच्यम्, तर्ह्यनुपलब्धेरेव सिद्धेः, न हि तावताऽविद्यमानत्वमपि सिद्ध्यति, एकस्याभावेऽपरस्याप्यभावाङ्गीकारेऽतिप्रसङ्गात् । न चासाव विद्यमानत्वेन तस्य प्रतिभातीत्यविद्यमानतेति वाच्यम्, असद्विकल्पसम्भवेन तस्य भ्रान्तत्वापत्तेः, असद्विकल्पस्य विषयी - करणेन च सर्वज्ञोऽपि भ्रान्त एव स्यात् । न च विकल्पोऽपि स्वरूपेऽभ्रान्त एव तस्य वेदनश्च सर्वज्ञज्ञानमभ्रान्तमिति वाच्यम्, तथा सति केवलं स्वरूपसाक्षात्करणादतीताद्य- 15 विद्यमान साक्षात्कारासम्भवात् । एवञ्चातीतानागतपदार्थाभावात्तत्साक्षात्करणासम्भवान्न तद्रहणात् सर्वज्ञः । स्वरूपमात्र संवेदने च तन्मात्रस्यैव विद्यमानतया तद्वेदनेऽद्वैतवेदनान सर्वज्ञव्यवहारः तद्भावे वा सर्वः सर्ववित् स्यात् । किञ्च पदार्थानामतीतानागतत्वं यदि अतीतानागतकालसम्बन्धित्वादुच्यते तर्हि कालस्यातीतानागतत्वं अपरस्मादतीतानागतकालसम्बन्धात्तनवस्था भवेत्, यद्यतीतानागतपदार्थक्रियासम्बन्धात्कालस्य तथात्वमुच्यते तदापि 20 पदार्थक्रियाणां तथात्वेऽपरापेक्षयाऽनवस्था । स्वरूपत एव कालस्यातीतानागतत्वे च पदार्थानामपि स्वत एव तथात्वसम्भवात् अतीतानागतकालसम्बन्धात्तथेत्ययुक्तम्, तथात्वे तु पदार्थस्वरूपस्य तस्यास्मदादिज्ञानेऽपि प्रतिभासनान्नास्मदादिभ्यः तादृशपदार्थग्राहित्वेन सर्वज्ञस्य कश्चिद्विशेषः इति चेदुच्यते, अतीतादेरसत्त्वासम्भव इति यदि हि तस्यातीतादिकालसम्बन्धित्वेनासत्त्वमुच्यते तन्न युक्तं वर्त्तमानकालसम्बन्धित्वेन वर्त्तमानपदार्थस्येव 25 तत्कालसम्बन्धितया तस्यापि सत्त्वात् । न चातीतादेः कालस्याभावोऽनवस्थाप्रसङ्गादिति वाच्यम्, अपरातीतादिकालसम्बन्धित्वात् पदार्थस्यातीतादित्वाद्वा कालस्यातीतादित्वमित्यनभ्युपगमात् । किन्तु स्वरूपत एवातीतादिसमयस्यातीतादित्वम्, अनुभूतवर्त्तमानत्वो ४ "Aho Shrutgyanam" १५ ।
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy