________________
सम्मतितस्वलोपाने
[ चतुर्य हि समयोऽतीत उच्यते अनुभविष्यद्वर्तमानत्ववानागतः, तत्सम्बन्धित्यात् पदार्थस्यातीतानागतत्वे अविरुद्ध एव । एकपदार्थधर्मस्यान्यत्रासञ्जयितुमशक्यत्वादेव च कालस्य स्वरूपेणैव तथात्वे पदार्थानामपि तथा भवत्वित्याशङ्काया अयोगः, अन्यथा निम्बादेस्तिक्तता
गुडादावप्यासञ्जनीया स्यात् । भवतु वाऽतीतादित्वं पदार्थधर्मस्तथापि नास्माकमभ्युपग5 मक्षतिः, विशिष्टपदार्थ परिणामस्येवातीतादिकालत्वेनेष्ठत्वात् , स्मरणविषयत्वं हि पदार्थस्या
तीतत्वं, अनुभवविषयत्वं वर्त्तमानत्वं स्थिरावस्थादर्शनलिङ्गबलोत्पद्यमान — कालान्तरस्थाय्ययं पदार्थ' इत्यनुमानविषयत्वमनागतकालत्वमुच्यते, तस्मादतीतादिकालस्य सत्त्वान्न तत्काल. सम्बन्धित्वेनातीतादेः पदार्थस्यासत्त्वम् । वर्तमानकालसम्बन्धित्वेन त्वतीतादेरसत्वाभिधा
नमस्माकमपीष्टमेव, न ह्यतीतकालसम्बन्धित्वसत्त्वमेवैतज्ज्ञानकालसम्बन्धित्वमस्माभिरभ्युप10 गम्यते, न वैतत्कालसम्बन्धित्वेनासत्त्वे स्वकालसम्बन्धित्वेनाप्यतीतादेरसत्त्वं भवति, अन्य
थैतत्कालसम्बन्धित्वस्याप्यतीतादिकालसम्बन्धित्वेनासत्त्वात्सर्वाभावः स्यादिति सर्वव्यवहारोच्छेदः स्यात् । न चातीतादेः सत्त्वेऽपि न सर्वज्ञज्ञाने तस्य प्रतिभासः, तज्ज्ञानकाले सस्यासन्निहितत्वात् , सन्निहितत्वे च तज्ज्ञानावभासिन इव वर्तमानकालसम्बन्धिनोऽतीता
देरपि वर्तमानकालसम्बन्धित्वप्राप्तः, न हि वर्तमानस्यापि सन्निहितत्वेन तत्कालज्ञानप्रति15 भासित्वं मुक्त्वाऽन्यद्वर्तमानकालसम्बन्धित्वम् , एवमतीतादेस्तज्ज्ञानावभासित्वे वर्तमान
त्वमेवेति वर्तमानमात्रपदार्थज्ञानवानस्मदादिवन्न सर्वज्ञः स्यात् , अतीतादेः तज्ज्ञानकालेऽसन्निहितत्वे तु तज्ज्ञाने न प्रतिभासः प्रतिभासे वा स्वज्ञान सम्बन्धित्वेन तस्य ग्रहणात्तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसक्तिरिति वाच्यम् , तज्ज्ञानेऽतीतादिकालपदार्थस्या
तीतादिकालसम्बन्धित्वेनैव प्रतिभासनात्त स्यार्थस्य वर्तमानकालसम्बन्धित्वाभावात् , यथा 20 सत्यस्वप्नज्ञानेऽस्मदादीनामसन्निहितकालोऽप्यर्थः प्रतिभाति न चासन्निहितस्य तस्यातीतादि
कालसम्बन्धिनो वर्तमानकालसम्बन्धित्वम् , नापि स्वकालसम्बन्धित्वेन सत्यस्वप्नज्ञाने तस्य प्रतिभासनात्तद्राहिणो ज्ञानस्य विपरीतख्यातित्वम , यत्र यन्यदेशकालोऽर्थोऽन्यदेशकालसम्बन्धित्वेनैव प्रतिभाति सा विपरीतख्यातिः। अत्र त्वतीतादिकालसम्बन्धी अतीतादिकालस
म्बन्धित्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसम्बन्धित्वेन वर्तमानत्वम् , नापि 25 तद्राहिणो विज्ञानस्य विपरीतख्यातित्वम् । अविसंवादवतोऽपि च ज्ञानस्याविसंवादविषये
विप्रतिपत्त्यभ्युपगमे संवेदनमात्रेऽपि विप्रतिपत्तिसद्भावादतिसूक्ष्मेक्षिकया तस्यापि तत्स्व
१ सर्वज्ञो ह्यतीतादेः स्वेनैव रूपेण प्रतिपद्यते, नैतावता तज्ज्ञानस्त्र प्रत्यक्षतानुपपत्तिः, परिस्फुटत. याऽर्थस्य ग्राहकत्वात् , परिस्फुटतयाऽर्थस्य प्रतिभास एवं हि प्रत्यक्षलक्षणम्, स चेदतीतादेयर्थस्यास्ति कथं न तद्वाहकज्ञानस्य प्रत्यक्षतेति भावः ॥
"Aho Shrutgyanam"