________________
[ चतुर्थ
सम्मतितस्वसोपाने द्धत्वम् । इत्थं संवादतो ग्रहोपरागादिवचनस्य तत्साक्षात्कारिज्ञानपूर्वकत्वे सिद्धे धर्मादिसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्ध्यति तत्रापि तस्य संवादात् । ज्योतिःशास्त्रादेहि ग्रहोपरा गादिकं विशिष्टवर्णप्रमाणदिग्विभागादिविशिष्ट प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्तिनां प्राणिनां प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते, उक्तश्च — नक्षत्र5 ग्रहपञ्जरमहर्निशं लोककर्मविक्षिप्तम् । भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृत' मिति । अतो ज्योतिःशास्त्रं ग्रहोपरागादिकमिव धर्माधर्मावपि प्रमाणान्तरसंवादतोऽवगमयति अतस्तत्साक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धम् , तसिद्धौ च सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धिमासादयति, न हि धर्माधर्मयोः सुखदुःखकारणत्वसाक्षात्करणं सहकारि
कारणाशेषपदार्थतदाधारभूतसमस्तपाणिगणसाक्षात्करणमन्तरेण सम्भवति, सर्वपदार्थानां 10 परस्परप्रतिबन्धादेकपदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपत्तिनान्तरीयकाऽतो भवति स
कलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेषस्य, तत्सिद्धौ च तत्प्रणेतुः सूक्ष्मान्तरितदूरानन्तार्थसाक्षात्कार्यतीन्द्रियज्ञानसम्पत्समन्वितस्य कथं न सिद्धिरिति । ननु सर्वज्ञज्ञानेन यत्सर्ववेदनं तत्कि सकलपदार्थग्रहणलक्षणं किं वा शक्तियुक्तत्वम्, न
प्रथमः, क्रमेण तद्हणे सकलपदार्थानामतीतानागतवर्तमानानामपरिसमाप्त्या तज्ज्ञानस्याप्य15 परिसमाप्तितः सर्वज्ञत्वायोगात् । युगपत्तद्रणे च शीतोष्णादीनां परस्परविरुद्धानामेकज्ञाने
प्रतिभासो न स्यात् , अन्यथा तज्ज्ञानस्य प्रतिनियतार्थाग्राहकत्वेनास्मदादिभ्योऽपि तज्ञानवान् हीनतरः स्यात् , किञ्चैकक्षण एवं युगपत्सर्वपदार्थग्रहणे द्वितीयादिक्षणेऽकिश्चिज्ज्ञ एवं स्यात् । न द्वितीयः, सकलपदार्थवेदनं विना तच्छक्तेातुमशक्यत्वात् । किश्व सर्वपदार्थज्ञान
परिसमाप्तावपि सर्वमियदेवेति कथं परिच्छेदशक्तिः, अपरवेदनाभावादिति चेत्कथं तन्निश्च20 यः, तदपेक्षयाऽन्यस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चय इति चेत्तहीतरेतराश्रयः,
सर्वज्ञत्वनिश्चये तदभावनिश्चयः, तदभावनिश्चये सर्वज्ञत्वनिश्चय इति । न च प्रधानभूतपदार्थजातं यावदुपयोगि तावदसौ वेत्तीति तत्परिज्ञानात् सकलज्ञ इति वाच्यम् , सर्वपदा.
वेदने सकलपदार्थव्यवच्छेदेनैषामेव प्रयोजननिर्वर्तकत्वमिति नियमासम्भवात् मैवम् , क्रमेणातीतानागतपदार्थवेदनमित्यनभ्युपगमात् , किन्तु क्रमतोऽनुभूतेऽपि शास्त्रार्थेऽत्यन्ता25 भ्यासाद्यथा न क्रमेण संवेदनमनुभूयते तद्वदत्रापि स्यात् । विरुद्धानामपि जलानलादीनां
छायातपादीनाश्चैकज्ञाने प्रतिभाससंवेदनात् प्रतिनियतार्थप्राहकत्वाच न योगपद्येऽपि दोषः । न चैकदैव सर्वपदार्थसंवेदनात् द्वितीयक्षणे पदार्थानां तज्ज्ञानस्य चाभावः स्यादिति वाच्यम् , तथाऽनभ्युपगमात् , अन्यथा द्वितीयक्षणे सर्वपदार्थाभावात् सकलसंसारोच्छेदः स्यात् , न वाऽपरिसमाप्तिर्दोषः, अत्यन्ताभ्यस्तशास्त्रार्थज्ञानस्येव युगपदनाद्यनन्तार्थप्राहिणस्तज्ज्ञानस्यापि
"Aho Shrutgyanam"