________________
सोपानम् ] सर्वसाधनम् ।
: २३: नापि शब्दसमधिगम्यः, नित्यस्य सद्रोधकस्यागमस्याभावात् , भावेऽपि तत्प्रतिपादकस्य सिद्धार्थस्य प्रामाण्याभावात् , कार्येऽर्थे तत्प्रामाण्यस्य स्वीकारात् । अनित्यस्य तत्प्रतिपादकस्याग मस्य तत्प्रणीतत्वेऽन्योऽन्याश्रयः, अन्यप्रणीतत्वे च न प्रामाण्यमुन्मत्तवाक्यवत्। सर्वज्ञत्वेनोपमानभूतस्य कस्यचित् प्रत्यक्षादितोऽसिद्धेनॊपमानादपि स समधिगम्यः, तत्सद्भावं विनाऽनुप. पद्यमानस्य प्रमाणषट्रकविज्ञातस्यार्थस्याभावेन नार्थापत्तिसमधिगभ्योऽपि । न वाऽभावप्रमाण- 5 समधिगम्यः, तस्थाभावसाधकत्वात् , तदेवं तत्सद्भावसाधकप्रमाणाभावात्कथं तत्प्रणीतं शासनं प्रमाणं भवितुमर्हतीति प्राप्ते अत्र प्रतिविधीयते, वचनविशेषः विशिष्टकारणपूर्वकः वचनविशे षत्वात् कठिना पृथिवीत्यादिवचोविशेषवदित्यनुमानेन सर्वविदः सिद्धेः सदुपलम्भकप्रमाणाविषयत्वमसिद्धम् , अत्र सर्वविदो धर्मित्वेनानुपादानान्नापक्षधर्मत्वादिदूषणमुद्भावयितुं युक्तम् , अत्रायं मानार्थः, यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः स 10 तत्साक्षात्कारिज्ञानविशेषप्रभवः, यथाऽस्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः, नष्टमुष्टिचिन्तालाभालाभविशेषादिविषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वेकवचनविशेषश्चार्य शासनलक्षणोऽर्थ इति, न चात्र हेतोर्वचनविशेषत्वस्य विशेषणमविसंवादित्वमसिद्धं वक्तुं शक्यम् , तादृग्वचनविशेषप्रतिपादितार्थानां प्रमाणान्तरतस्तथैवोपलभ्यमानत्वात् , यत्र कचिद्वचनविशेषे त्वया विसंवादः परिकल्प्यते सोऽपि सम्यक् तदर्था- 15 परिज्ञानादेव न तु तस्यासत्यार्थत्वान् , सामग्रीवैकल्याद्वा । नाप्यलिङ्गपूर्वकत्वविशेषणमसिद्धम् , नष्टमुष्टिग्रहोपरागादीनामस्मदादीन्द्रियाविषयत्वे तद्धेतुतयाऽभिमतानामपि तथात्वाततस्तत्प्रतिपत्त्यसम्भवात् , सम्भवे तु वचनविशेषमन्तरेणापि तल्लिङ्गदर्शनादस्माकमपि ग्रहोपरागादिप्रतिपत्तिर्भवेत् । न चोपदेशपरम्परया प्रमाणभूतो वचनविशेषोऽनुवर्तत इत्यनुपदेशपूर्वकत्वविशेषणमसिद्धमिति वाच्यम् , तस्योपदेशपरम्परापूर्वकत्वे वक्तदोषैरज्ञानादिभिः 20 श्रोतृदोषैः मन्दबुद्धित्वादिभिः क्षीयमाणस्य कदाचिन्मूलतोऽपि हान्यापत्तेः, तस्मादन्तराऽन्तरा विच्छिन्नोऽपि सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्तं कालं यावदागच्छतीत्यभ्युपगमनीयमिति नासिद्धत्वम् । अन्वयव्यतिरेकाभ्याच ग्रहोपरागौषधशक्त्यादयो ज्ञातुं न शक्यन्ते, ग्रहोपरागादीनां दिक्प्रमाणफलकालादिषु नियमाभावात् , एकस्याप्यौषधस्य नानाद्रव्यसंमिश्रणप्रभवायाश्शक्तः युगसहस्रेणापि ज्ञातुमशक्यत्वाद्रव्याणामनन्तत्वात् , त- 2 स्मान्न ग्रहोपरागादिवचनविशेषोऽन्वयव्यतिरेकपूर्वको येनानन्धयव्यतिरेकपूर्वकत्वविशेषणमसिद्धं स्यात् । न च प्रकृतवचनविशेषस्य साक्षात्कारिज्ञानपूर्वकत्वाभावेऽपि सम्भवादनैकान्तिकत्वमिति शङ्कयम् , सविशेषणस्य हेतोर्विपक्षे सत्त्वासम्भवात् । विपक्ष एव वर्तमानस्य हेनोविरुद्धत्वेनावगतस्वसाध्यप्रतिबन्धस्य हेतोर्विपक्षवृत्तित्वासम्भवाच न विरु
"Aho Shrutgyanam